Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 365
________________ उद्भूतमून्धकारा च पातालतलमिवावतीर्णा तदा क्वाहमगमम्, किमकरवम्, किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहससहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदेवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मरणमात्मनश्च जीवितमुत्थाय, 'हा, किमिदमुपनतम्' इति मुक्तार्तनादा, 'हो अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती 'हा,नाथ जीवितनिबन्धन, आचक्ष्व । क्व मामेकाकिनीमशरणामकरुणं विमुच्य यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था । युगसहसायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदयालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि । *********** तदेति । तदा तस्मिन्क्षणे सर्वेमेवेति नाज्ञासिषं नाबोधिषम् । इतिद्योत्यमाह - उद्भूतेति । क्वाहमगममव्रजम्, किमकरवमघटयम्, किं व्यलपं किमवोचम् । कीदृश्यहम् । उद्भूतं प्रकटीभूतं मूर्छा एवान्धकारं यस्यां सा तथा पातालतलं रसातलमवतीर्णेव । असवश्चेति । तस्मिन्क्षणे मे ममासवः प्राणा अस्य मूढहृदयस्य किमतिकठिनतयातिकाठिन्यतया । किं हतशरीरकस्य निःप्रयोजनदेहस्यानेकानां दुःखसहसाणां सहिष्णुतया सहनतया । किं दीर्घशोकस्य चिरकालीनशुचो विहिततयावश्यभोक्तव्यतया । किं जन्मान्तरोपात्तस्यान्यभवार्जितस्य दुष्कृतस्य पापस्य भाजनतया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुणतया दक्षतया । किं दुरात्मनः पापिष्ठस्य मन्मथहतकस्यैकान्तवामतयात्यन्तप्रतिकूलतया । एतेषां मध्ये केन हेतुना नोद्गच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलमतिचिराच्चिरकालेन लब्धा प्राप्ता चेतना चैतन्यं यया सैवंविधा दुःखभागिनी वह्नाविवाग्नाविव पतितमसह्यो यः शोकः शुक् तेन दह्यमानं ज्वलन्तमवनौ पृथिव्यां विचेष्टमानं लुठमानमात्मानमपश्यमवालोकयम् । तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च जीवितमसंभावनीयमश्रद्दधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे । किमिदमुपनतमागतमिति मुक्त आर्तनाद आक्रन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्यः हा आल्यः, इति पूर्वोक्तं व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन्, जीवितनिबन्धनं जीवितकारणमाचक्ष्व कथय । मामेकाकिनीमसहायामशरणामत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य त्यक्त्वा क्य यासि क्व व्रजसि । तरलिकां पृच्छ प्रश्नं कुरु, त्वत्कृते त्वदर्थं मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयीकृता । युगसहसवदाचरमाणो दिवसो वासरः कृच्छ्रेण कष्टेन नीतः प्रापितः । प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्यालप ब्रूहि । भक्तवत्सलतां हितकारितां दर्शय प्रकाशय । ईषदपि किंचिदपि विलोकय निरीक्षणं - टिप्प० -1 काठिन्यमिति भावप्रत्ययान्तान पुनर्भावार्थकप्रत्ययः । नानुक्रियतां विद्यार्थिभिः । 2 अभिन्नहृदया महातैव पुण्डरीकेण सह आत्मनो मरणं च जीवितं च वक्तुं शक्ता । अतएव 'अश्रद्दधाना' इति स्त्रीलिङ्गपाठ एवोचितः । 'अयं मृतः स्यात् अहं च जीवेयम्' इत्येव न विश्वसनीयमिति तदाकृतम् । 3 'जीवितनिबन्धनमाचक्ष्व' इति पाठो विवक्षितष्टीकाकारस्य । किन्तु मूले शोषितः पाठो दृश्यते । नाहमिमं लेखन्या चिच्छित्सामि । पाठा०-१ पातालमिव. २ अश्रद्दधानाम् अश्रद्दधाना. ३ मरणकारणम्. ४ हा हा. ५ अम्ब हा मातः. ६ निबन्धनमाचक्ष्व. ७ अकरुण. 352 कादम्बरी । कथायाम् ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494