Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 304
________________ नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् - 'भगवती, त्वत्प्रसादप्राप्तिप्रोत्साहितेन कुतूहले - नाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । उपजनयति हिं प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकावस्थाने कालकला परिचयमुत्पादयती । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति । तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि । अतिमहत्खलु भवद्दर्शनात्प्रभृति मे कौतुकमस्मिन्विषये । कतरन्मरुतामृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वयः, क्वेयमाकृतिः, क्व चायं लावण्यातिशयः, क्वेयमि न्द्रियाणामुपशान्तिः । तैदद्भुतमिव मे प्रतिभाति । किं वानेकसिद्धसाध्यसंबंद्धानि सुरलोकर्सुलभान्यपहाय दिव्याश्रमपदान्येकाकिनी वनमिदममानुषमधिवससि । कैश्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशं - *********** स्यात्त्थोपविष्टामासीनाम् । निभृतं निश्चलं यथा स्यात्तथोपसृत्य समीपे गत्वा नातिदूरे समुपविश्यास्थाय मुहूर्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीडः सविनयं विनयसंयुक्तं यथा स्यात्तथावादीदवोचत् । हे भगवति हे स्वामिनि । त्वदिति । तव प्रसादस्य प्राप्तिर्लब्धिस्तया प्रोत्साहितेन प्रगुणीकृतेन कुतूहलेन कौतुकेनाकुलीक्रियमाणो व्याकुलतां नीयमान एवंविधो यो लघिमा तुच्छस्वभावः । कीदृशः । मानुषता मानवता तत्र सुलभः सुप्रापो मां बलाद्धटादनिच्छन्तमवाञ्छन्तमपि प्रश्नकर्मणि पृच्छाक्रियायां नियोजयति व्यापारयति । उपजनेति । हीति निश्चितम् । प्रभोः स्वामिनः प्रसादलवोऽपि प्रसन्नतालेशोऽप्यधीरप्रकृतेश्चञ्चलस्वभावस्य प्रागल्भ्यं धार्यमुपजनयत्युपपादयति । स्वल्पेति । एकावस्थान एकावस्थितौ स्वल्पापि स्तोकापि कालकला पञ्चदशलवात्मिका परिचयं संस्तवमुत्पादयति जनयति । अणुरपि परमाणुरप्युपचारपरिग्रहः पूजास्वीकारः प्रणयं स्नेहमारोपयत्यारोपविषयीकरोति । तदिति । तद्यदि नातिखेदकरमिव नातिप्रयासजनकसदृशमिव ततः कथनेन निवेदनेनात्मानमनुग्राह्यमभ्युपपत्तिविषयमिच्छामि समीहे । अतीति । खलु निश्चये । भवद्दर्शनात्प्रभृतितवालोकनादारभ्य मे ममास्मिन्विषये प्रश्नविषयेऽतिमहत्कौतुकमत्याश्चर्यम् । कतरदिति । मरुतां देवानाम्, ऋषीणां मुनीनाम्, गन्धर्वाणां देवगायनानाम्, गुह्यकानां यक्षाणाम्, अप्सरसां तिलोत्तमादीनां मध्ये । निर्धारणे षष्ठी । जन्मना प्रादुर्भाविन भगवत्या स्वामिन्या कतरत्कतमत्कुलमन्वयोऽनुगृहीतमनुग्रहविषयीकृतम् । किमिति । किमर्थम् । किं प्रयोजनमिति यावत् । वेति विकल्पार्थः । अस्मिन्नवे नूतने वयस्यवस्थायां कुसुमं पुष्पं तद्वत्सुकुमारे कोमले व्रतग्रहणं नियमस्वीकारः । क्वेति महदन्तरे । इदं प्रत्यक्षोपलभ्यमानं वयः क्व । अथ चेयमाकृतिराकारविशेषः क्व । तथा लावण्यं चातुर्यं तस्यातिशय आधिक्यं क्व । तथेन्द्रियाणां करणानामियमुपशान्तिर्विषयोपरमः क्व । तदिति । मे मम तत्सर्वं पूर्वोक्तमद्भुतमिवाश्चर्यमिव प्रतिभाति प्रतिभासते । अन्यच्च । किमिति पूर्ववत् । अनेकेति । अनेके ब ये सिद्धा महायोगिनस्तैः । साध्या निष्पाद्याः क्रिया इत्यर्थः । ताभिः संबद्धानि संकीर्णानि सुरलोका देवसमूहास्तेषां सुलभानि सुप्रापाण्येवंविधानि दिव्याश्रमपदानि महामुनीनां निवासस्थानान्यपहाय विमुच्यैकाकिन्यसहायामानुषं मनुष्यवर्जितमिदं वनमरण्यं कथं त्वं भवत्यधिवससि । ‘उपान्वध्याङ्ग्वसः' इति वनमित्यस्याधिकरणस्य कर्मसंज्ञायां द्वितीया । कश्चेति । कश्चानिर्दिष्टस्वरूपोऽयं प्रकारः प्रभेदो यत्तैरेव सर्वप्रसिद्धैरेव पञ्चभिर्महाभूतैः पृथि - टिप्प० - 1 सौन्दर्यम् । 2 ' अनेकसिद्ध-साध्यसंबाधानि' इत्यपि पाठः, संबाधानि संकुलानीति तदर्थः । 3 विशेषः । पाटा० - १ जनयति. २ हि न. ३ एकदेशावस्थाने; एकदेशावस्थान. ४ अनुगृह्यमाणम्. ५ वयः, क्वेदं तपः. ६ अद्भुतम् ७ किं निमित्तम्. ८ संबन्धानि; संबाधानि. ९ सुभगानि. १० कश्चायं प्रजापतेः प्रकारो यत्तैरेव महाभूतैः पञ्चभिः. ११ ईदृशीम्. महाश्वेतां प्रति प्रश्नः पूर्वभागः । 291

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494