Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 387
________________ अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका षोडशवर्षवयसा, सावष्टम्भाकृतिना, मदखेदालसगजगमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्डद्वयेन, कुङ्कुमरागपिञ्जरारुणेन, चामीकरश्रृङ्खलाकलापनिबिडनियमित कक्षाबन्धातिरिक्तप्रेख़त्पल्लवमधरवास एव केवलं वसानेन, निरुदरतया विभक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपीनबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणेमणेविप्रकीर्यमाणमधोमुखकिरणेन्द्रायुधजालवर्णाशुकोत्तरीयमिवैकस्कन्धक्षिप्तमुदहता, चूतपल्लवकोमलमनवरतताम्बूलबद्धरागान्धकारमधरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव दिगन्तराणि, कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललाटेन, - *********** अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापोदेवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्या, निर्वर्तितो विहितः प्रभातिकः प्रत्यूषसंबन्धी विधिर्येनैवंविधे चन्द्रापीडे. सा तरलिका प्रत्यूषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना । अथ केयूरक विशेषयन्नाह - षोडशेति । षोडशवर्षाणि हायनानि तैः परिमितं वयो यस्य स तथा तेन । तावन्मात्रप्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासान् । निक्षिपता स्थापयता । पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डुरमूरुदण्डद्वयं सक्थिदण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुम केसरं तस्य रागेण पिञ्जरः पीतरक्तोऽरुणो देहस्थरागो यस्य स तेन । किं कुर्वता । केवलमधरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशेषयन्नाह - चामीति । चामीकरस्य सुवर्णस्य श्रृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमित बद्धम् । कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेछन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यदुदरं तस्य भावस्तत्ता तया विभक्तो विभागीकृतो मध्यो भागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् । विपुलेति । विपुलं बृहद्वक्षो भुजान्तरं यस्य स तेन । दीर्घति । दीर्घावायतावनुवृत्तपीनौ परम्परया पुष्टौ बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यवलयं रत्नकङ्कणं यस्य स तेन । कर्णेति । कर्णाभरणमणेः श्रोत्रभूषणरत्नसङ्गं विप्रकीर्यमाणं विक्षिप्यमाणमधोमुखकिरणानामिन्द्रायुधजालवर्णं शक्रचापसमूहरागं यदंशुकोत्तरीयमुत्तरासङ्गं चित्रवस्त्रमेकस्कन्धक्षिप्तमिवैकासन्यस्तमिवोद्वहता धारयता । पुनः किं कुर्वता । अधरं दन्तच्छदमोष्ठं दधता । अधरं विशेषयन्नाह - चूतेति । चूतपल्लववदाप्रकिसलयवत्कोमलं सुकुमारम् । अनवरतेति । अनवरतं निरन्तरं ताम्बूलस्य नागवल्ल्या दलस्य बद्धो रागान्धकारो यस्मिन् । कर्णेति । कर्णान्तायतस्य श्रोत्रप्रान्तप्राप्तस्य स्वभावेन धवलस्य शुभ्रस्य लोचनयुगलस्य नेत्रयुग्मस्य धवलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुभ्रीकुर्वतेव । कुमुदवनानीव कैरवखण्डानीव वर्षता वृष्टिं कुर्वता । पुण्डरीकमयमिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता । कनकेति । टिप्प० - 1 सावष्टम्भा सबला आकृतिर्यस्येत्युचितोर्थः । 2 अनुदरा कन्येतिवत् ईषदर्थे निःशब्दः । 3 एकस्कन्धक्षिप्तम् उत्तरीयमिव किं वहति ? न किञ्चित्प्रतीयते । '...किरणेन्द्रायुधजालं वर्णांशुकोत्तरीयमिव' इति पाठः । कर्णाभरणरत्नस्य नीचैर्विकीर्यणाः (प्रसरन्तः) अधोमुखाः किरणां नानावर्णशालितया इन्द्रधनूंषीव तेषाम् (किरणानाम्) जालमेकस्कन्धसक्तं वर्णांशुकमिव (रक्तवर्णरंजितम् अंशुकमिव वस्त्रमिव) उद्घहता, इति तदर्थः । 4 दिगन्तरे नेत्रप्रेरणस्य कुमुदवनवर्षणत्वेन, दिवसस्य पुण्डरीकमयकरणत्वेन चोत्प्रेक्षेत्याशयः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ गजराज. २ विभक्तमध्येन. ३ मणिविप्रकीर्य. 374 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494