Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 343
________________ अहं तु तदाकर्ण्य तदवस्थयैवाप्रतीकारविकारोऽयं तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्याब्रवम् - ‘सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो नियमप्रकारः । कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा । अप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु विषयेषु भवतः । स खलु धर्मबुद्ध्या विषलेता सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागुरुधूमलेखेति कृष्णसर्पमवगृहति, रत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति दुष्टवारणदन्तमुसलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयत - *********** अहं तु तदाकर्ण्य निशम्य तदवस्थयैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकारविकारोऽप्रतिक्रियविकृतिस्तथापि सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृयावच्छक्तितो यावद्बलतः सर्वात्मना सर्वप्रकारेण निवारणीयो वर्जनीय इति मनसा चित्तेनावधार्य निश्चित्याब्रवमयोचम् । हे सखे पुण्डरीक, एतन्मम सुविदितं सुज्ञातम् । तथापि केवलमिदमेव पृच्छामि प्रश्नविषयीकरोमि । तदेवाह - यदिति । भवता त्वया यदेतदारब्धं प्रस्तुतं तत्किमिदं गुरुभिर्हिताहितप्राप्तिपरिहारोपदेशकैरुपदिष्टं कथितम्, उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्, उताथवायं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारो भेदः, उत स्वर्गगमनस्यायं मार्गः पन्थाः, उतेदं व्रतस्य दीक्षाया रहस्यमुपनिषत्, उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् । आहो इति । आहोस्विद्धितर्के । अन्यो विलक्षणो नियमप्रकारोऽभिग्रहविशेषः । भवतस्तव कथमेतद्युक्तमुचितं मनसापि चित्तेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं वा किं पुनर्भण्यते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रबुद्ध इवाज्ञानीवानेन मन्मथहतकेन पापकारिणा कंदर्पणात्मानं स्वमुपहासास्पदतां परिहासधामता नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि । हीति निश्चितम् । मूढो मन्दो मदनेन कंदर्पणायास्यते पीड्यते । साध्विति । साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु प्राकृताः पामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवंविधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा वाञ्छा । स इति । स मूढो धर्मबुध्या पुण्यमिति कृत्वा विषलतां विषवल्ली सिञ्चति सेकं करोति । कुवलेति । कुवलयमालोत्पलसगिति कृत्वा निस्त्रिंशलतां खङ्गलतामालिङ्गत्याश्लिषति । कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य धूमलेखा दहनकेतनपङ्क्तिरिति कृत्वा कृष्णसर्पमवगृहति परिष्वजते । रत्नेति । रत्नमिति मणिरिति कृत्वा ज्वलन्तमङ्गारं प्रसिद्धमभिस्पृशति स्पर्श करोति । मृणालेति । मृणालमिति तन्तुलमिति कृत्वा दुष्टो यो वारणो गजस्तस्य दन्तमुसलं दशनायोग्रमुन्मूलयत्युच्छिनत्ति । तच्छब्दस्य यच्छब्दसापेक्षत्वादाह - य इति । यः पुमाननिष्टानां दुःखानामनुबन्धः परम्परा विद्यते येष्वेवंविधेषु विषयोपभोगेष्विन्द्रियार्थोपभोगेषु सुखबुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् । अधीति । अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गन - टिप्प० - 1 व्रतानुष्ठानभेदः । 2 मनसापि चिन्तयितुं भवतः कथं युक्तमित्यन्वयो बोध्यः । 3 साधारणाः । 4 कमलकन्दम् । - - - - - - - - - - - - - -- - - - - - -- - पाठा० - १ युक्तिः . २ कथय किमप्रबुद्ध. ३ लतावनम्. ४ अवगृहते. ५ महारत्नम्. ६ अनुबन्धेषु. ७ यः परिणतिविरसेषु. 330 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494