Page #1
--------------------------------------------------------------------------
________________
Nutan Sanskrit Series
201 Nyayabindutika
आचार्यधर्मकीर्तिप्रणीतः
न्यायविन्दुः
धर्मोत्तराचार्यप्रणीत
न्यायबिन्दुटीका
समेतः
Edited by
P. 1. TARKAS
M. A., LL. B.
Nutan Mudranalaya
AKOLA (M.P.)
I Eion]
1952
9001
[Price
Page #2
--------------------------------------------------------------------------
________________
Nutan Sanskrit Series
Nyayabindutikā आचार्यधर्मकीर्तिप्रणीतः न्यायाबिन्दुः धर्मोत्तराचार्यप्रणीत न्यायबिन्दुटीका
समेतः ।
Edited by P. 1. TARKAS
M.A., LL. B.
Nutan Mudranalaya
AKOLA (M.P.)
I Edition]
1952
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
Contents
Chapter 1
Chapter III
ग्रन्थस्याभिधेयप्रयोजनम् सम्यग्ज्ञानलक्षणम् प्रत्य झलक्षगं विभागश्च स्वलक्षणं, परमार्थसत् सामान्यलक्षणं प्रमाणफलम् प्रमाणम्
Chapter II . स्वार्थानुमानम् लिङ्गस्य त्रैरूप्यम्
, त्रैविध्यम् अनुपलब्धिः स्वभावः कार्यम् प्रतिबन्धः ( व्याप्तिः) दृश्यानुपलब्धिः - तस्या एकादशभेदाः विप्रकृष्टविषयानुपलब्धिः
१ | परार्थानुमानम्
साधर्म्यवत्प्रयोगाः वैधर्म्यवत्प्रयोगाः एकप्रयोगे इतरगतिः पक्षलक्षणम् पक्षाभासाः आसिद्धः हेत्वाभासः अनैकान्तिकः द्विविधविरोधः विरुद्धः हेत्वाभासः इष्टविघातकृत् विरुद्धाव्यभिचारी पैलुकप्रयोगः पैठरप्रयोगः
दृष्टान्तो नावयवः २९ दृष्टान्ताभासाः
दूषणा ४० | जातयः
Page #5
--------------------------------------------------------------------------
________________
Errata
Chapter I, P. 2, L. 22, read व्याख्यातॄणां 3, 4 दिषु तू. 5, 4 साक्षात्प्राप्ति. 5, 18 निबन्धनैवेति. 5, 25 ब्रूयाद्याकाचित्पुरुषार्थसिद्धिः सा स. 7 25 ग्रहणेनैवानुमानं. 9, 2 स्य सा न. 12, 1 क्षण एको गु. 12, 15 नेऽऽन्तरः 12, 22 सातरूपत्वमनु. 13, 24 तत्र यदसाधारणं तत्प्रत्यक्षस्य. 14, 26 उपादेय 15, 26 प्रत्यक्षं ज्ञानं तदेव.
Chapter II, 22, 10 -- 11 त्रीण्येव 22, 16 स्वभावः कार्य. 25, 2 मुपादयों. 26, 26 न तु. 27, 9 दात्म्यात्तदुत्प. 27, 18 स्वभाव. 28, 24 कृष्टेष्वर्थेष्वा 37, 25 प्रतीतिरिति स्वा. 40, - 7 न ज्ञानज्ञेय.
Chapter III, 43, 20 इत्यनुपलब्धिप्रयोगः 44, 2 व्याप्यस्य वात. 53, 23 प्रयोगयोः. 54, 2 अस्मात्साधर्म्यक. 54, 3 सन्नोपलभ्यते. 54, 26 इति ' सामर्थ्यम् ' 55,9 प्यात्मार्थता साध्या. 58, 3 प्रतिपादनाय. 59, 1 एतैः 63, 27 अनित्यत्वं वा. 66, 4 & 7 अनित्य. 69, 27 कश्चिद्दृष्टो 69, 28 क्षणान्तरजननासामर्थ्य. 71, 16 नावसीयते. 75, 12 परस्परस्य. 76, 16 श्वासादय, 76, 25 दर्शयन्सम्यग्धेतुः 84, 8 तत् तत् आत्मी. 88, 17 विकला. 89, 24 दृष्टान्ते. 90, 25 वैधम्र्येणापि .
