Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
लेपनम्, आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकवैकक्ष्यमालाः, करतलान्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम् जघनस्थलान्येव विलासमणिशिलातलानि, कोमलाङ्गुलिराग एव चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकाराः । अत्र चालक्तरसोऽपि चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलतरलमधुकरपक्षपवैनोऽप्यायासकरः । तथा च यत्र सखीर्देर्शनेष्वकृतहस्तावलम्बनमुत्थानमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयपुष्प -
*:
***
अधरो दन्तच्छदस्तस्य द्युतिरेव कुङ्कुमं तेन मुखस्य वक्रस्यानुलेपनम् । मञ्जुलत्वसाम्येनाह - आलापा इति । आलापा एव संभाषणान्येव तन्त्रीनिनादा वीणाध्वनयः । मृदुत्वसाम्येनाह - भुजेति । भुजलता एव चम्पको हेमपुष्पकस्तस्य वैकक्ष्यमाला उत्तरासङ्गसजः । करेति । करतलान्येव लीलाकमलानि क्रीडापङ्कजानि । निर्मलत्वसाम्येनाह - स्तनेति । स्तना एव दर्पणा मुकुराः । निचितत्वसा - म्येनाह - निजेति । निजदेहप्रभैव स्वशरीरदीप्तिरेवांशुकेन वस्त्रेणावगुण्ठनमाच्छादनम् । विस्तारातिशयादाह - जघनेति । जघनस्थलान्येव कट्याः पुरोभागप्रदेशा एव विलासा लीलाविशेषास्तेषां मणिशिलातलानि । कोमलेति । कोमला या अङ्गुल्यस्तासां राग एव चरणयोः पादयोरलक्तकरसो यावकरसः । नखेति । नखा एव मणयः, नखनिष्ठाभरणमणयो वा तेषां मरीचय एव दीधितय एव कुट्टिमेषु बद्धभूमिषूपहारकुसुमानां प्रकराः समूहाः । यत्र चेति । यत्र कन्यकासमुदायेऽलक्तरसोऽपि यावकरसोऽपि चरणयोः पादयोरतिभारो व्यर्थः । स्वत एव चरणयोरारुण्यादिति भावः । बकुलेति । बकुलमालिकाः केसरसजो मेखला रसना तस्या आकलनमपि धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम् । सौकुमार्यातिशयादिति भावः । अङ्गेति । अङ्गरागो विलेपनं तस्य गौरवमप्यधिकश्वासनिमित्तमतिप्रयासकारणम् । अङ्ग्ङ्गरागेभ्यैः शरीररागस्य सातिशयत्वात् । अंशुकेति । अंशुकभारोऽपि वस्त्रभारोऽपि ग्लानिकारणम् । सातिशयदेहप्रभावरणरूपत्वात् । मङ्गलेति । मङ्गलार्थं प्रतिसरवलयं हस्तसूत्रवलयं तस्य विधृतिरपि धारणमपि करतलस्य हस्ततलस्य विधुतिः कम्पनं तन्मात्रहेतुः । स्वतःसुन्दरत्वाच्छ्रेयस्करत्वाच्च मणिबन्धस्य । अवेति । अवतंसकुसुमानां धारणमपि श्रमः क्लमः । कर्णेति । कर्णपूरकमलेषु तरलाश्चञ्चला ये मधुकरा भ्रमरास्तेषां पक्षेभ्यः समुद्भवः पवनोऽपि वायुरप्यायासकरः प्रयासकरः । तथाचेति । यत्राभिनवसखीप्रत्यागमदर्शनेषु कदाचिदपि परिचारिका (याः ) अकृतं हस्तावलम्बनं यस्मिन्नेवादृशं यदुत्थानं तदप्यतिसाहसमित्यर्थः । सौभाग्यातिशयो लीलाविलासातिशयश्च द्योत्यते । प्रसाधनेष्विति । प्रसाधनेषु भूषणग्रहेषु या हारभारसहिष्णुता मुक्ताप्रालम्बवीवधसहनशीलता शरीरावयवेषु मध्ये स्तनयोः कुचयोः कार्कश्यं काठिन्यं तस्य प्रभावो माहात्म्यम् । सामर्थ्यमिति यावत् । नेतरेषामवयवानाम् । अत्र स्तनयोः काठिन्यातिशयः, अन्यत्र मृदुत्वादिकं कर्कशपददानाद्रुढं व्यज्यते । तथा कुसुमावचयेषु पुष्पचुण्टनेषु द्वितीयपुष्पग्रहणमप्ययुवतिजनोचितम् । पुरुषयोग्यमित्यर्थः । एतेनैतावत्प्रयासयोग्यः पुरुष एवेति -
टिप्पo - 1 न व्यर्थः, अपि तु सौकुमार्यातिशयात्पादरागोपि भारायित इत्याशयः । 2 बकुलमालैव मेखला इत्यर्थो योग्यः । 2 शरीररागस्य सातिशयत्वे अधिकश्वासानां कोऽवसरः । अत एव अङ्गरागकृतभारबोधेन श्वासप्रवृत्तिरित्यर्थो बोध्यः । एवं सर्वत्र सौकुमार्यसूचनायोक्तिः । 4 एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं तु कठिनत्वात्पुरुषस्यैव योग्यमित्यर्थः ।
पाटा० - १ चम्पकमालाः. २ अलक्तक. ३ वातोऽपि ४ दर्शनेऽपि ५ अभ्युत्थानम्.
382
कादम्बरी |
कथायाम्
Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494