Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
इत्युक्ता च किंचिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव प्रियसखी, लज्जेऽहम् । अनुपजातपरिचयाप्रागल्भ्येनानेन, गृहाण । त्वमेवास्मै प्रयच्छ' इत्युवाच सा ताम् । पुनःपुनरभिधीयमाना च तया कथमपि ग्राम्येव चिराद् दानाभिमुखं मनश्चक्रे । महाश्वेतामुखादनाकर्षितदृष्टिरेव वेपमानाङ्गयष्टिः, आकुललोचना, स्थूलस्थूलं निःश्वसन्ती, निजशरप्रहारमूर्छिता मन्मथेन स्नपितेव स्वेदजलविसरैः, स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव याचमाना, साध्वसपरवशा, पतामीति लेगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलम्, धनुर्गुणाकर्षणकृतकिणश्यामलं, कचग्रहाकृष्टिरुदितारिलक्ष्मीलोचनपरामर्शनलग्नाञ्जनबिन्दुमिव, विसर्पनखकिणतयातिरभसेन प्रधाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गुलीभिरुपेतम्, स्पर्शलोभाच्च तत्कालकृतसंनिवेशाः सरागाः पञ्चापीन्द्रियवृत्तीरंपराङ्गुलीरुद्वहन्तं -
***********
व्यक्तमिवास्फुटमिवेत्युवाचावोचत् । इतिद्योत्यमाह - किंचिदिति । किंचिदीषद्विवर्तितं परिवर्तितम्, अथ चावनमितं मुखं यया सैवंविधाह हे प्रियसखि, लज्जे पे । तत्र हेतुमाह - अनुपजातेति । अनेनसममनुपजातोऽनुत्पन्नः परिचयो यस्याः सा । प्रगल्भानां तत्क्षणादेव परिचय इत्यत आह - अप्रागेति । अप्रागल्भ्येनाधायेन । गृहाण । त्वमेवास्मै प्रयच्छ देहि । पुनः पुनरिवारमभिधीयमाना कथ्यमाना तया महाधेतया । त्रासवितर्कमूर्छादिव्यभिचारिभावावस्थान्तरमाह - कथमपीति । कथमपि महता कष्टेन ग्राम्येव ग्रामीणेव चिराच्चिरकालेन दानाभिमुखं मनश्चित्तं चक्रे विदधे । महाश्वेतामुखादनाकर्षिता दृष्टिर्यया सैवंविधैव वेपमाना कम्पमानाङ्गयष्टिर्यस्याः । आकुले व्याकुले लोचने नेत्रे यस्याः सा । किं कुर्वन्ती । स्थूलस्थूलं यथा स्यात् तथा निःश्वसन्ती एतनं गृह्णन्ती । मन्मथेन कंदर्पण निजशरप्रहारेणात्मीयबाणाभिघातेन मूर्छिता मूर्छा प्रापिता । स्वेदजलविसरैर्धर्मपानीयसमूहैः स्नपितेव स्नान कारितेव । स्वेदजलविसरैर्निमज्जनभयं तेन च हस्तावलम्बनमिव याचमाना । साध्वसं भयं तेन परवशा पराधीना । पतामीति कृत्वा लगितुमिव कृतः प्रयत्नो यया । सा ताम्बूलगर्भ हस्तपल्लवं प्रसारयामास विस्तारितवती । अथ नायकानुरक्तिविशेष प्रदर्शयन्नाह - चन्द्रेति । चन्द्रापीडः । तु पुनरर्थे । पाणिं कर प्रसारितवान्विस्तारितवान् । अथ पाणिनिष्ठमारुण्यातिशयं विशेषयन्नाह - जयेति । जयार्थं यः कुञ्जरो गजस्तस्य कुम्भस्थलं तस्यास्फालनेन तादृक्संयोगविशेषेण संक्रान्तं लग्नं सिन्दूर नागजं यस्मिन्नेतादृशमिव स्वभावेन स्वारसिकेन पाटलं तरक्तम् । धनुरिति । धनुषश्चापस्य यो गुणः प्रत्यञ्चा तस्याकर्षणमाकृष्टिस्तेन कृतो विहितः किणो रूढवणपदं तेन श्यामलं कृष्णम् । कचेति । कचग्रहेणाकृष्टिस्तया रुदिता या अरिलक्ष्मीः शत्रुरमा तस्या लोचनपरामर्शनेन लग्ना अजनबिन्दवो यस्मिन्नेतादृशमिव किणस्य कृष्णत्वात्तदुपमानमित्यर्थः । विसर्पन्तः प्रसरन्तो ये नखकिरणास्तेषां भावस्तत्ता तयातिरभसेनातिवेगेन प्रधाविताभिरिवोच्चलिताभिरिव, विवर्धिताभिरिव वृद्धि प्राप्ताभिरिव, प्रहसिताभिरिव हास्यं कुर्वाणाभिरिवाङ्गुलिभिः करशाखाभिरुपेतं सहितम् । स्पर्शलोभाच्चेति । स्पर्शस्य लोभो गर्धस्तस्मात्तत्कालं तस्मिन्क्षणे कृतः संनिवेशः प्रवेशो याभिस्ताः । सरागा रागेण सहवर्तमानाः । पञ्चापीन्द्रियवृत्तीरपराङ्गुलीः पूर्वोक्तभिन्नाः करशाखा उद्वहन्तं -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनुपजातपरिचया प्रागल्भ्येनानेन' इति पाठः । पूर्वतः परिचयाभावेऽपि अनेन प्रागल्भ्येन ताम्बूलदानरूपधाष्टयेन लज्जे इति तदर्थः । 2 मूर्छितो हि जनः स्वीयैर्जनैरम्बुना स्नाप्यते । 3 चन्द्रापीडदेहे संसक्तुम् । 4 'अपरा इवाङ्गुलीरुद्वहन्तम्' इत्यपि पाठः । कादम्बरीस्पर्शलोभात् तत्काल कृतः संनिवेशः (उपस्थितिः) याभिः ईदृशीः पञ्चापि इन्द्रियवृत्तीः (तद्दर्शनतद्वार्ताश्रवणादिव्यापारान) अपराः अङ्गलीः इव उद्वहन्तमित्यर्थः । पाठा० - १ कादम्बरी. २ चिरेण. ३ अनाकृष्ट. ४ आकुलित; आमुकुलित. ५ निश्वसन्ती. ६ विगलितुम्; लापितुम्. ७ प्रभाविताभिः; प्रसारिताभिः. ८ अपरा इवाङ्गलीः; इवाङ्गुलीः.
चन्द्रापीडदर्शने कादम्बर्या भावावेशः
पूर्वभागः ।
1401)
Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494