Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 353
________________ नम्, उदयगिरिसिद्धसुन्दरीकुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजलधिजलकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमेवदीर्योद्गच्छता शेषफणीमण्डलेनेव रैंजनीकरबिम्बेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लभेन किंचिदुन्मुक्तबालभावेन मकरध्वजबन्धुभूतेन समुपारूढरागेण सुरतोत्सवोपभोगेकयोग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीय - तामनीयत यामिनी । अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिव, उदयगिरिसिंहकरतलाहतहरिणशोणितशो - *********** स्त्रियस्तासां कुचाः पयोधरास्तेभ्यश्च्युतेन गलितेन चन्दनचूर्णराशिनेव मलयजक्षोदसमूहेनेव पाण्डुरीक्रियमाणं शुभ्रतामापाद्यमानम् । चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्राम्भस्तस्य कल्लोलानिलैस्तरङ्गवायुभिरुल्लासितेनोल्लासं प्रापितेन वेलाम्भसो वृद्धिस्तस्याः पुलिनं जलोज्झितं तटं तस्य सिकता वालुका तस्या उद्गमेनेव प्रकटनेनेव । शनैःशनैर्मन्दमन्दं ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । विशदत्वसाम्येनाह - दशनेति । चन्द्रदर्शनात्स्वकीयनाथनिरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव । तदन्विति । तदनु पश्चाद्रसातलान्नागलोकादवनीं पृथ्वीमवदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्वसाम्येनाह - शेषेति । शेषस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरबिम्बेन रजनी त्रियामाऽराजताशोभत । अत्र रजनीकरबिम्बमात्रग्रहणेन चन्द्रस्य बालभावप्रकटीकरणात्समुपारूढातिरागेणेति पूरणीयम् । ततश्च चन्द्रोदयकालेऽतीवारुण्यं बालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव समुपारूढरागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालितहरिपदाम्बुजप्रभारुणाभेति पूरणीयम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शोभनीयतामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथच शशिनं विशेषयन्नाह - सकलेति । सकलः समग्रो यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजनः स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचिदिति । किंचिदीषदुन्मुक्तस्त्यक्तो बालभावः शिशुत्वं येन स तेन । मकरेति । मकरध्वजस्य कंदर्पस्य बन्धुभूतेन स्वजनभूतेन । समिति । समुपारूढोऽध्यासितो रागो रक्तता येन स तेन । सुरतेति । सुरतोत्सवे निधुवनक्षणे य उपभोगस्तत्रैकयोग्येन । सर्वथोचितेनेत्यर्थः । अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं कुर्वता । गगनमिति शेषः । सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव । अथ चन्द्रस्य तरुणभावं वर्णयन्नाह - अथेति । आरोहणानन्तरं तं रजनीकरं चन्द्रमुदितं विलोक्य निरीक्ष्याहं तत्क्षणं तत्कालमचिन्तयं चिन्तितवतीत्यन्वयः । अथ रजनीकरं विशिनष्टि अभीति । अभिनवः प्रत्यग्रो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशमिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्तस्मिन्विद्रुमा रक्तकन्दास्तेषां प्रभाः कान्तयस्ताभिः पाटलितमिव श्वेतरक्तीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रः - 340 - टिप्प० - 1 तरङ्गवायुभिः पुलिनस्थः सिकतासमूह एवं उड्डीय उपरिगतो भवेत्तेनेव इन्दुधाम्ना इत्युप्रेक्षा । 2 मन्दमन्दं स्मितं यस्यास्तस्या इत्यर्थ उचितः । 3 'अवदार्य' इत्युचितः । 4 'अत्र रजनिकरबिम्बमात्रग्रहणेन ०' इत्यादि निरर्थकं, आवश्यकं द्वयोः साधर्म्यं चापलपनमयत्यनेन । सकलजीवलोकानन्दजनकत्वादिविशेषणकृतं साधर्म्यं प्रायः उभयत्र साम्येन । यौवने बालभावस्य उन्मोको जायत एव । एकत्र रागः आरुण्यम्, यौवनपक्षे अनुरागः । अमृतं प्रमोदः ( यौवनपक्षे ), आरोहता ( शरीरे विजृंभमाणेन, इति यौवनपक्षे ) । पाठा० - १ पश्चिमेतरत्. २ अवदार्य. ३ फण. ४ रजनिकर. ५ निजहरिण. कादम्बरी । कथायाम्

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494