Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 389
________________ दत्तकण्ठग्रहा त्वां विज्ञापयति - 'यदियमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोलम्भः, किं प्रेमविच्छेदार्भिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम्, एवमतिनिष्ठुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत्, किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशाः संभोगाः, कानि वा हसितानि । येनेदृशी दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमैयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि त्यजति, किमुत नार्यः । यत्र भर्तृविरहविधुरा परिहतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा - *********** महाश्वेते, देवी कादम्बरी दृढं दत्तः कण्ठग्रहो यया सा । कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति । किं विज्ञप्तिं कृतवतीत्याह - यदियमिति । इयं तरलिका मामागत्यैत्य यदवददवोचत्तत्कथय ब्रूहि - किमयं गुरुजनानुरोधः किं गुरुजनपारवश्यम् । किमिदं मच्चित्तस्य मन्मनसः परीक्षणं परीक्षाकरणम् । किं गृहनिवासलक्षणो योऽपराध आगस्तस्य निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थं स्नेहनिवृत्त्यै अयमभिलापः संलापः । किं भक्तजनस्य सेवकजनस्य परित्याग उपायः प्रपञ्चः । किंवा प्रकोप प्रतिघा । सहज स्वाभाविक यत्प्रेम तस्य निस्यन्दो रसस्तेन निर्भर हृदयं मे मम जानास्येव ज्ञास्यस्येव । एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती कथं न लज्जितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन पुंसा त्वं शिक्षितासि हितोपदेशविषयीकृतासि । स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह - स्वस्थोपीति । स्वास्थ्यवानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीयसीदृशेऽवसानविरसे प्रान्तदुःखदे कर्मणिक्रियायां क इव को जनो मतिं बुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्थेत्याह - किमुतेति । अतिदुःखेनाभिहतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चितम् । सुहृदुःखखेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलाषः । कैव निर्वृतिर्मनःसंतुष्टिः । संभोगा इन्द्रियार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि । येन कामेन प्रियसखीदृशी दशामवस्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्टविधायिनमतिदारुणमतिभीषणं कथं कामं सकामं साभिलाषं कुर्याम् । प्रणयसखीदुःखेन स्वस्मिन्दुःखवत्त्वं निदर्शयन्नाह - दिवसेति । दिवसकरस्य सूर्यस्यास्तमयेन परद्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सत्सु सहवासपरिचयाच्चक्रवाकयुवतिरपि द्वन्द्धचरवनितापि पतिसमागमसुखानि भर्तृसंयोगसौख्यानि त्यजति जहाति, तर्हि नार्योऽपि योषितोऽपि किमुत वाच्याः । न किमपि कथनीया इत्यर्थः । यत्रेति । यत्र हृदये भर्तुविरहेण विधुरा दुःखिता परिहतं परित्यक्तं परपुरुषाणामपरपुंसां दर्शनं वीक्षणं यया सैवंविधा प्रियसखी महाधेता दिवानिशमहोरात्रं निवसत्यधितिष्ठति तन्मम हृदयमपर इतरः प्राकृतो जनः कथमिव प्रविशेत्कथं प्रवेशं कुर्यात् । यत्र चेति । यत्र यस्मिन्समये भर्तुः पत्युविरहेण वियोगेन विधुरा दुःखिता व्रतेन नियमेन कर्शितं कृशता नीतमङ्गं शरीरं यया सैवंविधा प्रिय - टिप्प० - 1 कामं कथं सकामं कुर्यामित्यन्वयः । 2 सतीषु, इति तात्पर्यम्, । 3 अनधिकारो भाषायाम् । नार्यस्तु इत्युचितम् । पाठा० - १ गुरुजनवचनानुरोधः. २ अभिलाषः. ३ अस्तमन. ४ समागम. ५ परित्यजति. ६ अपि च यत्र. (376 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494