Page #6
--------------------------------------------------------------------------
________________
धर्मकीर्तिप्रणीतो
न्यायबिन्दुः। आचार्यधर्मोत्तरविरचितटीकोपेतः ।
प्रथमः परिच्छेदः।
॥ ॐ नमः सर्वज्ञाय ॥ जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः । रागाद्यरातेः सुगतस्य वाचो
मनस्तमस्तानवमादधानाः ।। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति
तयुत्पाद्यते ॥१॥ सम्यग्ज्ञानपूर्विकेत्यादिनास्य प्रकरणस्याभिधेयप्रयोजनमुच्यते । द्विविधं हि. प्रकरगशरीरं - शब्दोऽर्थश्चेति । तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न निरूप्यते । आभिधेयं तु यदि निष्प्रयोजनं स्यात्तदा. तत्प्रतिपत्तये शब्दसन्दर्भोऽपि : नास्म्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावान्न तत्परीक्षा आरम्भणीया प्रेक्षावता । तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात्सम्यग्ज्ञानपूर्विका [२] सर्वपुरुषार्थसिद्धिः तस्मात्तत्प्रतिपत्त्यर्थमिदमारभ्यत इत्ययमत्र वाक्यार्थः । ___ अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् । अस्मिंश्चार्थे उच्यमाने सम्बन्धप्रयोजनाभिधेयान्युक्तानि भवन्ति । तथा हि – पुरुषार्थोपयोगि सम्यग्ज्ञानं
Page #7
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका
[ १ परिच्छेदः व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसंदर्भ - स्याभिधेयं तत्पादनं प्रयोजनं प्रकरणं चेदमुपायो व्युत्पादनस्येत्युक्तं भवति । तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात्सम्बन्धादीन्युक्तानि भवन्ति । न त्विदमेकं वाक्यं सम्बन्धमभिधेयं प्रयोजनं च वकुं साक्षात्समर्थम् । एकं तु वदत् त्र्यं सामर्थ्याद्दर्शयति । तत्र तदित्याभिधेयपदम् । व्युत्पाद्यत इति प्रयोजनपदम् । प्रयोजनं चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते श्रोतुश्च श्रवणव्यापारस्य । तथा हि- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश्चाऽऽचार्येण प्रकरणं किमर्थं कृतं श्रोतृभिश्च किमर्थं श्रूयत इति संशये व्युत्पादनं प्रयोजनमभिधीयते । सम्यग्ज्ञानं व्युत्पाद्यमानानामात्मानं व्युत्पादकं कर्तुं प्रकरणमिदं कृतं; शिष्यैश्वाचार्य प्रयुक्तामात्मनो व्युत्पत्तीमिच्छद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरणश्रवणयोः प्रयोजनव्युत्पादनम् । सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः । प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवताऽयमेवोपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
3
1
ननु च प्रकरणश्रवणात्प्रागुक्तान्यप्यभिधेयादीनि प्रमाणाभावात्प्रेक्षावद्भिर्न गृह्यन्ते तत्किमेतैरारम्भप्रदेशे उक्तैः । सत्यम् । अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमाणकेष्वप्यभिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गम् प्रेक्षावताम् । अनर्थसंशयो निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव पूर्वं सम्बन्धादीनि युज्यन्ते वक्तुम् । आख्यातॄणां हि वचनं क्रीडाद्यर्थमन्यथापि सम्भाव्येत । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्याभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृतिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येतास्य प्रकरणस्य काकदन्तपरीक्षाया इव, अशक्यानुष्ठानं वा ज्वरहरतक्षक चूडारलालङ्कारोपदेशवत्, अनभिमतं वा
Page #8
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायाबिन्दुटीका प्रयोजनं मातृविवाहक्रमोपदेशवत् । अतो वा प्रकरणाल्लघुतर उपायः [३] प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत । एतासु चानर्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिषूक्तेष्वर्थसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया तु प्रेक्षावन्तः प्रवर्तन्ते इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तु सम्बन्धादीन्यभिधीयन्ते इति स्थितम् ।
