Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 236
________________ तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च संततदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पृषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनान्युपदेशानाम् । अपगतमले हि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शखाभरणमाननशोभासमुदयमधिकतरमुपजनयति । ह॑रत्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव । गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन्गुणरूपेण तदेव परिणमयति । अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य । कुसुमशरशर *********** रजोगुणेन भ्रान्तिर्भ्रमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निरन्तरम् । सुखाभिमानोत्पादनाद् दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यग्रतारुण्येन कषायितं विपरिवर्तितमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्य मानानि तान्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति । मधुराण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह- सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि जलानिमधु ( रत) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्त्रक्चन्दनवनितादिष्वत्यासङ्गोऽत्यासक्तिः पुरुषमात्मानं नाशयति । क इव । दिङ्मोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह उन्मार्ग इति । उन्मार्गोऽपथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षाणां भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति । अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवंभूते मनसि चित्त उपदेशगुणाः शिक्षागुणाः सुखेनानायासेन विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनिकरश्चन्द्रस्तस्य गभस्तयः किरणास्तद्वदिव । दोषे सति किं स्यादित्याह - गुरुवचनमिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्य वचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवणस्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयतीत्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्तमाह- सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्यथाजनकं स्यात् । दोषाभावे त्वाहइतरस्य त्वधिकतरमाननशोभास ु दयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकारमिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदोषसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव । प्रकारान्तरेणाह - प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रस्तद्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव । वयःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूह पलितरूपेणामलीकुर्वंस्तदेव शिरसिजजालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह- अयमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनुभवो यस्यैवंविधो विषयरसो यस्य तथा तस्य । आस्वादितविषयस्य तूपदेशो निरर्थकः स्यादित्याह - कुसुमेति । टिप्प० - 1 कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरुवचनेन साधोर्मुखशोभा, रुचिपूर्वकं श्रवणेन आनने उल्लासोदयात् । पाठा० - १ इन्द्रियहरिणहरती च २ सततमतिदुरन्तेयमुपभोग; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. ३ भाजनम् ४ सुखम् ५ च ६ अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम् ७ अतिमलिनमपि ८ परिणामः ९ कुसुमशरप्रहार. शुकनासोपदेशः पूर्वभागः । 223

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494