Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 406
________________ पक्षिरवापनीतनीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम, उदधिवेलावनलेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्तिमिवोद्दाममन्मथविलासगृहीतगुरुकलत्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमध्याम्, दिनमुखमिव भास्वन्मुक्तांशुभिन्नपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बिशिखण्डभारविस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफल - *********** विद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूलः शब्दो यया सा । कामिनामुपभोगविषयकालाप उद्दीपकत्वात्कादम्बर्येवोत्पादित इत्यर्थः । ततोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादेवस्तस्य मदः । मदनसहसोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिणस्तेषां रवेण शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति । गौरी पार्वती तामिव श्वेतमंशुकं वस्त्रं यस्याः सा । विरचितान्युत्तमाङ्गावध्याभरणानि भूषणानि यया सा । पश्चात्कर्मधारयः । ताम् । पक्षे श्वेता अंशवः किरणा यस्यैवंभूतः श्वेतांशुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यया । हारस्येति शेषः । उदधीति । उदधिः समुद्रस्तस्य वेलावनं समीपवर्ति काननं तस्य लेखा राजिस्तामिव । मध्विति । मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आनने मुखे.यस्याः सा ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिस्तामिवोद्दामा उत्कटा ये मन्मथविलासाः कंदर्पविभ्रमास्तैर्गृहीतं स्वीकृतं गुरु महत्कलत्रम् । भार्या यया सा ताम् । कामव्याकुलचेतसा चन्द्रेण बृहस्पतेस्तारापहृतेति पुराणप्रसिद्धम् । वनेति । वनस्य राजिर्लेखा तामिव । उभयोः शब्दसाम्यमाह - पाण्ड्विति । अङ्कुरितयौवनत्वाच्छ्यामलाः कृष्णा वल्ल्यस्त्रिवल्ल्यस्ता एव सरलत्वसाम्याल्लता वल्ल्यस्ताभिरलंकृतो मध्यः कटिप्रदेशो यस्याः सा ताम् । पक्षे लवली लताः ताभिरलंकृतो भूषितो मध्यो मध्यप्रदेशो यस्याः सा ताम् । दिनमिति । दिनस्य वासरस्य मुखमाननं तद्वदिव । भास्वदिति । भास्वन्त्यो दीप्यन्त्यो या मुक्ता मुक्ताफलानि तेषामंशुभिः किरणैर्भिन्नानि मिश्रितानि पद्मरागाणां प्रसाधनानि भूषणानि यस्याः सा ताम् । पक्षे भास्वता सूर्येण मुक्ता येऽशवः किरणास्तैर्भिन्नानि विकसितानि यानि पद्मानि कमलानि तेषां रागो रङ्गः स एव प्रसाधनं यस्याः सा ताम् । आकाशेति । आकाशं व्योम तस्य कमलिनी स्वर्गीयनलिनी तामिव । स्वच्छेति । स्वच्छं निर्मलं यदम्बरं तस्मिन्दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छेऽम्बर आकाशे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुघ्नं यस्याम् । मयूरेति । मयूराणां कलापिनामावली श्रेणी तामिव । नितम्बेति । नितम्बः कटकस्तच्चुम्बिनि, अर्थाद्वस्त्रे, शिखण्डभारवत्कलापिपिच्छसमूहबच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम् । पक्षे नितम्बचुम्बिशिखण्डभारस्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्ग - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 उत्पादितस्य स्व-भावविलासेन जनितस्य मानसजन्मनः (कामस्य) पक्षिणां ककपक्षयुक्तानां बाणानां रवेण अपनीतो नीलकण्ठस्य (शिवस्य) मदः (तेन कामो दग्धः, कादम्बर्या तु स्वसामर्थेनोत्पादितः) यया तामित्यर्थः । अन्योर्थः स्फुटः । 2 उपमायां लिङ्गभेदो दोषायेति 'दिनमुखलक्ष्मीमिव' इत्युचितः पाठः । प्रभातलक्ष्मीः (शोभा) इति तदर्थः । 3 नितम्बचुम्बी शिखण्डभारः (केशपाशः) यस्याः सा चासौ च विस्फुरन् (शोभमानः) चन्द्र इव कान्ता (कमनीया) चेति स्फुटोऽर्थः । 4 कादम्बरीपक्षे-कामफलं मदनविकाररूपं फलं प्रददातीत्यर्थः । पाठा० - १ विरचित. २ मुखलक्ष्मीम्. (कादम्बरीवर्णनम् । पूर्वभागः । 393

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494