अविसंवादकं ज्ञानं सम्यग्ज्ञानम् । लोके च पूर्वमुपदर्शितमर्थ प्रापयन्संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थ प्रापयत्संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम् । नान्यत् । तथा हि-न ज्ञानं जनयदर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत्नापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात्प्रवर्तयितुं शक्नोति ज्ञानम् । अत एव चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः । तथा च सत्यर्थाधिगमात्समाप्तः प्रमाणव्यापारः । अत एवानधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतोऽर्थस्तनैव प्रवर्तितः पुरुषः प्रापितश्चार्थः । तत्रैवार्थे किमन्येन ज्ञानेनाधिकं कार्यम् । ततोऽधिगतविषयमप्रमाणम् । तत्र योऽर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः । यस्माद्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम् , तस्माद् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनानिश्चिन्वत् प्रवृत्तिविषयं दर्शयति । तथा च प्रत्यक्षं प्रतिभासमानं नियतमर्थ दर्शयति, अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाणे । नान्याद्वज्ञानम् । प्राप्तुं शक्यमर्थमादर्शयत्प्रापकम् । प्रापकत्वाच्च प्रमाणम् । आभ्यां प्रमाणाभ्यामन्येन ज्ञानेन दर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः, यथा मरीचिकासु जलम्, स चासत्त्वात्प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः , यथा
माणव्यापारः ।
ऽथस्तनैव प्रवर्तितः माणम् । येनैव हि
भासमानं नियसन्चत् प्रवृत्तिविषय वा प्रत्यक्ष
Page #9
--------------------------------------------------------------------------
________________
४
न्यायाबिन्दुटोका [१ परिच्छेदः संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यास्ति । ततः प्रातुमशक्यस्तादृशः । सर्वेण चालिङ्गजेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः । स च प्राप्तुमशक्यः । तस्मादशक्यप्रापणमत्यन्तविपरीतं भावाभावानियतं चार्थ दर्शयदप्रमाणमन्यज्ज्ञानम् ।
अर्थक्रियार्थिभिश्वार्थक्रियासमर्थार्थप्राप्तिनिमित्तं ज्ञानं मृयते । यच्च तैर्मृग्यते तदेव . शास्त्रे विचार्यते । ततोऽर्थक्रियासमर्थवस्तुप्रदर्शक [४] सम्यग्ज्ञानम् । यच्च तेन प्रदर्शितं तदेव प्रापणीयम् । अर्थाधिगमात्मकं हि प्रापणमित्युक्तम् । तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारं भिन्नदेशं भिन्नकालं च । विरुद्धधर्मसंसर्गाद्धयन्यद्वस्तु । देशकालाकारभेदश्च विरु द्वधर्मसंसर्गः । तस्मादन्याकारवद्व तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् । यथा पीतशङ्खग्राहि शुक्ले शङ्के । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् | यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकदेशस्थे मणौ । कालान्तरयुक्तग्राहि च न कालान्तरवंति वस्तुनि प्रमाणम् । यथार्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्न ज्ञान नार्द्धरात्रकालवस्तुनि प्रमाणम् ॥ ननु च देशनियतमाकारनियतं च प्रापयितुं शक्यम् । यत्कालं तु परिच्छिन्नं तत्कालं न शक्यं प्रापयितुम् । नोच्यते यस्मिन्नेव काले परिच्छिद्यते तास्मन्नेव काले प्रापयितव्यमिति, अन्यो हि दर्शनकालोऽन्यश्च प्राप्तिकालः, किंतु यत्कालं परीच्छन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसायाच्च संतानगतमेकत्वं द्रष्टव्यमिति ।
सम्यग्ज्ञानं पूर्व' कारणं यस्याः सा तथोक्ता । कार्यात्पूर्व भवत् कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु पुरुषार्थसिद्धेः साक्षात्कारणं गम्येत । पूर्वशब्दे तु पूर्वमात्रम् । द्विविधं च सम्यग्ज्ञानम् - अर्थक्रियानिर्भासं , अक्रियासमर्थे च प्रवर्तकम् । तयो
Page #10
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायाबन्दुटोका यत्प्रवर्तकं तदिह परीक्ष्यते । तच्च पूर्वमात्रम् । न तु साक्षाकारणं । सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम्, स्मरणादाभलाषः, आभलाषात्प्रवृत्तिः प्रवृत्तेश्च प्राप्तिः । ततो न साक्षाहेतुः । अर्थक्रियानि से तु यद्यपि साक्षात्प्रवृत्तिस्तथापि तन्न परीक्षणीयम् । यत्रैव हि प्रेक्षावन्तोऽर्थिनः साशङ्कास्तत्परीक्ष्यते । अक्रियानि से च ज्ञाने सति सिद्धः पुरुषार्थः । तेन तत्र न साशङ्का अर्थिनः । अतस्तन्न परीक्षणीयम् । तस्मात्परीक्षार्हमसाक्षात्कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्द पारत्यज्य पूर्वग्रहणं कृतम् ।
पुरुषस्यार्थः । अर्थ्यत इाते 'अर्थः' । काम्यत इति यावत् । हेयोऽर्थ उपोइयो वा । हेयो ह्यर्थो हातुमिष्यते, उपादेयो ह्युपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति । उपेक्षणीयोऽप्यनुपादेयत्वाद्धेय एव । तस्य सिद्विनिमुपादानं च । हेतुनिबन्धना हि सिद्धिरुत्पत्तिरुच्यते । ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम् । हेयस्य हानमनुष्ठानम् , उपादेयस्य [५] चोपादानम् । ततो हेयोपादेययोर्हानोपादानलक्षणा अनुष्ठितिः सिद्धिरित्युच्यते ।
