Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
श्रवणशिखरचुम्बिन्या च पारिजातमञ्जर्या पद्मरागरत्नरश्मिविनिर्मितेनेव रक्तांशुकेन कृतशिरोवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम् । अवतीर्य च पारिजातकुसुममञ्जरीपरिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविभ्रममिव संपादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य तत्समीपमुदचलम् ।
प्रयान्ती च तरलिकाद्वितीयपरिजनमात्मानमवलोक्याचिन्तयम् - 'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन । नन्वेत एव परिजनलीलामुपदर्शयन्ति । तथा हि - समारोपितशरासनासक्तसायकोऽनुसरति कुसुमायुधः । दूरप्रसारितकरः करमिव कर्षति शशी । प्रस्खलनभयात्पदे पदेऽवलम्बते रागः । लज्जा पृष्ठतः कृत्वा पुरः सहेन्द्रियैर्धावति हृदयम् । निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशं चावदम् - 'अयि तरलिके, -
***********
स्थापितयाक्षमालया जपमालया तथा पारिजातमञ्जर्या च । कीदृश्या श्रवणयोः कर्णयोः शिखरमग्रं चुम्बतीत्येवंशीला सा तया । एतेन विरहव्याकुलतया नवीनं किंचिन्न कृतमिति सूचितम् । पुनः कीदृशी । रक्तेति । रक्तांशुकेन लोहितवस्त्रेण कृतं शिरोवगुण्ठनं यया सा । रक्तत्वसाम्यादाह - पद्मेति । पद्मरागो लोहितकरत्नं तस्य रश्मिभिः कान्तिभिर्विनिर्मितेनेव रचितेनेव । केनेति । केनचिदात्मीयेनापि स्वकीयेनापि परिजनेन परिच्छदेनानुपलक्ष्यमाणाज्ञायमाना । प्रकारान्तरेण तामेव विशेषयन्नाह - मध्विति । मधुकरा भ्रमरास्तेषां जालेन समूहेनानुबध्यमाना निरुध्यमाना । अथ मधुकरसमूहं वर्णयन्नाह - पारीति । पारिजातस्य मन्दारस्य या कुसुममञ्जरी तस्याः परिमलस्तेनाकृष्टेनाकर्षितेन । अतएव रिक्तीकृतोपवनेन । सर्वस्य मधुकरस्य तत्रैव गमनादुपवनं रिक्तीभूतमिति भावः । किं कुर्वता मधुकरकुलेन । कुमुदवनानि कैरवखण्डान्यपहाय त्यक्त्वा धावता त्वरया गच्छता । पुनः किं कुर्वता । नीलेति । नीलपटः कृष्णांशुक तस्यावगुण्ठनविभ्रममिव शिरोवेष्टनविलासमिव संपादयता निष्पादयता । अन्वयस्तु प्रागेवोक्तः ।
प्रयान्तीति । प्रयान्ती गच्छन्ती । तर इति । तरलिकैव द्वितीयः परिजनो यस्यैवंभूतमात्मानमवलोक्य निरीक्ष्याहं महाश्वेताचिन्तयमध्यायम् । किं तदित्याह - प्रियेति । अतिशयेन प्रियः प्रियतमस्तस्याभिसरणमनुगमनं तत्र प्रवृत्तस्योद्युक्तस्य जनस्य बाह्येन बहिर्भूतेन परिजनेन किमिव कृत्यम् । न किमपीत्यर्थः । प्रस्तुतस्य कुमारेण सह संगमरूपस्य कार्यस्य स्वनिकटवर्तिपरिचारिकास्वप्यन्तरङ्गत्वात्तरलिकायास्ततोऽपि संगोप्यमानत्वादिति भावः । परिजनराहित्येऽपि तद्युक्ततां प्रदर्शयन्नाह - नन्विति । ननु निश्चयेन । एते एवाग्रे वक्ष्यमाणां परिजनलीलामुपदर्शयन्ति । तत्कृत्यतां प्रकटीकुर्वन्तीत्यर्थः । तदेव प्रकटयन्नाह - तथा हीति । समारोपितमधिज्यीकृतं यच्छरासनं धनुस्तत्रासक्त आयुक्तः सायको बाणो येनैवंभूतः कुसुमायुधो मदनोऽनुसरत्यनुगच्छति । उद्दीपकत्वात् । दूरं प्रसारिता विस्तारिताः करा हस्ता येनैवंविधः शशी चन्द्रः करमिव हस्तमिव मां कर्षत्याकर्षणं करोति । प्रस्खलनेति । प्रस्खलनभयात्पतनभीतेः पदे पदे रागोऽवलम्बतेऽवलम्बनं करोति । अथ चान्योऽपि सेवकः प्रस्खलनभयात्स्वामिनोऽवलम्बनं करोति । लज्जामिति । लज्जा त्रपां पृष्ठतः पश्चाद्धागे कृत्वेन्द्रियैः करणैः सह हृदयं चेतः पुरोऽग्रे धावति त्वरया व्रजति । निश्चयमिति । कुमारविषयिण्युत्कठोत्कलिका निश्चयमारोप्यायं निश्चयेन प्रियसंगमो भविष्यतीति कृत्वा मां नयति प्रापयति । अन्योऽपि सेवको निश्चयमध्यवसायमारोप्यायं मदीयस्वामीति निश्चित्य नयति । अभिलषितस्थलमिति शेषः । प्रकाशं प्रकटं यथा स्यात्तथाहमित्यवदमवोचम् । किं तदित्याह - अयीति । अयि कोमलामन्त्रणे । हे तरलिके, अपिनाम प्रश्ने ।
-- - टिप्प० - 1 प्रियसंबन्धि तदिदं मण्डनमिति शरीरात्पृथक्कर्तुं नाशाकि इति तु स्मरणीयमत्र । 2 ममेत्युचितम् । पाठा० - १ निर्मितेन. २ विभ्रमाम्. ३ द्वितीयमपरिजनम्. ४ आलोक्य. ५ दूरम्. ६ करः कर्षति.
-
-
-
-
-
-
-
-
-
-
-
महाचेताया अभिसारः
। पूर्वभागः ।
345
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494