Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 398
________________ खेदसस्तहस्तगलितचामरा नखमणिमयूखकलापमाधुनोषि' इत्येतान्यन्यानि च श्रुण्वन्नेव कादम्बरी वनमुपययौ । पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्गणसहकारफलरसवर्षेः, नीहारायमाणमनिलविप्रकीर्णैर्बकुलसेकसीधुधाराधूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः, लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः, तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः, प्रियङ्गुलतायमानं कृष्णागुरुपत्रभङ्गः, लोहितायमानं कर्णाशोकपल्लवैः, धवलायमानं चन्दनरसविलेपनैः, हरितायमानं - *********** खेदेति । खेदेन सस्तः कम्पितो यो हस्तः करस्तस्माद्गलितं च्युतं चामरं वालव्यजनं यस्या एवंविधा सती नखा एव मणयस्तेषां मयूखकलापं कान्तिसमूहमाधुनोषि कम्पयसि । एतेन नखकान्तिकलापे चामरत्वं व्यज्यते । इत्येतानि पूर्वोक्तान्यन्यानि च वाक्यानि श्रृण्वन्नाकर्णयन्कादम्बरी राजपुत्री तस्या भवनं गृहमुपययौ जगाम । अथेति । सेवार्थमागतेन सपर्यार्थं समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह - लावण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह - कृत इति । कृतो विहितो दीर्घाया रथ्यायाः लोके 'गल्ली' इति प्रसिद्धायाः मुखवदाकारो यस्मिन्नेतादृशं मार्गमध्वानमद्राक्षीदालोकितवान् । इतो मार्गविशेषणानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्यस्ताभ्यो गलितानि कुसुमानि पुष्पाणि तेषां रेणुपटलैः परागपुजैः पुलिनायमानं जलोज्झिततटायमानम् । श्वेतत्वातिशयात्परागोपेतमार्गस्य पुलिनोपमानता । अनिभृतेति । अनिभृताश्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि खण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्षेर्मधुवर्षणैर्दुर्दिनायमानं मेघजनिततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णेविक्षिप्तैर्बकुलाः केसरास्तेषां सेकार्थं याः सीधुधारा मद्यधारास्तासां धूलिभिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं हिमवदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं स्वर्णान्तरीपवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमुपविष्टं यन्मधुकरवृन्दं भ्रमरसमूहस्तस्यान्धकारैश्छायारूपैर्लीलाशोकवनायमानम् । अन्धकारस्य नीलत्वादशोकवनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः पादरञ्जनार्थयावकरसस्तस्य विसरैः समूहैः रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो द्योत्यते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्तिदिवसस्तद्वदाचरमाणम् । तद्दिनेऽमृतामोदस्य प्रचुरत्वादिति भावः । श्वेतत्वसाम्येनाह - दन्तेति । दन्तपत्रैः कर्णाभरणैश्चन्द्रलोकायमानं चन्द्रलोकवदाचरमाणम् । एतेन दन्तपत्राणां भूयस्त्वं व्यज्यते । प्रियङ्गुलतेति । कृष्णागुरुः काकतुण्डस्तस्य पत्रभङ्गः पत्रलताभिः । प्रियङ्गुः फलिनीलक्षणा या लता वल्ली तद्वदाचरमाणम् । नीलत्वातिशयादिति भावः । रक्तत्वसाम्येनाह - लोहितेति । कर्णाशोकपल्लवैः श्रवणनिक्षिप्तककेल्लिकिसलयैर्लोहितायमानं रक्तवदाचरमाणम् । धवलेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य विलेपनैरङ्गरागैर्धवलायमानं चेतवदाचरमाणम् । हरितेति । शिरीषः कपीतनस्तस्य कुसुमाभरणैः पुष्पविभूषणैर्हरितायमानं पीतनीलवदाचरमाणम् । टिप्प० - 1 प्रकरणानुकूलम् 'खेदसस्तहस्तगलितचामरे ' इति संबोधनमेवोचितम् । 2 कृतो दीर्घरथ्यामुखवदाकारो यस्य, ग्राम्यदीर्घरथ्याया मुखभागे उभयतो वृतिः मध्ये च स्वल्पायामो दी? मार्गो दृश्यत इत्याशयः । पाटा० - १ ग्रस्त. २ कलित. ३ चामरैः. ४ किरण. ५ भवनसमीपमुपययौ; भवनमुपसृत्य ययौ. ६ चम्पकोपहारैः. ७ नीलाशोक. ८ संचरन्, ९ पत्रमण्डलैः. १० बनायमानं रोचनातिलकभक्तिभिर्नीलायमानम्. ११. कर्णपूराशोक. - - - - - - - - (कुमारीपुरवृत्तान्तः) पूर्वभागः । ARY 385)

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494