Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 380
________________ तवान् । अर्जुनं चाश्वमेघतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नागकन्यका सोच्छासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामास्त्रपावकपरिप्लुष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्चासुदेवो दुर्लभानसून्प्रापितवान् । उज्जयिन्यां च संदीपंनिद्विजतनयमन्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि कि क्रियते । किं वा लभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । न क्षमते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च - *********** अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं बभ्रुवाहननाम्नात्मजेन सुतेन समरशिरसि सङ्ग्रामशिरसि शरेण बाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुन पार्थम् । नामेति कोमलामन्त्रणे । उलूपीनाम्नी नागकन्यका सोच्छासं सजीवितमकरोदसृजत् । अभीति । अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपावकः शस्त्राग्निस्तेन परिप्लुष्टं दग्धम् । उदरेति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् । ईदृशमभिमन्युतनयमर्जुनपौत्र परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधों भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् । उज्जयिन्या चेति । उज्जयिन्यां विशालायां संदीपनिनाम्नो द्विजस्य तनयं सुतमन्तकपुरात्संयमिन्या अपहृत्यापहरणं कृत्वा त्रिभुवनेन वन्दितौ नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्यासुदेव आनीतवानानयनं कृतवान् । अत्रापीति । कथंचित्प्रकारेणैवमेव पुनर्जीवनवज्जीवनं भविष्यति । अनेनोत्कटकोटिः प्रदर्शिता, संभावनारूपत्वात् । अनुत्कटकोटावप्रतिकार्यत्वं स्वस्याह - तथापीति । अपि अनास्थायाम् । तथापि तव शोकमात्रेण किं जीवितं क्रियते, किमथवा लभ्यते प्राप्यते । तत्र हेतुमाह - प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति । नियतिर्भाव्यर्थः, अदृष्टविशेषो ब्रालिखितपद्धतिर्वा, बलवती वीर्यवती । उपसंहरति - आत्मेच्छेति । आत्मेच्छया स्वेच्छयोच्छ्रसितुमपि न शक्यम् । उच्छ्रासः स्वायत्तः सोऽपि स्वेच्छया कर्तुं न शक्यते । किमुतान्यदित्यर्थः । एवं सति सर्वं दैवाधीन प्रेममैत्र्यादिकम् । तद्विहीनस्य तन्नास्त्येवेत्याह - अतीति । अस्यैकान्तनिष्ठुरस्यात्यन्तनिर्दयस्य दैवहतकस्य विलसितानि चेष्टितान्यतिपिशुनान्यतिदुःखकारीणि भवन्ति । अव्याजेति । अव्याज निष्कपटं तेन रमणीयं मनोहरं प्रेम दीर्घकालं चिरकालं न क्षमते न सहते । भवतु । तर्हि दैववशादेवानवरतं जन्मान्तरपर्यन्तं क्षेमं कुतो न निर्वहतीत्यत आह - प्रायेणेति । प्रायेण बाहुल्येन निसर्गत एव स्वभावत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - कार्येण कारणानुमानम्, कार्यं च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावो विसृतिस्वभावः क्षणभङ्गुरत्वं च, दुःखस्य त्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभङ्गुरत्वमपि । तत्कारणयोरप्येवमेवेति । यावत्पर्यन्तं दैवं तावत्पर्यन्तमेव येनकेनचिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुबन्धादयः । एतद्विपर्यये प्रीत्यायभावः । - - - - टिप्प० -1 अधिगतविद्ययो राम-कृष्णयोरनुरोधेन गुरुः सान्दीपनिः पञ्चजनापहृतं निजपुत्रं गुरुदक्षिणारूपेणेयेष । भगवान्यासुदेवस्तु समुद्राभ्यन्तरे पञ्चजनविनाशोत्तरमप्यलब्धं गुरुतनयं यमपुरादाहृत्य गुरुदक्षिणीचकारेति पुराणकथा । 2 अव्याजम् अत एव रमणीयमित्यर्थ उचितः । 3 अनायतस्वभावानि (अदीर्घाणि, संक्षिप्तानीत्यर्थः) च तानि भङ्गुराणि नश्वराणि । - - - - - पाटा० - १ अनुसारिणम्. २ उलूपी. ३ परिक्षितम्. ४ निर्गतम्. ५ भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभिर्योजितवान्. ६ सांदीपनि. ७ पुरात्रिभुवनवन्दितचरणः स एवापहृतवान्. ८ कवंचिदेवमेवेद तवापि भविष्यति. ९ किमुपालभ्यते. १० क्षमन्ते. महाश्वेतायाः सान्त्वनम् । पूर्वभागः । 367

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494