Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 370
________________ यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि, तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्ते मरणैकनिश्चयात्तत्तद्बहु विलप्य तरलिकामब्रवम् - 'अयि उत्तिष्ठ निष्ठुरहृदये, कियेंद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम्' इति । अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादर्वतीर्य केयूरकोटिलग्नममृतफेनपिण्डपाण्डुरं पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णान्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, स्थूलमुक्ताफलतया तारागणमिव ग्रथितमतितारं हारमुरसा दधानः, धवलदुकूलपल्लवकॅल्पितोष्णीषग्रन्थिः, अलिकुलनीलकुटिलकुन्तलनिकरविर्कटमौलिः, उत्फुल्लकुमुदकर्णपूरः, कामिनीकुचकुङ्कुमपत्रलतालाञ्छितांसदेशः, कुमुदधवलदेहः, महाप्रमाणः पुरुषः महापुरुषलक्षणोपेतः, - *********** यामि ब्रवीमि । ययेति । यया दुराशैव मृगतृष्णिका मरुमरीचिका गृहीता स्वीकृताऽहं महाश्वेता इदमुपरतकल्पमवस्तुप्रायम् । अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीयमिवात एव भारभूतमप्रयोजनं निरर्थकं न कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोक्तमलं कृतमेतद्व्यतिरिक्तं श्रूयतामाकर्ण्यताम् । ततश्चेति । तदनन्तरं तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्ते दशान्तरे मरणस्य निमीलनस्यैकनिश्चयादद्वितीयनिर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य विलप्य बहुविलापान्कृत्वा तरलिकामित्यब्रवमकथयम् । इतिशब्दद्योत्यमाह - अयीति । अयि कोमलामन्त्रणे । निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थानं कुरु । कियद्रोदिषि कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधास्याहृत्यानीय चितां चित्यां विरचय निष्पादय । जीवितेश्वरं प्राणनाथमनुसराम्यनुगच्छामि । अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशादवतीर्योत्तीर्य केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं घेतम् । पवनेन वायुना तरलं कम्पमानमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् । राजदन्तादिषु पाठात्पूर्वप्रयोगः । आकर्षनाकर्षणं कुर्वन् । इतो द्विजमण्डलविनिर्गतनरविशेषणानि । उभयेति । उभौ च तौ कर्णो चेति कर्मधारयः । वृत्तिविशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्तिस्तयानुक्त गण्डस्थल यस्य सः । स्थूलेति । स्थूलानि मुक्ताफलानि यत्र तस्य भावस्तत्ता तया । श्वेतत्ववर्तुलत्वसाम्यादाह - तारेति । ग्रथितं गुम्फितं तारागणमिव नक्षत्रवृन्दमिवातितारमतिमनोहरं हारं मुक्ताप्रालम्बमुरसा वक्षःस्थलेन दधानो बिभ्राणः । धवलेति । धवलं वेतं यहुकूलं दुगूलं तस्य पल्लवेन प्रान्तदेशेन कल्पितो विहित उष्णीषग्रन्थिमूर्धवेष्टनग्रन्थिर्येन सः । अलीति । अलिकुलवद् भ्रमरसमूहवन्नीलाः श्यामाः कुटिला वक्राः कुन्तलाः केशास्तेषां निकरः समहस्तेन विकटो विपलो मौलिर्यस्य सः । उत्फल्लेति । उत्फलं विकसितं यत्कमदं कैरवं तस्य कर्णपूरं कर्णाभरणं यस्य सः । कामिनीति । कामिन्या योषितः कुचयोः स्तनयोः कुङ्कुमपत्रलता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्नितोऽसंदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदवच्छेतकमलवद्धवलः शुभ्रो देहः शरीरं यस्य सः । महाप्रमाणोऽतिदीर्घ एवंविधः पुरुषो नरः । महेति । टिप्प० - 1 मृतप्रायम् । 2 गाढालिङ्गनपूर्वकं पार्श्वशयनावस्थायामसे कुङ्कुमसंक्रान्तिरित्याशयः । - - - - - - पाठा० - १ हतशरीरकम्. २ अवस्थान्तरे. ३ निश्चया. ४ तत्. ५ रोदिमि. ६ अवतीर्य च. ७ अतितारहारम्. ८ कम्पित. ९ निचित. पy (पुण्डरीकशरीरस्य गगने नयनम् ( पूर्वभागः ।। 357

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494