Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
एटचरविषयकुतूहलि वा चेतः, मवचनमनुरुध्यते वा भवान्, अतिसुखदायि वाश्चर्यदर्शनम्, अर्हसि वा प्रणयम्, इममप्रत्याख्यानयोग्य वा जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । इतो मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मनिर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमतिमनोमोहविलसितम् एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छसितमिव चेतसा । श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीं चैनां चन्द्रापीडोऽब्रवीत् - 'भगवती, दर्शनात्प्रभृति परवानयं जनः कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्' इत्यभिधाय तया सहैवोदचलत् ।
***********
अदृष्टचरोऽनवलोकितपूर्वो यो विषयो देशस्तत्र कुतूहलं विद्यते यस्यैवभूतं यदि चेतः । वाथवा भवान्मद्वचनं मद्वाक्यमनुरुध्यते समीहते । अनुपूर्वको रुध् दिवादिरिच्छार्थः । वेति पक्षान्तरे । यद्यतिसुखदाय्यतिशयेन सौख्यप्रदमाश्चर्यदर्शनं कुतूहलावलोकनम् । वेति पूर्ववत् । अर्हसि वाञ्छसि यदि प्रणयं स्नेहम् । इमं मल्लक्षणं जनमप्रत्याख्यानयोग्यमनिराकरणयोग्यं वा मन्यसे जानासि । समारूढः प्राप्तो वा परिचयलेशः संस्तवलवः । अनुग्राह्यो वानुग्रहयोग्यो वायं जनः । ततस्तस्माद्धेतोर्निष्फलां रिक्तामिमामभ्यर्थना कर्तुं विधातुं नार्हसि न योग्यो भवसि । इतोऽस्मात्स्थानान्मयैव सह अतिरमणीयतानिधानं चारुताशेवधि हेमकूटं गत्वा । तत्रेति । तस्मिन्स्थले मत्तो निर्गतो विशेषो यस्याम् । मत्सदृशीमित्यर्थः, एतादृशी कादम्बरी दृष्ट्वा विलोक्य च । तस्याः कादम्बर्याः कुत्सिता मतिर्यस्मादेवंविधो यो मनोमोहश्चेतसोऽज्ञानं तस्य विलसितं चेष्टितमपनीय दूरीकृत्यैकमहर्दिनं विश्रम्य विश्राम गृहीत्वा । श्वोभूत इति । श्व आगामिदिने तस्मिन्भूते जाते सति प्रत्यागमिष्यसि पश्चादायास्यसि । ममेति । हीति निश्चितम् । मम निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं भ्रातरं वा भवन्तं त्वामालोक्यैव निरीक्ष्यैव दुःखमेवान्धकारं तिमिरं तस्य भारो वीवधस्तेनाक्रान्तेन व्याप्तेन चेतसा चित्तेन महतः कालाच्चिरसमयादुच्छसितमिव गृहीतश्वासमिव । इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा । सोढुं शक्यः सह्यस्तस्य भावस्तत्ता तामिव गतः प्राप्तः शोकः । श्रावणेन स शोको जीर्णतां प्राप्त इत्यर्थः । तत्रोपपादकमाह - दुःखितमपीति । सज्जनसमागमाः दुःखितमपि जनं रमयन्ति विनोदयन्ति । अत्रार्थे हेतमाह - परेति । परस्यान्यस्य यत्सखं तस्य यदपपादनं तत्र पराधीनः परायत्तः । तन्निमित्तक इति यावत । भवादश त्वत्सदृशानां गुणोदयो गुणाः शौर्यादयस्तेषामभ्युदय इति पूर्वोक्तप्रकारेणोक्तवतीं कथितवती चन्द्रापीडोऽब्रवीदवोचत् । हे भगवति, दर्शनात्प्रभृत्यवलोकनदिनादारभ्य परवान्पराधीनः । त्वदायत्त इति यावत् । अयं जनः । कर्तव्येषु कार्येषु यथेष्टमशङ्किततया शङ्काराहित्यतया भवत्या नियुज्यतां प्रेर्यतामित्यभिधायेत्युक्त्वा तया महाश्वेतया सहोदचलत्प्रस्थानमकरोत् ।
- - - - - - - - - - - - - - - - - - - -- - - - -- टिप्प० -1 रक्षितुमिच्छति, इत्यर्थ उचितः । 2 यदि आश्चर्यदर्शनम् अतिसुखदायि (अस्ति), इत्यन्चयो योग्यः । 2 चित्तेन गृहीतश्वासमिवेति योजयतो वरमेतादृशी योजना । चित्तेन उच्छसितमिव चित्तेन प्राणितमिव । एतावत्कालं चित्तं मृतमिवासीत्, इदानीं तेन उच्छ्रासो गृहीत इति तात्पर्यम् । चित्तमुच्छसितमिवेति प्रकारान्तरम् । 4 चन्द्रापीडस्य रूपादिगुणानालोक्य कादम्बरी मुग्धा स्यादिति तद्विवाहेन तस्याः सुखं स्यादिति निगूढसूचना ।
पाठा० - १ अस्मद्वचनम्. २ भवन्मतिरतिदुःखदायि; भवन्मतिः सुखदायि. ३ वास्मच्चिरदर्शनम्. ४ अर्हामि. ५ योग्यां वा मन्यसे माम्. ६ मयैव. ७ कुमतिमिमाम्. ८ च.
378
कादम्बरी।
कथायाम्
Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494