सर्वा चासौ पुरुषार्थसिद्धिश्चेति । सर्वशब्द इह द्रव्यकास्न्ये वृत्तो न प्रकारकास्न्र्ये । ततो नायमर्थः - द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनेति । अपि त्वयमर्थः - या काचित्सिहिः सा सर्वा कृत्रीवासौ सम्यग्ज्ञाननिबन्धनेति । मिथ्याज्ञानाद्धि काकतालीयापि नास्त्यर्थसिद्धिः । तथा हि - यदि प्रदर्शितमर्थ प्रापयत्येवं ततो भवत्यर्थासद्धिः । प्रदर्शितं च प्रापयत्सम्यग्ज्ञानमेव । प्रदार्शतं चाप्रापयान्मथ्याज्ञानम् । अप्रापकं च कथमसिधिनिबन्धनं स्यात् । तस्माद्यन्मिथ्याज्ञानं न ततोऽर्थसिद्धिः । यतश्चार्थसिद्धिस्तत्सम्यग्ज्ञानमेव । अत एव सम्यग्ज्ञानं यत्न तो व्युत्पादनीयम् , यतस्तदेव पुरुषार्थासद्धेर्निबन्धनम् । ततो यावद् ब्रूयापुरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवति तावदुक्तं सर्वा सा सम्यग्ज्ञानपूर्विकेति । इतिशब्दस्तस्मादित्यस्मिन्नर्थे । यत्तदोश्च नित्यमभि
Page #11
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [१ परिच्छेदः सम्बन्धः । तदयमर्थः - यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थासद्धिः तस्मात् 'तत् ' सम्यग्ज्ञानं व्युत्पाद्यते। यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानं तथापीह प्रकरणे व्युत्पादायितव्यत्वात्प्रधानम् । ततः तस्यैव तच्छब्देन सम्बन्धः । 'व्युत्पाद्यते' इति । विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते ॥
व्युत्पाद्यत इति, चतुर्विधा चात्र विप्रतिपतिः । संख्यालक्षणगोचरफलविषया । तत्र संख्याविप्रतिपातं निरा कर्तुमाह -
द्विविधं सम्यग्ज्ञानम् ॥२॥ द्विविधमिति । द्वौ विधौ प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति । द्वे एव सम्यग्ज्ञानव्यक्ती इति । व्यक्तिभेदे प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् । ततो लक्षणभेदकथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् । किं पुनस्तद् द्वैविध्यमित्याह -
[६] प्रत्यक्षमनुमानं च ॥३॥ प्रत्यक्षमिति प्रतिगतं आश्रितं अक्षम् । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा. २, २, १८) इति समासः । प्राप्तापन्नालंगतिपूर्वसमासेषु परवल्लिङ्गताप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वालङ्गः प्रत्यक्षशब्द: सिद्धः । अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य न तु प्रवृत्तिानोमत्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लभ्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किंचित् अर्थस्य साक्षात्कारि ज्ञान तत् प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियविज्ञानमेव प्रत्यक्षमुच्यत न मानसादि । यथा 'गच्छतीति गौः' इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थ
Page #12
--------------------------------------------------------------------------
________________
१ परिच्छेदः ]
न्यायबिन्दुटीका
समवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति ।
मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणं प्रमाणमभिधीयते । लिङ्गग्रहणसम्बन्ध स्मरणस्य पश्चान्मानमनुमानम् । गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभाव्युच्यते । चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणम्, अद्भुत् अर्थाविनाभावित्वादनुमानमपि परिछिन्नमर्थं प्रापयत्त्रमा • णमिति ।
तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् ॥ ४॥
तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः - ‘तत्र' तयोः प्रत्यक्षनुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमित्येकदेशनिर्देशः । तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षत्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधयते । यत्तद्भवतामस्माकं चार्थेषु साक्षात्का रिज्ञानं प्रसिद्धं तत्क - ल्पनापोढा भ्रान्तत्वयुक्तं द्रष्टव्यम् । न चैतन्मन्तव्यं कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सदनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम् । तदनुवादेन कल्पनापोढ। भ्रान्तत्वविधिः । [७] कल्पनाया अपोढमपेतं 'कल्पनापोढम् ' । कल्पनास्वभावरहितमित्यर्थः । 'अभ्रान्तं' अर्थक्रिया क्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्तम् । एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थम् । म त्वनुमाननिवृत्त्यर्थम् । यतः कल्पनापोढग्रहणेवैवानुमानं निवर्तितम् । तत्रासत्यभ्रान्तग्रहणे गच्छद्दृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यत इति संवादकत्वात्सम्यग्ज्ञानम् । कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थमभ्रान्तग्रहणम् । तद्धि भ्रान्तत्वान्न प्रत्यक्षम् ।
