Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
समर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्येनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथंकथमपि विधृतानिमानसुलभानसून्पुनः शोकानल इन्धनतामुपनेतुम्' इत्येवमुक्ता दीर्घमुष्णं च निःश्वस्य बाष्पायमाणलोचना सनिर्वेदमवादीत् - 'राजपुत्र, या तदा तस्यामैतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न पॅरित्यक्ता ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य शठहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरीकृता । यया चाविष्कृतमदनया वज्रमय्येवेदमनुभूतम्, का वा गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि ।
***********
वाच्यमानानि प्रियजनस्येष्टलोकस्य विश्वासवचनानि विश्रम्भभाषितान्यर्हमपि श्रोतुमसमर्थोऽक्षमः । तत्र हेतुमाह - अनुभवेति । सुहृज्ञ्जनस्य मित्रलोकस्य दुःखान्यनुभवसमां विपाकतुल्यां वेदनां व्यथामुपजनयन्ति निष्पादयन्ति । तदिति हेत्वर्थे । कथंकथमपि महता कष्टेन विधृतानिमानसुलभान्दुःप्रापानसून्प्राणान्पुनः शोकानले शुग्वह्नाविन्धनतामिध्मतामुपनेतुं प्रापयितुं त्वं नार्हसि न योग्या भवसि । इत्येवं पूवोक्तप्रकारेणोक्ता दीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा बाष्पायमाणे लोचने नेत्रे यस्याः सैवंविधा निर्वेदः स्वावमाननं तत्सहितं यथा स्यात्तथावादीदवोचत् । किं तदित्याह - हे राजेति । हे राजपुत्र हे नृपसूनो, याहं तदा तस्मिन्काले तस्यामतिदारुणायामतिभीषणायां हतनिशायामशुभरजन्यामेभिरतिनृशंसैरतिक्रूरैरसुभिः प्राणैर्न परित्यक्ता नोज्झिता तेऽसव इदानीं सांप्रतं मा परित्यजन्ति मुञ्चन्तीति दूरापेतं दूरे स्थितम् । नूनं निश्चितमपुण्योपहताया अधर्मोपहतायाः पापायाः पापिष्ठाया मम दर्शनं निरीक्षणं भगवानन्तकोऽपि यमोऽपि परिहरति परित्यजति । कुतश्चेति । मे मम कठिनहृदयायाः शोकः शुक् कुतः स्यात् । अस्य शठहृदयस्य सर्वं पूर्वोक्तमिदमलीकं मिथ्या । सर्वथेति । सर्वप्रकारेणाहमनेन हृदयेन त्यक्तत्रपेणोज्झितलज्जागुणेन निरपत्रपाणां निर्लज्जानामग्रेसरी पुरोगामिनी कृता विहिता । यया चेति । यया मयाविष्कृतैमदनया प्रकटितकंदर्पया वज्रमय्येव शतकोटिमय्येवेदं पूर्वोक्तमनुभूतमनुभवविषयीकृतम् । का गणना कथनं प्रति, चेदनुभूतं वर्तते तर्हि कथने किं काठिन्यमिति भावः । वेति पक्षान्तरे । अतः परमस्मादन्यत्कष्टतरमतिकृच्छ्रमाख्येयं कथनीयम् । अन्यत्किं भविष्यति यच्छ्रोतुमाकर्णयितुमाख्यातुं कथयितुं वा न शक्यते न पार्यते । केवलेति । केवलमसहायमेकमस्य वज्रपातसदृशदुःखस्यानन्तरं पश्चात् यत् आश्चर्यं चित्रमभूत्तदावेदयामि कथयामि । आत्मनश्चेति । आत्मनः स्वस्य च प्राणधारणं तत्र कारणलव इव हेतुलेशसदृशमव्यक्तोऽस्फुटो यः समुत्पन्नः प्रादुर्भूतस्तं च कथ
-
टिप्पo - 1 एवंविधो पाठश्चायं टीकाकारमहोदयसंमतः । वस्तुतस्तु 'प्रियजनविश्वासवचनानि' इति वाक्ये नास्त्येव । तदभावे - 'अतिक्रान्तान्यपि दुःखानि संकीर्त्यमानानि (सन्ति) सुहृज्जनस्य अनुभवसमां वेदनां जनयन्ति ' इत्यन्वयः । 2 'स्मरणशोकानलेन्धनताम्' इति समस्तमेव मनोरमम् । 3 'अधिगतमदनवेदनया' इत्येव पाठः । अधिगता साक्षादनुभूता मदनवेदना यया तादृश्या, इति तदर्थः । मदनाविष्करणे त्वनौचित्यम् |
पाठा० - १ अनुभवसमयवेदनाम्; अनुभवसमवेदनाम् २ पुनः पुनः स्मरणशोकानलेन्धनताम् ३ या तस्याम् ४ परित्यक्तास्मि तदिदानीं परित्यजन्ति दूरापेतम्; परित्यक्ता सेदानीं परित्यजत इति दूरापेतमेतत्. ५ दुरात्मनः शठहृदयस्य ६ आविष्कृतमन्दवेदनया; अधिगतमदनवेदनया. ७ तस्याः ८ का दुःखगणना, कथं प्रीतिः.
356
कादम्बरी |
कथायाम्
Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494