Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 397
________________ भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्पलीदेलशकलानि । मधुकरिके, विरचय कुसुमाभरणकानि । मयूरिके, संगीतशालायां विसर्जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडापर्वतशिखरं जीवंजीवमिथुनानि । हरिणिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि - ‘चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि । अयि यौवनविलासैरुन्मत्तीकृते; विज्ञातासि या त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भेमयूरानालम्बसे । परिहासकाङ्क्षिणि, रत्नभित्तिपतितमात्मँप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके, हारप्रभामायासितकरतलकलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते; निजमुखप्रतिबिम्बकानि परिहरसि । जीलवातायनपतितपद्मरागांलोकं प्रति बालातपैशङ्कया करतलमातपत्रीकरोषि । चानां श्वेतशोभाञ्जनानामग्रपल्लवदलानि मुख्यकिसलयखण्डानि भोजय भोजनं कारय । हे लवङ्गिके, चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीदलशकलानि मागधीपत्रखण्डानि निचिक्षिप निक्षेपं कुरु । अनेन चकोराणां पिप्पलीदलानि प्रियाणीति ध्वनितम् | हे मधुकरिके, कुसुमानामाभरणकानि विभूषणानि विरचय रचनां कुरु । हे मयूरिके, संगीतशालायां नृत्यशालायां किंनरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय । हे कन्दलिके, क्रीडापर्वतशिखरं लीलाशिखरिसानुं जीवजीवमिथुनानि विषदर्शर्नमृत्युकयुगलानि समारोहयारोहणं कारय । हे हारिणिके, पञ्जरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि परिहासजल्पितानि वचनान्यश्रौषीदाकर्णितवान् । एतदेव दर्शयति तथाहीति । हे चामरिके, मिथ्या वृथा मुग्धतां मुग्धभावं प्रकटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्वप्रकटनेन स्वकीयं कार्यं कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे । हे यौवनविलासैस्तारुण्यविभ्रमैरुन्मत्तीकृते ग्रथिलीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिनिर्मिता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविषयीकरोषि । परीति । हे परिहासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन स्वयमेव स्वस्य भाषणमुपहासहेतुरिति ध्वनितम् । पवनेति । पवनेन वायुनाहृतं गृहीतमुत्तरीयांशुकमुपरिवस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लज्जावशादतिशुभ्रत्वसाम्याद्धारप्रभामेवाकलयस्युत्तरीयांशुकत्वेन जानासि । अतएवायासितकरतला पुनः पुनस्तद्गहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुट्टिमेति । मणिकुट्टिमेषूपहारार्थमुपचारार्थं कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः संबोधनं हे उपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बकानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन निजात्मप्रतिबिम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् । जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र पतितं लग्नं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति बालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया भ्रान्त्या करतलं हस्ततलमातपत्रीकरोषि छत्रीकुरुषे । एतेन पद्मरागालोके बालातपभ्रान्तिरिति ध्वनितम् । - टिप्प० - 1 ‘निक्षिप' इत्यपि पाठः । 2 पक्षिविशेषाणि । 3 प्रतारयितुमित्युचितम् । 4 स्तनकण्डूयानिवृत्तये एवं करोषीति परिहासः । 5 सर्वत्र वाक्यादौ संबोधनमिति प्रक्रमभङ्गष्टीकाकारेण न ज्ञातः । अत एव 'निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये !' इति संबोधनमुचितम् । बिसप्रसूनादपि ते सौकुमार्यमधिकं येन हि बालातपशंकयापि आतपत्रकरणस्यापेक्षेति परिहासः । पाटा० - १ विक्षिप २ तण्डुल ३ वृथामुग्धताम् ४ ज्ञाता. ५ मयूखान् ६ अवलम्वसे. ७ प्रतिमामालपयसि. ८ संकलयसि. ९ निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये जाल. १० अवलोकम्. ११ आशङ्किनी. १२ आतपत्रं करोषि . 384 कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494