Page #13
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [१ परिच्छेदः त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणामन्तरमस्ति । अतो गच्छदृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति ॥ यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षस्तेन परिच्छिन्नः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो गच्छदृक्षो दृष्टस्तद्देशो नावाप्यते, यद्देशश्चावाप्यते स न दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते । ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते । इत्येवमन्नान्तग्रहणं विप्रतिपत्तिनिरासार्थम् । तथा अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिरासार्थम् । भ्रान्तं ह्यनुमानम् । स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेम प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्ये रूपे न विपर्यस्तम् । न त्वविसंवादकमभ्रान्तमिह ग्रहीतव्यम् । यतः सम्यग्ज्ञानमेव प्रत्यक्षम् । नान्यत् ।
तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात् - प्रत्यक्षाख्यं यदविसंवा. दकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न चानेन हिरविसंवादग्रहणेन किञ्चित् । तस्माद ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् ।
कीदृशी पुनः कल्पनेह गृह्यत इत्याह---- अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना ॥५॥
अभिलप्यतेऽनेनेति — अभिलापो' वाचकः शब्दः । अभिलपेन संसर्गः अभिलापसंसर्गः । एकस्मिज्ञानेऽभिधेयाकारस्याभिधानाकारण सह ग्राह्याकारतया मीलनम् । ततो यदैकस्मिज्ञानेऽभिधेयाभिधानयोराकारौ संनिविष्टौ भवस्तदा संसृष्टेऽभिधानाभिधेये भवतः । [८] अभिलापसंसर्गाय योग्योऽभिधेयाकाराभासो यस्यां प्रतीतौ सा तथोक्ता । तत्र काचित्प्रतीतिरमिलापेन संसृष्टाभासा भवति । यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावमासा भवति । काचित्वमिलापेनासंसृष्टाऽप्यभिलापसंसर्गयोग्याभासा भवति । यथा बाल
Page #14
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायबिन्दुटोका कस्याव्युत्पन्नसंकेतस्य कल्पना । तत्र 'अभिलापसंसृष्टाभासा कल्पना' इत्युक्तावव्युत्पन्नसंकेतस्य न संगृह्यते । योग्यग्रहणे तु सापि संगृह्यते । यद्यप्याभेलापसंमृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चामिलापसंसृष्टा सापि योग्या । तत उभयोरपि योग्यग्रहणेन संग्रहः ।।
____ असत्यमिलापसंसर्गे कुतो योग्यतावसितिरिति चेत् । अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थानोत्पद्यते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतत् विकल्पोऽर्थान्नोत्पद्यत इति ? अर्थसंनिधिनिरपेक्षत्वात् । बालोऽपि हि यावदृश्यमानं स्तनं ' स एवायम्' इति पूर्वदृष्टत्वेन न प्रत्यवमृश्यति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वत विज्ञानमसंनिहिताविषयम् । पूर्वदृष्टरयासंनिहितत्वात् । असंनिहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहतोरमावा इनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् । इन्द्रियविज्ञानं तु संनिहितमात्रग्राहित्वादर्थसापेक्षम् , अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् । अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्यैतदविकल्पकत्वमुच्यते । यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च मवेत्, तथाप्यभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् ॥
__ न चन्द्रियविज्ञानं अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् । श्रोत्रविज्ञानं तर्हि शब्दस्खलक्षणग्राहि । शब्दस्वलक्षणं च किंचिद्वाच्यं किंचिद्वाचकं इत्याभिलापसंसर्गयोम्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् । नैष दोषः । सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन
Page #15
--------------------------------------------------------------------------
________________
न्यायाबन्दुटोका [१ परिच्छेदः गृह्यमाणं स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभाविदर्शनाविषयत्वं वस्तुनः संप्रत्यस्ति । यथा हि संकेतकालभावि दर्शनमद्य निरुद्धं तद्वत् तद्विषयत्वमप्यर्थस्याद्य नास्ति । [९] ततः पूर्वकालदृष्टत्वमपश्यत् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि ।
अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि संकेतकालदृष्टत्वाग्रहणानिर्विकल्पकम् । तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहित
