Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
सङ्गनिष्ठुरामपि मे सविशेषस्वभावसरलैर्गुणैरोकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदैग्धजनः । यतो दृष्ट्वा चेममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्धर्वृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषी - लोचनानाम्, एकस्थानसमागमं च सर्वकलानाम्, ऐश्वर्यं च सौभाग्यस्य, अग्राम्यतां च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुवारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्कां यथा मयि तथात्रापि प्रवर्तितव्यम् । एष ते मित्रं च बान्धवश्च परिजनश्च' इत्यावेदिते तया चन्द्रापीडः प्रणाममकरोत् ।
कृतप्रणामं च तं तदा कादम्बर्यास्तिर्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोर्चेनयोरपाङ्गभागं गच्छतस्तारतारकस्य लोचनस्य श्रमसलिललवविसर इवानन्दबाष्पजलबिन्दुनिकरो निपपात ।
****
स्वभावसरलैः स्वारसिकऋजुभिर्गुणैर्मे मम चित्तवृत्तिमाकृष्यायं वर्तते । ततः किमित्यत आह - दुर्लभ इति । यतोऽयं जनो विदग्धजनः । हीति निश्चये । सर्वथा दुर्लभो दुःप्रापः एनं विशेषयन्नाह - दाक्षिण्येति । दाक्षिण्यमनुकूलता तेन परवशः पराधीनो निर्निमित्तं निष्कारणं मित्रं सुहृदकृत्रिमं स्वाभाविक हृदयं चेतो यस्य सः । मायानिर्मुक्त इत्यर्थः । मायया च चेतोवैपरीत्यं जायत इति भावः । इमं जनं दृष्ट्वा चाहमिव त्वमप्येतत्सर्वं ज्ञास्यसीत्यन्वयः । एतदेव प्रदर्शयन्नाह - निर्माणेति । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य चेति । रूपस्य सौन्दर्यस्य निःसपत्नतां निर्विपक्षताम् । लक्ष्म्याः श्रियः स्थाने योग्यस्थलेऽभिनिवेशित्वं स्थायित्वम् । पृथिव्या वसुधायाः सञ्छोभनो भर्ता पतिस्तस्य भावस्तत्ता तस्याः सुखं सातम् । मर्त्यलोकस्य मनुष्यलोकस्य सुरलोकादतिरिक्ततामाधिक्यताम् । मानुषीलोचनानां स्त्रीनेत्राणां सफलतां साफल्यं च । सर्वकलानां समग्रविज्ञानानामेकस्मिन् स्थाने समागमः संबन्धश्च । सौभाग्यस्य सुभगताया ऐश्वर्यं प्रभुत्वम् । तथा मनुष्याणां मानुषाणामग्राम्यतां नागरिकतां ज्ञास्यसि इति हेतोर्मया बल्लादानीतः अयम् । कथितेति । अस्य चन्द्रापीडस्य मया बहुवारमनेकवारं प्रियसखी कथिता निवेदिता । तदिति हेत्वर्थे । अपूर्वमभिनवं दर्शनं यस्यैवंविधोऽयमितिकृत्वा लज्जां त्रपां विमुच्य विहाय । अन्विति । अनुपजातः परिचयो यस्यैवंविध इतिकृत्वाऽविश्रम्भतामविश्वासतामुत्सृज्य त्यक्त्वा । अविज्ञातमविदितं शीलं स्वभावो यस्येतिकृत्वा शङ्कामपहाय दूरीकृत्य यथा मयि तथात्राप्यस्मिन्नपि प्रवर्तितव्यम् । एष चन्द्रापीडस्ते तव मित्रं च बान्धवः परिजनश्च । तया महाश्वेतयेत्यावेदिते निवेदिते सति चन्द्रापीडः प्रणामं नमस्कारमकरोत् ।
तदा कृतप्रणामं विहितनमस्कारं च तं विलोकयन्त्याः पश्यन्त्याः कादम्बर्याः सस्नेहं यथा स्यात्तथातिदीर्घयोर्लोचनयोरपाङ्गभागं निर्याणदेशं गच्छतो व्रजतस्तारा मनोहरा तारका कनीनिका यस्मिन्नेतादृशस्य लोचनस्य श्रमसलिलस्य स्वेदप्रभवपानीयस्य लवास्तेषां विसर इव समूह इव । आनन्दः प्रमोदस्तस्माद्यद्वा -
टिप्प० - 1 सौन्दर्ये अस्य कोपि प्रतिद्वन्द्वी नास्तीत्यर्थः । 2 अस्य लाभाद् भाग्यवत्ताया महासमृद्धिं मंस्यस इत्याशयः । 3 'सस्नेहमतिदीर्घलोचनापाङ्गभागं गच्छतस्तारकस्य श्रमसलिल०' इत्युचितः पाठः । अतिदीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्यग्विलोकनसमये नेत्रकनीनिका दीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्यग्विलोकनसमये नेत्रकनीनिका दीर्घस्य लोचनस्य प्रान्तभागे गता । प्रान्तभागश्च दूरवर्ती, यतो हि सुदीर्घं लोचनम् । अत एव दीर्घलोचनमध्ये दूरगमनात् तारकस्य श्रमो जातः । अत एव श्रमस्वेदबिन्दुवत् अश्रु पपातेत्याशयः । विशालनेत्रतया नायकस्य सौन्दर्यातिशयो व्यङ्ग्यः । ' कनीनिकायां नक्षत्रे तारकं तारकेति च' इति विश्वः ।
पाठा० - १ सविशेषः २ आक्रम्य. ३ विदग्धो जनः ४ बहुप्रकारम् ५ वर्तितव्यम्. ६ लोचनापाङ्ग; लोचनाया अपाङ्गः ७ तारकस्य श्रम.
चन्द्रापीडदर्शने कादम्बर्या भावावेशः
पूर्वभागः ।
397
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494