Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 393
________________ मण्डलसहसैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसंनिवेशम्, आभरणप्रभाभिरिव निष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलजनप्रेवेशम्, श्रृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव, कुमारः कुमारीपुराभ्यन्तरं ददर्श । अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अतिनिभृतभ्रूलताविभ्रमैः कामकार्मुकबलानीव प्रचलितानि, शिरसिजकलापान्धकारैर्बहुलपक्षप्रदोषसार्थानिव संबध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलालोकर्माणिक्यदर्पणसहसाणीव स्फुरितानि, करतलरागेण - *********** कृतविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह - ज्योत्स्नयेति । ज्योत्स्नया चन्द्रिकया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशमिव । अमृतरसविश्रुतेर्वा साम्यम् । आभरणेति । आभरणप्रभाभिभूषणकान्तिभिर्निष्पादितं दिगन्तरं दिगवकाश यस्मिनेतादृशमिव । एतेनाभरणानामतिशयो योतितः । विभ्रमैरिति । विभ्रमैपूँसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशमिव । यौवनेति । यौवनविलासैस्तारुण्यविलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशमिव । रतीति । रतिः कामयोषित्तद्विलसितै रचितः संचयः समूहो यस्मिन्नेतादृशमिव । मन्मथेति । मन्मथाचरितैः कंदर्पाचरणैः कल्पितोऽवकाशोऽवगाहो यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीत्यानुलिप्तः सकलजनप्रवेशो यस्मिन्नेवभूतमिव । श्रृङ्गारमयमिव संभोगमयमिव सौन्दर्यमयमिव सुरूपतामयमिव । सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव । कुसुमशरमयमिव कंदर्पबाणमयमिव । कुतूहलमयमिव कौतुकमयमिव । सौकुमार्यमयमिव मार्दवमयमिव । चन्द्रापीडस्तस्मिन्कुमारीपुराभ्यन्तर एतान्यद्राक्षीत् तान्येवाह - अतीति । तस्य कन्यकाजनस्यातिबहलतयातिबाहुल्यतया समन्तादाननयुतिभिर्मुखकान्तिभिः कृत्वा पतन्ती क्षरन्तीमिन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव । अत्र मुखे तत्तदतिशयो व्यङ्ग्यः । अपाङ्गेति । अपाङ्गविक्षेपैः कटाक्षैश्चलितं कम्पितं यत्कुवलयवनमुत्पलखण्डं तन्मयीमवनी पृथ्वी क्रियमाणामिव । प्रबलेन दुर्बलस्योच्चालनं संभवतीति कुमुदातिशयोऽपाङ्गेषु द्योत्यते । अतीति । अतिनिभृता निश्चला ये भ्रूलताविभ्रमास्तैः प्रचलितानि गन्तुं प्रवृत्तानि कामकार्मुकस्य कन्दर्पचापस्य बलानीवोत्कर्षरूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः । शिरसीति । शिरसिजाः केशास्तेषां कलापाः समुदायास्तद्रूपाण्यन्धकाराणि तैर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थान्यामिनीमुखसमूहान्संबध्नत इव संग्रथ्नत इव । एतेन केशकलापेषु श्यामतातिशयो द्योत्यते । स्मितेति । स्मितं हास्यं तस्य प्रभाभिः कान्तिभिरुत्फुलकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव । श्वसितेति । वसितानिलस्य वासवायोः परिमलैरामोदैर्मलयमारुतान्परिभ्रमत इव संचरत इव । कपोलेति । गल्लात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्तस्यालौकेः प्रकाशैः स्फुरितानि माणिक्यदर्पणसहसाणीव रत्नादर्शदशशतानीव । एतेन कपोलयोः स्वच्छतातिशयो दर्शितः । करेति । करतलरागेण रक्तकमलवनवर्षिणं जीवलोकमिव । कररुहा नखास्तेषां स्फुरणेन - - - - - - - - - -- टिप्प० -1 विलासैः । 2 अविचारितार्थोयं पाठः । 'अनुलिप्तसकलजनप्रदेशम्' इत्येव पाठः । प्रदेशस्यैव अनुलेपार्हत्वात् । 3 बलानीति पाठो लिपिकृता भ्रान्तीकृतः । 'कामकार्मुकविलासशतानि' इत्येव पाठः । भृकुटीनामेव कार्मुकेण साकं तुलनौचित्यात् । - - - - - - - - - - - - - - - पाटा० - १ विरचित. २ प्रदेशम्. ३ प्रेममयमिव, कुमारः. ४ अनिभृत. ५ शतानि; विलासशता. ६ केशनि. 380 कादम्बरी। कथायाम

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494