विभ्रमं ज्ञानं प्रत्यक्षम् ॥ ६ ॥ 'तया' कल्पनया कल्पनास्वभावेन रहितं' शून्यं सत् ज्ञानं यदभ्रान्तं तत् प्रत्यक्षमिति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणं, न प्रत्येकमिति दर्शयितुं 'तया रहितं' ' यदभ्रान्तं' तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति । तिमिरमक्ष्णोविप्लवः । इन्द्रियगतमिद विभ्रमकारणम् । आशुभ्रमणमलातादेः । मन्दं हि भ्राम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते । तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छदृक्षादिभ्रान्तिरुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्चाध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमकारणरिन्द्रियविषयबाह्याध्यात्मिकागयतैरिन्द्रियमेव विकर्तव्यम् । अविकृते इन्द्रिये इन्द्रियन्नान्त्ययोगात् । एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते ; आशुनयनानयनादयो विषयस्थाः, आशुनयनानयने कार्यमाणेऽलातादावनिवर्णदण्डाभासा भ्रान्तिर्मवति ; हस्तियानादयो बाह्याश्रयस्थाः ; गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । तैरनाहितो विनमो यस्मिंस्तत्तथाविधं ज्ञानं प्रत्यक्षम् ।
Page #16
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायबिन्दुटीका
तदेवं लक्षणमाख्याय यैः इन्द्रियमेव द्रष्ट कल्पितं मानसप्रत्यक्षलक्षणे च दोष उद्भावितः स्वसंवेदनं च नाभ्युपगतं योगिज्ञानं च, तेषां विप्रतिपत्तिनिराकरणार्थ प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह -
[१०] तत् चतुर्विधम् ॥ ७ ॥ तत् प्रत्यक्षम् ।
इन्द्रियज्ञानम् ॥ ८॥ इन्द्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्द्रियाश्रितं यत् ।
मानसप्रत्यक्षे परैर्यो दोष उद्भावितः तं निराकर्तुं मानसप्रत्यक्षलक्षणमाह - स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन सम
नन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ॥ ९ ॥ ___ स्वः आत्मीयो विषय इन्द्रियज्ञानस्य । तस्यानन्तरः । न विद्यतेऽन्तरमस्येत्यनन्तरः । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षणः एकसंतानान्तर्भूतो[ऽत्र] गृहीतः । स सहकारी यस्येन्द्रियविज्ञानस्य तत्तथोक्तम् । द्विविधश्च सहकारी। परस्परोपकारी एककार्यकारी च । इह च क्षाणके वस्तुन्यातशयाधानायोगात् एककार्यकारित्वेन सहकारी गृह्यते । विषयविज्ञानाभ्यां हि मनोविज्ञानमकं क्रियते यतः, तदनयोर्न परस्परसहकारित्वम् । ईदृशेनेन्द्रियविज्ञानेनालम्बनप्रत्ययभूतेनापि योगिज्ञानं जन्यते । तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासौ ज्ञानत्वेन, अनन्तरश्चासावव्यवाहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् , ' समनन्तरप्रत्ययः'। तेन जनितम् । तदनेनैकसंतानान्तर्भूतयोरेव इन्द्रियज्ञानमनोविज्ञानयोः जन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसंतानवर्ति निरस्तम् ।
- यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य, तदा गृहीतगृहणादासअितोऽप्रामाण्यदोषो निरस्तः । यदा चोन्द्रयज्ञान
Page #17
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटीका [१ परिच्छेदः विषयोपादेयभूतः क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसंगो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षामष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्व चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि [११] विज्ञानस्य । एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवंजातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति ।
स्वसंवेदनमाख्यातुमाह - सर्वचित्तचैत्तानामात्मसंवेदनम् ॥ १० ॥
सर्वाचितेत्यादि । 'चित्तं' अर्थमात्रग्राहि । 'चैत्ताः' विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंविदिताः; नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् । इह च रूपादौ वस्तुनि दृश्यमानेऽन्तरः सुखाद्याकारः तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातादिरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेणानुभूयत इति न निश्चीयते । यदि हि सातादिरूपोऽयं नीलादिरनुभूयत इति निश्चीयेत, स्यातदा तस्य सातादिरूपत्वम् । यस्मिन्रूपे प्रत्यक्षत्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षन् । न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव सातमनुभूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपं वेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च । तस्मात्प्रत्यक्षम् । ..
