Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
चन्दनलेखिकया रचितललाटिकम्, ईषदालक्ष्यपरिवृत्ततारकेणानवरतरोदनताम्रेण प्राणोत्सर्गोपजाताश्रुक्षयतया रुधिरमिव क्षरता मदनशरशल्यवेदनाकूणितत्रिभागेन नातिनिमीलितेन लोचैनयुगलेन 'मैत्तो ऽतिप्रियतरस्तवापरो जनो जातः '. इति कुपितेनेव जीवितेन परित्यक्तम्, मन्मथव्यवया सहैतानसून्स्वयमिवोत्सृज्य निश्चेतनासुखमनुभवन्तम्, अनङ्गयो - गविद्यामिव ध्यायन्तम्, अपूर्वप्राणायाममिवाभ्यस्यन्तम्, उपपादितास्मदागमनेन प्रणयादिवापहृतप्राणपूर्णपात्रमनङ्गेन, रैंचितचन्दनललाटिकात्रिपुण्ड्रकम्, धृतसरसबिससूत्रयज्ञोपवीतम्, अंसावसक्तकदलीगर्भपत्रचारुचीरम्, एकावलीविशालाक्षमालम्, अविर -
****: ****
विनाशस्तल्लक्षण उत्पातस्तेनोत्पन्नया प्रकटीभूतया । पुनः कीदृशम् । एवंविधेन लोचनयुगलेन नेत्रयुग्मेन । उपलक्षितमिति शेषः । अथ च लोचनयुगलं विशेषयन्नाह - ईषदिति । ईषत्किंचिदालक्ष्या दृश्याः परिवृता भ्रमन्त्यस्तारकाः कनीनिका यस्मिन् । अनवरतं निरन्तरं रोदनमश्रुपातस्तेनाताम्रेणेषत्ताम्रवर्णेन । प्राणेति । प्राणस्य य उत्सर्गः परित्यागस्तत्रोपजातः समुत्पन्नो योऽश्रुक्षयस्तस्य भावस्तत्ता तया रुधिरमिव रक्तमिव क्षरता प्रस्त्रवता । मदनेति । मदनशराणां कंदर्पबाणानां शल्यमन्तः स्थितशराग्रभागस्तस्य या वेदना पीडा तया कूणित ईषद्वक्रीकृतस्त्रिभागो यस्मिन् । नेत्रस्येति शेषः । नेति । नातिनिमीलितेन नातिमुद्रितेन । मत्त इति । मदिति मत्तः । सार्वविभक्तिकस्तस् । जीवितादपि तव कुमारस्यापरो जनो महाश्वेतारूपोऽतिप्रियतरोऽतिवल्लभो जात इति हेतोः कुपितेन कोपं प्राप्तेन जीवितेन प्राणितेन परित्यक्तमुज्झितम् । मन्मथेति । मन्मथस्य कंदर्पस्य या व्यथा पीडा तया सह स्वयमिवाकस्मादिवैतानसून्प्राणानुत्सृज्य त्यक्त्वा निश्चेर्तना सुखं सातं तदनुभवन्तमनुभवविषयीकुर्वन्तम् । अनङ्गेति । अनङ्गस्य मनोभुवो जयार्थं या योगविद्या तां ध्यायन्तमिव ध्यानविषयीकुर्वन्तमिव । अपूँर्वेति । पूरकाभावादिति भावः । एवंविधं प्राणायामं प्राणनियमनमभ्यस्यन्तमिवाभ्यासं कुर्वन्तमिव । पूर्वं निःशब्दतया प्राणायामावस्थितत्वम्, इदानीं तु पूरकाभावादिति भेदः । उपेति । उपपादितं निष्पादितमस्मदागमनं येनैवंभूतेनानङ्गेन प्रणयादिव स्नेहादिवापहृतमाकर्षितं प्राणलक्षणं पूर्णपात्रं यस्मात्स तम् । 'उत्सवेषु सुहृद्भिर्यद्धलादाकृष्य गृह्यते । तत्पूर्णपात्रम्' इति वृद्धाः । रचितेति । रचितं निर्मितं चन्दनेन ललाटिकासु त्रिपुण्ड्रकं येन तम् । पूर्वमर्धचन्द्राकारललाटिकावर्णनम्, इदानीमर्धचन्द्रोपरि त्रिपुण्ड्रवर्णनमिति भेदः । धृतेति । धृतं धारितं सरसबिससूत्ररूपं यज्ञोपवीतं यज्ञसूत्रं येन स तम् | अंसेति । असे स्कन्धेऽवसक्तं स्थापितं कदलीगर्भपत्रवच्चारु मनोहरं चीरं येन स तम् । विशालेति । एकावल्येव विशाला विस्तीर्णाक्षमाला जपमाला यस्य स तम् । अविरलेति । अविरलो घनोऽमलो निर्मल -
टिप्पo - 1 पुण्डरीकस्य द्वे विशेषणे एकीकृत्य पिण्डीकृतोऽयं पाठः । अत एव 'लोचनयुगलेन' इत्यतोऽग्रे 'मामसूययेव विलोकयन्तम्' इति पाठ संयोज्य एकं पुण्डरीकविशेषणं पूरणीयम् । अर्थस्त्वस्य स्पष्टः । 'मत्तोऽतिप्रियतर०' इत्यादिविशेषणं तु पृथक् स्पष्टं च । 2 'निश्चेतनतासुखम्' इत्येव पाठः । चेतनायां जातायां नानाविधानि दुःखान्युपतिष्ठन्त इति तदाशयः । उपरिधृतः पाठस्तु टीकानुकूलः । 3 पूरणरेचनयोरभावः केवं कुम्भकमेवेति प्रचलितप्राणायामापेक्षयाऽपूर्वत्वम् । 4 मदनेन मम (महाश्वेतायाः ) आगमनरूपं प्रियकार्यं संपाद्य प्राणरूपं पूर्णपात्रं पुण्डरीकेण सह स्नेहवशादपहृतम् । मदनपुण्डरीकयोः स्नेहस्तु समानलावण्येन । इत्याशयो बोध्यः । 5 गर्भपत्रमेव चीरमिति समासो योग्यः, पूर्वापरयोस्तथैव वेषवर्णनात् ।
पाठा० - १ क्षरता नाति. २ लोचनयुगलेन मामसूययेव विलोकयन्तं ३ मत्तः प्रियतरः ४ मन्मथव्यथासहानसून. ५ निश्चेतनतासुखम् ६ रचितललाटिका. ७ विलास.
350
कादम्बरी |
कथायाम्
Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494