Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 360
________________ धूसरं चरणयुगलं कैलासतटाच्चन्द्रोदयप्रेसृतचन्द्रकान्तमणिप्रेसवणे क्षालयन्ती यस्मिन्प्रदेशे स आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्या - हितशङ्का तेन सुतरां विदीर्णहृदयेव किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना 'तरलिके, किमिदम्' इति सभयमभिदधाना वेपमानगात्रयष्टिरंभिमुखमतित्वरितमगच्छम् । 1 अथ निशीथप्रभावाद्दूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् ' हा हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । हा किमिदमापतितम् । किं वृत्तम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणी दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्र चाण्डाल, कृतार्थोऽसि । इदानीमपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः । कृंतं यत्कर्तव्यम् । वहेदानीं यथेष्टम् | हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् | हा धर्म, निष्परिग्रहो - *********** लतानामध्ववल्लीनां कुसुमरजोभिः पुष्परागैर्धूसरमीषत्पाण्डुरं चरणयुगलं पादयुग्मं क्षालयन्ती धावनं कुर्वन्ती यस्मिन्प्रदेशे स कपिञ्जल आस्ते तिष्ठति तस्मिन्नेव स्थलेऽस्याच्छोदाभिधानस्य सरसः पश्चिमे तटे पश्चिमदिग्वर्तितीरे पुरुषस्येव पुरुषसदृशस्य विप्रकर्षाद्दूरान्नातिव्यक्तं नातिस्पष्टं रुदितध्वनिं क्रन्दितशब्दमुपालक्षयमुपलक्षितवती । दक्षिणेति । दक्षिणमपसव्यमीक्षणं लोचनं तस्य स्फुरणं स्पन्दनं तेन च प्रथममेवादावेव मनसि चित्त आहिता स्थापिता शङ्कारेका यया सैवंविधाहं तदुपलक्षणानन्तरं तेन रुदितेन सुतरामतिशयेन विदीर्णहृदयेव विशीर्णस्वान्तेव किमप्यनिष्टमशुभमन्तर्मध्ये कथयतेव ब्रुवतेव विषण्णेन विषादवतान्तरात्मना सेता हे तरलिके, सभयं यथा स्यात्तथा किमिदमित्यभिदधाना ब्रुवाणा वेपमाना गात्रयष्टिः शरीरयष्टिः (यस्याः ) सैवंविधातित्वरितमतिशीघ्रमभिमुखं संमुखमगच्छमव्रजम् । I अथेति । आगमनानन्तरमित्येतान्यन्यानि वाक्यानि च विलपन्तं विलापं कुर्वन्तं कपिञ्जलमश्रौषमाकर्णयं तादृशविलापवाक्येनायं कपिञ्जल एवेति निश्चितवती । इतिशब्दार्थमाह - निशीथेति । निशीथोऽर्धरात्रं तस्य प्रभावान्माहात्म्यद्दूरादेव विप्रकृष्टादेव विभाव्यमानो ज्ञायमानः स्वरो यस्य स तम् । दिवा कोलाहलेन शब्दाः श्रोतुं न शक्यन्त इति भावः । पुनः कीदृशम् । उन्मुक्तेति । उन्मुक्त आर्तनादो येन स तम् । अथार्तस्वरान्विविच्य प्रदर्शयन्नाह - हा हत इति । हा इति खेदे । अहं हतस्ताडितोऽस्मि । हेति पूर्ववत् । दग्धो ज्वलितोऽस्मि । हा वञ्चितो विप्रतारितोऽस्मि । हेति । किमिदमतर्कितमापतितम् । मच्छिरसीति शेषः । किमिदं वृत्तं निष्पन्नम् । उत्सन्न मूलादुत्पाटितोऽस्मि । अहमिति शेषः । हे दुरात्मन् हे मदनपिशाच, हे पाप हे पापिनु, हे निर्घृण हे निर्दय, किमिदमकृत्यमनुष्ठितमाचरितम् । आः पापें दुष्कृतकारिणि, दुर्विनीते शूलके हे महाश्वेते, ते तवानेन पुण्डरीकेण किमपकृतम् । कोऽयमनुपकारः कृतः । आः आक्रोशे । हे पाप पाप्मन्, हे दुश्चरित दुराचार, हे चन्द्र चाण्डाल, त्वं कृतार्थः कृतकृत्योऽसि । इदानीं सांप्रतं हे अपगतदाक्षिण्य दूरीभूतानुकूल्य, हे दक्षिणानिलहतक, ते तव मनोरथाः पूर्णाः परिपूर्णीभूताः । हतक इति हीनोक्तिः । यदिति । यत्कर्तव्यं तत्कृतम् । इदानीं सांप्रतं यथेष्टं यथेच्छया वह संचर । हा भगवन् हा स्वामिन् श्वेतकेतो, पुत्रवत्सल सुतहितकारक, आत्मानं स्वं मुषितमपहृतसर्वस्वं न वेत्सि न जानासि । हेति पूर्ववत् । हे धर्म हे वृष, त्वं - टिप्पo - 1 अत्राऽन्तरात्मना ( करणेन ) इदमभिदधानाऽगच्छम्, इत्युचितम् । ० - १प्रस्तुत; स्नु. २ प्रसवणेन. ३ प्रक्षालयन्ती. ४ अवदीर्ण. ५ तदभिमुखम्. ६ अति. ७ उच्छिन्नोऽस्मि ८ चण्डाल. ९ कृतं कर्तव्यम्. महाश्वेताया अभिसारः पूर्वभागः । 347

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494