Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 396
________________ ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रन्थनमसुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्येतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासनस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि - ‘लवलिके, कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि । सागरिके, गन्धोदकदीर्घिकासु विकिर रत्नवालुकाम् । मृणालिके, कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय यन्त्रचक्रवाकमिथुनानि । मकरिके, कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके, तमालवीथिकान्धकारेषु निधेहि मणिप्रदीपान् । कुमुदिके, स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानि । निपुणिके, लिखमणिशोलभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके, परामृश कनकसंमार्जनीभिः कदलीगृहमरकतवेदिकाम् । केसरिके, सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके, पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके, पायय कमलमधुरसं भवनकलहंसान् । कदलिके, नय धारागृहं गृहमयूरान् । कमलिनिके, प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चूतलतिके, देहि पञ्जरपुंस्कोकिलेभ्यश्चूतकलिकाङ्कुराहारम् । पल्लविके, - *********** ध्वनितम् । पुनः सौकुमार्यातिशयमाह - कन्यकेति । कन्यकाविज्ञानेषु कुमारिकाणां कलासु माल्यग्रथनमसुकुमारजनव्यापारः । अतिककशजनविधेयमित्यर्थः । एतेन माल्यापेक्षयापि सौकुमार्य व्यज्यते । देवतेति । देवतानां प्रणामेषु नमस्क्रियासु मध्यभागस्यातिसूक्ष्मत्वात् भङ्गो द्वैधीभावो न भवति सोऽतिविस्मयकर आश्चर्यकरः । एतेन मध्यभागस्य स्वारसिकं कृशत्वं व्यज्यते । तदनन्तरं स चन्द्रापीडः किंचिदभ्यन्तरं मध्यभागमतिक्रम्येतश्चेतश्च परिभ्रमतः पर्यटत एवंविधस्य तस्य कादम्बरीप्रत्यासनस्य कुमारिकासमीपवर्तिनः परिजनस्य परिवारस्यातिमनोहरांस्तांस्तानालापान्सलापाशुश्रावाकर्णयामास । एतदेव दर्शयति - तथा हीति । हे लवलिके, केतकीधूलिभिः केतकीपरागैर्लवलीलताया आलवालमण्डलान्यावालमण्डलानि कल्पय प्रणय । हे सागरिके, गन्धोदक सुगन्धजलं तस्य दीर्घिकासु वापीषु रत्नवालुकां विकिर विक्षिप । हे मृणालिके, कृत्रिमकमलिनीषु यन्त्रचक्रवाकमिथुनानि कुङ्कुमरेणुमुष्टिभिश्छुरयाच्छोटय । हे मकरिके, कर्पूरपल्लवरसेन गन्धपात्राण्यधिवासय सुगन्धीकुरु । हे रजनिके, तमालवीथिकानामन्धकारेषु मणिप्रदीपानिधेहि स्थापय । हे कुमुदिके, शकुनिकुलरक्षणाय पक्षिसूहनिवारणाय मुक्ताजालैर्दाडिमीफलानि स्थगयाच्छादय । हे निपुणिके, मणिशालभञ्जिकास्तनेषु रत्नपुत्रिकाकुचेषु कुङ्कुमरसपत्रभङ्गांल्लिख लिपीकुरु । हे उत्पलिके, कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहमरकतवेदिकां परामृश संमार्जय । हे केसरिके, मदिरारसेन कादम्बरीद्रवेण बकुलकुसुममालागृहाणि सिञ्च सेकं कुरु । हे मालतिके, सिन्दूररेणुना नागभूषणधूल्या कामदेवगृहदन्तवलभिका पाटलय श्वेतरक्तीकुरु । हे नलिनिके, कमलमधुरसं भवनकलहसान्पायय पानं कारय । हे कदलिके, गृहमयूराभवनकलापिनो धारागृह यन्त्रगृह नय प्रापय । हे कमलिनिके, मृणालक्षीररसं चक्रवाकशावकेभ्यो रथाङ्गाह्वपाकेभ्यः प्रयच्छ प्रदेहि । चूतलतिके, पञ्जरपुंस्कोकिलेभ्यश्चतकलिकाङ्कुराहारमानकोरकप्ररोहाशनं देही प्रयच्छ । हे पल्लविके, भवनहारीतागृहमृदङ्कुरान्मरि - टिप्प० - 1 रञ्जयेति तात्पर्यम् । पाठा० - १ कुसुम. २ असुकुमार. ३ अन्तरमवक्रम्य. ४ सारसिके. ५ कनकदीर्घिकासु; नदिकासु. ६ क्षोद. ७ युगलानि. ८ मन्दारिके. ९ भवनदीर्घिकातमाल. १० रक्षणार्थम्. ११ लेखय. १२ मणिस्तम्भ. १३ समार्जनीभिः. १४ वेदिकाः. १५ कुसुमिके. १६ चक्रवाकेभ्यः. १७ चूतकलिके. कुमारीपुरकौतुकानि पूर्वभागः। 1383

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494