योगिप्रत्यक्षं व्याख्यातुमाह --- भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥११॥
___ 'भूतः' सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यसत्यानि । भूतार्थस्य ‘भावना' पुनः पुनश्चेतसि विनि
Page #18
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायबिन्दुटीका वेशनम् । भावनायाः ‘प्रकर्षः' भाव्यमानार्थावभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य ' पर्यन्तः' यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्ण तावत्तस्य प्रकर्षगतिः । सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्तात् यज्जातं भाव्यमानस्य अर्थस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं [ तत् ] योगिनः [१२] प्रत्यक्षम् । तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवत् भाव्यमानस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् । स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नविनष्टं ज्ञानं सम्प्रत्यसत् , तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसंनिहितार्थग्राहित्वादस्फुटाभम् । अस्फुटाभत्वादेव च सविकल्पकम् । ततः स्फुटाभत्वानिर्विकल्पकम् । प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः समाधिः । स यस्यास्ति स योगी । तस्य ज्ञानं प्रत्यक्षम् । इतिशब्दः परिसमाप्त्यर्थः, इयदेव प्रत्यक्षामेति ।
तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं निराकर्तुमाह ---
तस्य विषयः स्वलक्षणम् ॥ १२ ॥
तस्य चतुर्विधप्रत्यक्षस्य विषयो बोद्धव्यः - स्वलक्षणम् । स्वमसाधारणं लक्षणं तत्त्वं ' स्वलक्षणम् ' । वस्तुनो ह्यसाधारणं. च तत्त्वमस्ति सामान्यं च । यदसाधारणं तत्प्रत्यक्षग्राह्यम् । द्विविधो हि प्रमाणस्य विषयः । ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । 'अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन संतान एव । संतान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुम
Page #19
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [१ परिच्छेदः शक्यत्वात् । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थयाहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनाध्यवसीयते यतः ; ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोऽनुमानस्य, अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याह-- [१३] यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञान
प्रतिभासभेदः तत् स्वलक्षणम् ॥ १३ ॥
अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । 'संनिधान' निकटदेशावस्थानम् । 'असंनिधानं ' दूरदेशावस्थानम् । तस्मात्सनिधानादसन्निधानाच 'ज्ञानप्रातभासस्य ' ग्राह्याकारस्य भेदः स्फुटवास्फुटत्वाभ्याम् । यो हि ज्ञानस्य विषयः सन्निहितः सन् स्फुटमाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्यदेशावस्थित एवास्फुट करोति तत स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि ।
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् ; तथा हि, विकल्पविषयोऽपि वहिदृश्यात्मक एवावसीयत इत्याह -
तदेव परमार्थसत् ॥१४॥ 'परमार्थः । अकृत्रिममनारोपितं रूपम् , तेनास्तीति परमार्थसत् । य एवार्थः सान्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसत् स एव, स एव च प्रत्यक्षविषयो यतः ; तस्मात् तदेव स्वलक्षणम् ।
कस्मात्पुनस्तदेव परमार्थसदित्याह - अर्थक्रियासामर्थ्यलक्षणत्वादेव वस्तुनः ॥ १५ ॥
अर्थ्यत इत्यर्थः, हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयाश्चोपादातुम् । 'अर्थस्य ' प्रयोजनस्य 'क्रिया' निष्पत्तिः
Page #20
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायाबिन्दुटीका तस्यां सामर्थ्य' शक्तिः तदेव ‘लक्षणं' रूपं यस्य वस्तुनः तदर्थक्रियासामर्थ्यलक्षणं, तस्य भावः, तस्मात् । वस्तुशब्दः परमार्थसत्पर्यायः । तदयमर्थः । यस्मादर्थक्रियासमर्थ परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रातभासस्य भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया प्राप्यते । न विकल्पविषयात् । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते [१४] तथापि न दृश्य एव । ततोऽर्थक्रियाऽभावात् । दृश्याच्च भावात् । अतः तदेव स्वलक्षणं न विकल्पविषयम् ।
अन्यत् सामान्यलक्षणम् ॥१६॥
एतस्मात्स्वलक्षणाद्यद् अन्यत्', स्वलक्षणं यो न भवति ज्ञानविषयः , तत् सामान्यलक्षणम् । विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति । तथा हि, आरोग्यमाणो वह्निः आरोपात् अस्ति, आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्निवानाञ्च ज्ञानप्रतिभासस्य न भेदः, स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं 'सामान्यलक्षणम्'। साधारणं रूपमित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः तत् सामान्यलक्षणम् । तच्चानुमानस्य ग्राह्यं दयितुमाह -
सोऽनुमानस्य विषयः ॥१७॥ · सोऽनुमानस्य विषयो ग्राह्यरूपः - सर्वनाम्नोऽभिधेयवल्लिङ्गपारिग्रहः । सामान्यलक्षणम् * अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् । ततो लाघवार्थ प्रत्यक्षपरिच्छेदे एवानुमानविषयः उक्तः ।।
विषयविप्रतिपतिं निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह -- तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥१८॥
यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् ।
Page #21
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [१ परिच्छेदः कथं प्रमाणफलमित्याह --
