Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 404
________________ ष्टमन्मथदर्शितसौभाग्यविशेषाम्, उरः समारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रतिबिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनिहितैकचन्द्रविस्मितहराभिमाननाशाय विलासस्मितैश्चन्द्रसहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनीजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम्, 'परिजननूपुररवप्रैस्थितं दुर्लभं च हंसमिथुनं मृणालनगडकेन बद्ध्वानय' इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखालिर्हेतेर्हरिणशावकाय सखीश्रवणादपनीय यवाङ्कुरप्रसवं प्रयच्छन्तीम्, आत्मवर्धिर्तलताकुसुमनिर्गमनिवेदनागतामुद्यानपालीमशेषाभरणदानेन संमानयन्तीम्, उपनीतविविधवनकुसुमफलपूर्ण - *********** 1 शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरः स्थले समारोपिताऽवस्थापिता या लक्ष्मीस्तया मुदितो हर्षं प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिःसंयोग वियोगमात्रेण परं न शरीरान्तर्गतेत्येवंरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीयदेहस्य । सार्वविभक्तिकस्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् । उत्तमाङ्गे शिरसि निहितः स्थापितो य एकोऽद्वितीयश्चन्द्रः शशी तेन विस्मितो हर ईश्वरस्तस्याभिमानोऽहंकारः एका चन्द्रस्य कला, सापि स्वोत्तमाङ्गे एव, नान्यस्य कस्यचित्, स्वतन्ववयवे बर्हिवा, इत्येवंरूपस्तद्वैपरीत्येन तदभि (मान) नाशाय विशदाह्लादकत्वसाम्येन विलासस्मितैर्दिक्षु चन्द्रसहस्राणीवं क्षिपन्तीम् । तादृशस्मितान्येव चन्द्रसहसरूपतां प्राप्तानीत्यर्थः । निर्दयदग्धेति । निर्दयं निष्करुणं दग्धो ज्वालित एकोऽद्वितीयो मन्मथः कंदर्पो येनैवंभूतो यः प्रमथनाथ ईश्वरस्तस्मिन्यो रोषः क्रोधस्तेनेव प्रतिहृदयं मन्मथस्यायुतानि संख्याविशेषाण्युत्पादयन्तीं निर्माणं कुर्वन्तीम् । रजनीति । रजन्यां यो जागरो जागरणं तेन खिन्नस्यैवंविधस्य परिचितं स्ववशमानीतं यच्चक्रवाकमिथुनं द्वन्द्वचयुग्मं तस्य स्वप्तुं शयनं कर्तुं क्रीडानदिकासु क्रीडातटिनीषु कमलानां नलिनानां धूलयः परागास्ता एव वालुकाः सिकतास्ताभिर्बालपुंलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तेषु वक्ष्यमाणेषु वा यत्र यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं बोद्धव्याः । यथा निजरूपतः प्रतिबिम्बैरित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुलिनक्रियातिशयश्च । परिजनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं दुष्प्रापं च हंसमिथुनं चक्राङ्गयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बद्ध्वा नियम्यानय मत्समीपं प्रापय । इति हंसपाली हंसारक्षानियुक्तामादिशन्त कथयन्तीम् । पुनः किं कुर्वन्तीम् । आभरणानां भूषणानां मरकतान्यश्मगर्भाणि तेषां मयूखान्किरणालिहत आस्वादयते हरिणशावकाय मृगशिशवे सखीश्रवणाद्वयस्याकर्णाद्यवाङ्कुरप्रसवं हयप्रियोद्गमपुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् । आत्मेति । म स्वयं वृद्धिं प्रापिता या लता वल्ली तस्यां कुसुमनिर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुद्य नपाली वनरक्षानियुक्तामशेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधान्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्णं भृतं पत्रपुटं यया सा ताम् । अविज्ञायमानो य आलापः संलापस्तस्य भावस्तत्ता तया हासहेतुं परिहासनिमित्तं पुनः पुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशर्बरी पुलिन्दपत्नीम् । टिप्पo - 1 लघुसैकतानि । 2 ' क्रीडापर्वतकपातृशबरीम्' इत्यपि पाठः । क्रीडापर्वतस्य पात्री रक्षिका या शबरीति तदर्थः । हंसपाली उद्यानपाली प्रकरणेन पर्वतपालिकायाश्च स्पष्टं प्रतिभासनात् । प्राकृतपर्वते निवसन्ती शबरी मनुष्यभाषां न जानाति । किन्तु कृत्रिमक्रीडापर्वतरक्षिकाऽपि स्वस्वामिनो भाषां न बुध्यत इति अतिशयकल्पनमेव बाणस्य । पाटा० - १ एकलक्ष्मी. २ स्विन्नस्य ३ प्रस्थितं वल्लभं च हंसमिथुनम् प्रस्थितं च वल्लभहंसमिथुनम् ४ लिहतेहरिततृणसूचीलोभेन. ५ भवनहरिण. ६ संवर्धितलताप्रथमकुसुम. ( कादम्बरीवर्णनम् पूर्वभागः । 391

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494