Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव सतमालपल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाञ्चररोमाञ्चव्याजेन प्रतिरोमकूपनिपतितानां मदनशराणां कुसुमशरशल्यशकलनिकरमिवाङ्गलग्नं बिभ्रामण्, दक्षिणकरेण च स्फुरितनखकिरणनिकरां करतलस्पर्शसुखकण्टकितामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदनवशीकरणचूर्णेनेव कुसुमरेणुना तरुभिराहन्यमानम्, आत्मरागमिव संक्रमयद्भिरासत्रैरनिलचलितैरशोकपल्लवैः स्पृश्यमानम्, सुरताभिषेकसलिलैरिवाभिनवपुष्पस्तबकमधुशीकरैर्वनश्रियाभिषिच्यमानम्, अलिनिवहनिपीयमानपरिमलैरुपरिपतद्भिश्चम्पककुड्मलैस्तप्तशेरशल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, अतिबहलवनामोदमत्तमधुकरनिकरझंकारनिःस्वनैहुंकारैरिव -
***********
विमर्दोत्थः पुनः सुरभिः परिमलः । ‘स आमोदो विदूरगः । विमर्दोत्थः परिमलः' इति कोशः । तयोर्यो लोभस्तृष्णा तेनोपसर्पिणा समीपागमनशीलेन । किं कुर्वता तेन । कलं मधुरं यद्विरुतं कारस्तस्य छलेन मिषेण मदनस्य संमोहनमन्त्रं वशीकरणमन्त्र जपतेव जापं कुर्वतेव । पुनः किं कुर्वन्तम् । उत्कण्ठेति । उत्कण्ठोत्कलिका तया यो ज्वरस्तापस्तेन यो रोमाञ्चो रोमोद्गमस्तस्य व्याजेनापदेशेन प्रतिरोमकूपं निपतितानां लग्नानां मदनशराणां कामबाणानां मध्ये कुसुमलक्षणा ये शरा बाणास्तेषां शल्यशकलानि त्रुटितबाणखण्डानि मध्ये प्रविष्टानि किंचिद् बहिर्दृश्यमानानि तेषां निकर समूहमिवाङ्गलग्नं बिभ्राणं । पुनः किं कुर्वाणम् । दक्षिणकरेणेतस्ततः पर्यस्ता मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फूरितः प्रयुतितो नखकिरणानां निकरः समूहो यस्याः सा ताम् । नखकिरणानां दीर्घतीक्ष्णत्वरूपकण्टकसाम्यादुत्प्रेक्षते - करतलेति । करतलस्य यत्स्पर्शसुखं तेन कण्टकितामिव । श्वेतत्वसाम्यादाह - अविनयेति । अविनयः पूज्यपूजाव्यतिक्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति । कुसुमरेणुना पुष्पधूल्या तरुभिर्वृक्षराहन्यमानं ताड्यमानम् । शुक्लत्वसाम्यादाह-मदनस्य यद्वशीकरणचूर्णं तेनेव । आत्मेति । आत्मनो राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामयद्भिरिव संक्रमणं कारयद्भिरिवासनः समीपस्थैरनिलचलितैर्वायुना कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् । वत्तश्रिया काननलक्ष्म्या अभिनवो नूतनो यः पुष्पाणां कुसुमानां स्तबको गुच्छकस्तस्य मधुरसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयीक्रियमाणम् । तत्रोद्दीपकत्वसाम्येनाह - सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेकपदसामदेिव सुरते राज्यत्वं द्योत्यते । अलीति । अलिनिवहैर्धमरसमूहैर्निपीयमान आस्वाद्यमानः परिमलो येषां तैः । उपरिपतद्भिपरिष्टाक्षरद्धिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां च कृष्णत्वादुत्प्रेक्षामाह-सधूमैस्तप्तशरशल्यकैरिव । अत्र शल्यकानि शरप्रान्तवर्तिलोहरूपाणीत्यर्थः अतीति । अतिबहलोऽतिनिबिडो यो वनामोदो वनपरिमलस्तेनो - - - - - - - - - - - - - - - - - - - - - - -- टिप्प० -1 मदनशराणां (संबन्धिनः) ये कुसुमरूपाः शराः (फलकरहिताः काण्डाः) तेषां शल्यशकलनिकर (अग्रस्थलोहफलकखण्डसमूहम्) बिभ्राणमित्यर्थः । रोमाञ्चो नास्ति मन्ये प्रतिरोमकूपं निपतिताः बाणास्ते निर्गताः किन्तु निमग्नः अग्रखण्डस्तु रोमकूपेषु लग्न इत्याशयः । 2 इतस्ततः पर्यस्तामिति मूलेऽप्यस्त्येव । दक्षिणकरेण इतस्ततः पर्यस्तामिति योजनेन टीकाकारस्य काऽभिहिता तात्पर्यचर्येत्यन्वेषणीयम् । दक्षिणकरेण उरसि मुक्तावली धारयन्तम् (अर्थात्स्वजीवनरक्षणाय प्रियां मुक्तासज हस्तेनोरसि दधाति') अन्यत्तु स्पष्टम् । 3 आत्मनो रागः (आरुण्यम्) एव रागः अनुरागस्तं संक्रामयद्भिः । रक्तवर्णो न संक्रामितो मन्ये अनुराग एव संचारित इत्याशयः । आरुण्यानुरागयोर्भदेप्यभेदाध्यवसायादतिशयोक्तिः । संक्रामयद्भिरिव, इत्यतिशयोक्तिरिति द्वयोरङ्गाङ्गितया संकरः ।
पाठा० - १ स्फुरितकिरण. २ निकरम्. ३ शल्यकैः.
Insill
(मदनार्तपुण्डरीकस्याऽवस्था)
पूर्वभागः ।
327
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494