Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 325
________________ दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत्कात्स्येन योऽयम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन्स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् - 'अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम्' इत्युक्त्वा समुपसृत्यात्मीयाच्छ्रवणादपनीय कलैरलिकुलक्वणितैः प्रारब्धरतिसमागमप्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुममवतंसस्थाने पुलकमासीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गुलिजालकात्करतलादक्षमाला लज्जया सह गलितामपि नाज्ञासीत् । अथाह तामसंप्राप्तामेव भूतलमक्षमालां गृहीत्वा सलीलं तद्भुजपाशसंदानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्वहारलतालीला कण्ठाभरणतामनयम् । इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत् - 'भर्तृदारिके, स्नाता देवी । प्रत्यासीदति - *********** मञ्जाः को दोषः । प्रणयेन स्नेहेन परिग्रहः स्वीकारः क्रियतां विधीयतामिति मयाभिधायोक्त्वानिच्छतोऽप्यवाञ्छतोऽपीयं अस्य कर्णपूरीकृता श्रवणाभरणीकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छाविषयीकृतं कात्स्न्येन साकल्येन मया सर्वमावेदितं कथितम् । तदेतत्किमित्यभिप्रायेणाह - योऽयमित्यादि । योऽयं कुमारः, येयं मञ्जरी, यथा येन प्रकारेणास्य श्रवणशिखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीति । तस्मिन्मुनावित्युक्तवति कथितवति सति । स इति । स पुण्डरीकस्तपोधनयुवा किंचिदीषदुपदर्शितं स्मितमदृष्टरदं हास्यं येनैवंभूतो मामवादीप्रत्यवोचत् । अयीति संबोधने । अयि कुतूहलिनि, अनेन प्रश्नायासेन पृच्छापरिश्रमेण किम् । यदीति । यदि रुचितो रुचिविषयीभूतः सुरभिपरिमलो यस्या एवंविधेयं तदा गृह्यतां ग्रहणविषयीक्रियताम् । इति पूर्वोक्तमुक्त्वा समुपसृत्य समीपमागत्यात्मीयात्स्वकीयाच्छ्रवणात्कर्णादपनीय दूरीकृत्य मदीये श्रवणपुटे तां मञ्जरीमकरोदघटयत् । कलैरिति । कलैर्मनोज्ञैरलिकुलक्वणितैर्मधुकरकुलशब्दितैः । प्रारब्धेति । प्रारब्धा प्रस्तुता रतिसमागमस्य संभोगसमागमस्य प्रार्थना याचना ययैवंभूतामिव । एतेन स्वानुरक्तिः प्रदर्शिता । मम त्विति । मम तु । तु पुनरर्थकः । तस्य यत्करतलं तत्स्पर्शलोभेन तत्तृष्णयातत्क्षणमवतंसंस्थाने पुलकं अपरं पारिजातकुसुममिवासीत् । एतेन द्वितीयकर्णेऽपि तच्छोभा सूचिता । स चेति । स पुण्डरीको मत्कपोलस्पर्शसुखेन गल्लात्परप्रदेशाश्लेषसातेन तरलीकृतं कम्पनीकृतमगुलिजालकं यस्यैवंभूतात्करतलाद्धस्ततलालज्जया त्रपया सह गलितां च्युतामप्यक्षमालां जपमालां नाज्ञासीन्न ज्ञातवान् । तदनुरक्तं ज्ञात्वा तस्य पुण्डरीकस्य यो भुजपाशो बाहुपाशस्तेन संदानितः संयतो यः कण्ठग्रहः कण्ठालिङ्गनं तजनितं यत्सुखं तत्सदृशमिव । अत्रेवशब्दः सादृश्यार्थः । तदुक्तमलंकारशेखरे - 'भवन्तीवादिशब्दाश्च सादृश्यप्रतिपत्तये । अनुभवन्त्यनुभवविषयीकुर्वन्ती कण्ठाभरणतां निगरणभूषणतामनयमानीतवती । कीदृशीम् । दर्शिता प्रकटीकृतापूर्वहारलताया लीला यस्यां सा ताम् । इत्थमिति । इत्थंभूत एतादृशे व्यतिकरे परस्परानुरागातिशये छत्रग्राहिण्यातपत्रधारिणी मामवोचदब्रवीत् । किमुवाचेत्याह - भर्चिति । हे भर्तृदारिके हे राजपुत्री, स्नाता कृतस्नाना देवी त्वन्माता वर्तते । । टिप्प० -1 न खलु मजर्या दोषः प्रसक्तो यदेवमुच्येत । तस्मात् - 'को दोषः अर्थात् वनदेवताया अनुरोधस्वीकारे (मञ्जरीग्रहणे) को दोषः' इत्यर्थः । 2 अर्थात् कर्णे । 3 इयमप्यव्युत्पत्तिः । बाहुपाशेन संदानितो यः कण्ठस्तस्य ग्रहणसुखम् (तदालिङ्गनसुखम्) अनुभवन्तीव इत्यर्थ उचितः । - - - - - - - - - - - - - - - - पाठा०.१ योऽयं या चेयम्. २ श्रवणशिखरे. ३ प्रश्नाशयेन. ४ गृह्यताम्. ५ हृदयम्. 1312 कादम्बरी। कथायाम्

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494