Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 206
________________ रसरसलुलितलाजकेवलै पालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनोपविष्टैधर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, अधिगतसकलग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखितसकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमानशासनसहसम्, अभ्यन्तरावस्थितनरपतिनिर्गमप्रतीक्षणपरेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्धचन्द्रतारागणशबलचर्मफलकैर्निशासमयमिव दर्शयता स्फूरितनिशितकरवालकरप्ररोहकरालितातपेनैकश्रवणपुटंघटितधवलदन्तपत्रेणोर्ध्वबद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा - *********** मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृता स्थापिता मधुरा मिष्टाः सरसा रसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवंविधैस्तुरङ्गमैरश्चैरुद्भासितं शोभितम् । अधीति । अधिक्रियते जवोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यक्षेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालिख्यमानं लिपीक्रियमाणं शासनसहसमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्चिशिनष्टि - अधीति । अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समग्रं जगद्विष्टपमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तया । धर्मराजो यमस्तस्य नगर संयमिनीति ख्यातं तस्माद् व्यतिकरमतिशयं दर्शयद्भिः । एतेन चित्रगुप्तलिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचितमिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्यन्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च धेतबिन्दुचित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्रतारकानिमित्तवत्त्वादाह - निशेति । निशासमयमिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्ग तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन एकश्रवणपुट एककर्णपुटे घटित संयोजितं धवलं दन्तपत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवल यच्चन्दनं तस्य स्थासका आभरणविशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गुडेन आर्टीकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासाः चाञ्चल्यवशान्मा निपातयन्त्विति सेवकैर्मुखे ध्रियन्त इति तुरगस्वभावः । 2 केषाञ्चित्पक्षे आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समानधर्मत्वमेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापार संबन्धं वेत्यर्थः । यमनगरलेखकैः सह अधिकरण (कचहरी) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता परमविदुषा । 3 चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः-एवमपि कस्यचन मतः । 'थापा' इति भाषा । पाठा० - १ लवलुलित; लवविलुलित. २ जम्बाल. ३ ग्रामखर्बटनगर; नगरखेटखवट; खेटखवट. ४ अधिकार. ५ निर्गमन. ६ परेण स्थाने स्थाने. ७ तारागणशतशबलः. ८ घटितानेकदन्त. राजभवनम् । पूर्वभागः । 193

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494