Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 403
________________ पवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रोगाविष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारासदेहकारिणं कर्णपाशं दोलायमानपत्रमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनचूडामणेः क्षरतांशुजालेन मदिरारसेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्धप्रविष्टहरगर्वितगौरीविजिगीषयेव सर्वाङ्गानुप्रवि - *********** द्रस्योद्गताभ्यां प्रादुर्भूताभ्यां तरङ्गाभ्यामिव । विद्रुमेति । विद्रुमलतावल्लोहिताभ्यां रक्ताभ्यामधराभ्यां दन्तच्छदाभ्यां तथा रक्तावदातेन स्वच्छा निर्मला कान्तिर्यस्यैवंविधेन । मदिरेति । मदिरारसः कापिशायनद्रवस्तेन पूर्णं भृतं माणिक्यशुक्तिसंपुटं तद्वच्छविः कान्तिर्यस्यैवंविधेन कपोलयुगलेन । तथा रतः परिवादिनी सप्ततन्त्रीभिर्युक्ता वीणा तस्या रत्नमयो यः कोणो वीणादिवादनं तद्वच्चारुणा मनोहरेण नासावंशेन च नासिकावेणुना च विराजमाना शोभमानाम् । गतीति । गतिर्गमनं तस्य प्रसरो विस्तारस्तस्य निरोधिप्रतिद्वन्द्वि यच्छ्रवण तस्य यः कोपस्तस्मादिव किंचिदारक्तेऽपाङ्ग निर्याणे यस्य स तेन । निजेति । निजमात्मीयं यन्मुखं तस्या या लक्ष्मीः श्रीस्तस्या निवासार्थं दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्रयुग्मेन लोचनमयमिव जीवलोक कर्तुमुद्यताम् । कपोलावधिश्यामलेखाद्वयसाम्येनाह - उन्मदेति । उद्गतो मदो यस्मादेवभूतं यद्यौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजीव राजी ताभ्यां भ्रूलताभ्याम् । तथा रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवंविधेन मन्मथहृदयेनेव कंदर्पस्वान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विद्योतितं प्रकाशित ललाटपट्ट यस्याः सा ताम् । केचित्तु : मन्मथो हृदये यस्मात्, तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेश एवंविधेनेवेति व्याख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरणविशेषम् । दोलायमानं पत्रं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च । आयं विशेषयन्नाह - उत्कृष्टेति । उत्कृष्टा अत्यद्भुता या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात्कमलमकरन्दस्याप्येवंभूतत्वात्तसाम्येनाह - आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता सस्ता या मधुधारा तस्याः सदेहकारिणमारेकाजनकम् । पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिक येनैवंविधेन सीमन्तचुम्बिनः केशवम॑चुम्बिनचूडामणेः शिरोमणेरंशुजालेन किरणसमूहेन । क्षरता सवता अनेकवर्णत्वसाम्यादाह - मदिरारसेनेव प्रक्षाल्यमानो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहार्धे शरीराधैं प्रविष्टो यो हर ईश्वरस्तेन गर्विता गर्वं प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्रविष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाङ्गानङ्गप्रवेशेन गौर्याः सका - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'मिजराफ' इति प्रसिद्धः । 2 कर्णपाशनामको नाद्यावधि श्रुतो भूषणविशेषः । पाशाकारं (शष्कुल्याकार) कर्णमित्यर्थः । उत्कृष्टहेमनिर्मिततालीपत्राकार(भूषणविशेष)व्याप्तम्, दोलायमानं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यस्मिन् (बहुविहिगर्भो बहुव्रीहिः) एवंविधं कर्णपाशम् (प्रशस्तं कर्णम्) दधतीमिति तदर्थः । कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रम् ('पीपलपत्ता' इत्यादि भाषाख्यातम्) इति बहुव्रीहिद्वयार्थः । पाठा० - १ नयनमयम्. २ रागाविष्ट. ३ एकमाश्लिष्टहेमताटीपुराभरणमपरम्. ४ चुम्बितचूडामणेः. ५ रागेण. 390 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494