Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
नाभि॑िमण्डलमावर्तिनीमुद्वहन्तीम्, त्रिभुवनविजयप्रशस्तिवर्णावलीमिव लिखितां मन्मथेन रोमेराजिमञ्जरीं बिभ्राणाम्, अन्तःप्रविष्टकर्णपल्लवप्रतिबिम्बेनाति भरखिद्यमानहृदयकरतलप्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुखकर्णाभरणमयूखाभ्यामिव प्रसृताभ्याममललावण्यचलमृणालाभ्यां बाहुभ्यां नखकिरणविसरवर्षिणा च माणिक्यवलयगौरव श्रमवशात्स्वेदजलधाराजालकमिव मुञ्चता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोच्चैः करैर्गृहीतचिबुकदेशाम्, अभिनवयौवन
-
***********
पिकामुद्वहन्तीं धारयन्तीम् । त्रिभुवनेति । मन्मथेण कंदर्पेण लिखितां लिपीकृतां त्रिभुवनस्य यो विर्जयो जयस्तस्य प्रशस्तिवर्णाः श्लाघाक्षराणि तेषामावलीमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । अन्तरिति । अन्तः प्रविष्ट एवंभूतः कर्णपल्लवस्य यैः प्रतिबिम्बस्तेन तन्मिषेणातिभरेण अर्थात्कामभारेण खिद्यमानं पीड्यमानं यद्धृदयं तस्य मृदुत्वरक्तत्वसाम्यात् । अत्र च प्रतिबिम्बरूपेण करतलेनेव प्रेर्यमाणं नोदनाविषयीक्रियमाणमेवंभूतम् । अत एव निष्पतता बहिर्निःसरता दृढत्वान्मकरकेतोर्मदनस्य पादपीठेनेव पदासनेनेव स्तनभरेण भूषितां मण्डिताम् । अधोमुखेति । बाहुभ्यां भुजाभ्यां करयुगलेनेव समुद्भासितां विभ्राजिताम् । बाहुमुत्प्रेक्षयन्नाह - अधो इति । अधोमुखेऽवाङ्मुखे ये कर्णाभरणे श्रवणभूषणे तयोर्मयूखाभ्यां किरणाभ्यां प्रसृताभ्यामत्यन्तप्रवृद्धाभ्यामिव । अतिकोमलसाधर्म्यात् उपमान्तरं प्रदर्शयन्नाह - अमलेति । अमलं निर्मलं यल्लावण्यजलं पानीयं तस्य मृणालकाभ्यामिव तन्तुलाभ्यामिव । करयुगलं विशेषयन्नाह - नखेति । नखाः पुनर्भवास्तेषां किरणास्तेषां विसरः समूहस्तद्वर्षिणा तद्दृष्टिकारिणा । किरणविसरस्य श्वेतत्वसाम्यादाह माणिक्येति । माणिक्यवलयानां रत्नकटकानामप्युद्वहनगौरवेण श्रम इति सौकुमार्यं ध्वन्यते । तद्वशात्स्वेदः प्रस्वेदस्तस्य जलधाराजालकमिव मुञ्चता त्यजता । पुनः कीदृशीम् । स्तनेति । हारेण मुक्ताकलापेनोच्चैः करैः स्वकिरणैस्तैरेव वा करैर्गृहीतश्चिबुकदेशो नासिकाधःप्रदेशो यस्याः सा ताम् । किं कुर्वता हारेण । स्तनभारेणावनम्यमानं नम्रतां नीयमानमाननं मुखमुन्नमयतेवोच्चैः कुर्वतेव । अभीति । अभिनवं नूतनं यद्यौवनं तारुण्यं तदेव चञ्चलत्वात्पवनस्तेन क्षोभितस्य क्षोभं प्रापितस्य रागसागरस्य रागसमु -
-
टिप्पo - 1 सौन्दर्येणानया त्रिभुवनं विजितमिति कामदेवसदृशेन (निर्णायकेन) लिखितामित्याशयः । ' मन्मथेन आत्मनस्त्रिभुवनविजयस्य प्रशस्तिः स्वयं लिखितेत्यर्थस्तु' मन्ये न तथा मनोरमः स्यात्, स्वयं स्वप्रशस्तिलेखस्यानुचितत्वात् । 2 स्वच्छतया अन्तः प्रविष्टं कर्णपल्लवप्रतिबिम्बं यस्य तादृशेन अतिभरखिद्यमानेन हृदयेन (क) करतलेन (हृदयपतितमेतद्विम्बमेव हृदयस्य करतलं तेन, 'करणेन') प्रेर्यमाणेनेत्यर्थः । अयं भावः - कोमलं हृदयं कामपीटायितस्तनभारेणात्यन्तं खिन्नम् । अत एव कर्णपल्लवप्रतिबिम्बरूपेण स्वस्य (हृदयस्य) करतलेन तत् (स्तनरूपं कामपादपीठम् ) खेदभरासहनतया बहिर्निस्सार्यमाणमस्ति, अत एव तु क्रमशो निर्गच्छतीत्याशयः । 3 बाहुभ्यां तथा करयुगलेन च समुद्भासितामिति वाक्यार्थः । तत्र बाहुभ्यामित्यत्र कर्णाभरणसंबन्धिस्थूलकिरणत्वं मृणालत्वं चोत्प्रेक्ष्यते । करयुगलसंबन्धिनखकिरणप्रसरणे च स्वेदजलधारावर्षणमुत्प्रेक्ष्यते इति विवेकिभिराशयो बोध्यः । 4 हस्तैः । यथा हस्तैस्तथा किरणैश्चिबुकप्रदेशः स्पृष्टः । उन्नामयता इवेत्युप्रेक्षा, करशब्दश्लेषमूलकेन चिबुककर्मकस्पर्शग्रहणयोरभेदाध्यवसायेनातिशयोक्तिश्चेत्यनयोः संकरः ।
पाटा० - १ मण्डलीम्; स्थलीम्. २ रोमराजी. ३ मृणालकाण्डाभ्याम् ४ वहनश्रमात्. ५ ऊर्ध्वेः.
( कादम्बरीवर्णनम्
पूर्वभागः ।
389
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494