अर्थप्रतीतिरूपत्वात् ॥ १९ ॥ अर्थस्य प्रतीतिरवगमः । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तत् अर्थप्रतीतिरूपम् । तस्य भावः तस्मात् । एतदुक्तं भवति । प्रापक ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न [१५] केवलादर्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनोऽप्यकुरादेरप्रापकत्वात् । तस्माद्राह्यादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्त्तव्यः प्रापणव्यापारः, येन कृतेनार्थः प्रापितो भवति । स एव च प्रमाणफलं यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य प्रापणव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपं अर्थ. दर्शनरूपम् । अतस्तदेव प्रमाणफलम् ।
___ यदि तर्हि ज्ञान प्रमितिरूपत्वात् प्रमाणफलं, किं तर्हि प्रमाणमित्याह --
अर्थसारूप्यमस्य प्रमाणम् ॥२०॥ अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत् प्रमाणमिह । नोन्द्रियादिकम् । यस्माद्विषयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते ॥
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणं, तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत्कथं सारूप्यं प्रमाणमित्याह --
तदशादर्थप्रतीतिसिडेरिति ॥ २१ ॥
तदिति सारूप्यम् । तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरवबोधः । तस्याः सिद्धिः । तसिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशासिद्धयति । प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं यतः तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं
Page #22
--------------------------------------------------------------------------
________________
१ परिच्छेदः] न्यायबिन्दुटीका
१७ शक्यतेऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः येनैकस्मिन्वस्तुनि विरोधः स्यात् , अपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यम् तस्य ज्ञानस्य, व्यवस्थाप्यं च नलिसंवेदनरूपम् ॥ व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्येति चेत् । उच्यते । [ १६ ] सदृशमनुभूयमानं ताद्वज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन; तस्मात् सारूप्यमनुभूतं व्यवस्थापनहेतुः, निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः, अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् , व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । न तु निर्विकल्पकत्वात् प्रत्यक्षमेव नीलबोधरूपत्वेनात्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापित, सदपि नीलबोधरूपं, विज्ञानमसत्कल्पमेव । तस्मानिश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद्भवति । ___तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेन व्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमाधिगमरूपमनिष्पन्नम् । अतः साधकतमत्वाभावात् प्रमाणमेव न स्यात् ज्ञानम् । जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञानेऽवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति ॥ यद्येवं अध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान्न केवलमिति चेत् । नैतदेवम् । यस्मात् प्रत्यक्षबलोत्पन्नेनाध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते नोत्प्रेक्षितत्वेन। दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः । तथा हि, परोक्षमर्थ विकल्पयन्तः ‘उत्प्रेक्षामहे न तु पश्यामः' इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादवस्यन्ति । तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति
यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायः, तत्र प्रत्यक्षं केवलमेव प्रमाणम् ॥ । इति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां
प्रत्यक्षपरिच्छेदः प्रथमः ॥
Page #23
--------------------------------------------------------------------------
________________
अथ द्वितीयपरिच्छेदः ।
[१७] एवं प्रत्यक्षं व्याख्यायानुमानं व्याख्यातुमाह ---
अनुमानं द्विधा ॥१॥ द्विप्रकारकम् ॥ अथानुमानलक्षणे वक्तव्ये किमकस्मात्प्रकारभेदः कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदान्नकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा, प्राक प्रकारभेदः कथ्यत इति । किं पुनस्तद्वैविध्यमित्याह --
स्वार्थ परार्थ च ॥२॥ स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत् स्वार्थम् । परस्मायिदं परार्थम् । येन परं प्रतिपादयति तत्परार्थम् । [१८] तत्र स्वार्थ त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं
तदनुमानम् ॥३॥ 'तत्र' तयोः स्वार्थपरार्थानुमानयोर्मध्ये ' स्वार्थ ज्ञानं ' किंविशिष्टमित्याह - त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्रिरूपम् । लिङ्गयते गम्यतेऽनेनार्थ इति — लिङ्गम् ' । तस्मात्रिरूपाल्लिङ्गात् यत् जातं ज्ञानमिति, एतत् हेतुद्वारेण विशेषणं, तत् । त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टिअनुमेये इति । एतच विषयद्वारेण विशेषणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् स्वार्थमनुमानमिति ।
लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह --
Page #24
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायाबिन्दुटोका प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् ॥४॥
प्रमाणस्य यत्फलं तस्य या व्यवस्था साऽत्रानुमानेऽपि प्रत्यक्षे इव ' प्रत्यक्षवत् ' वेदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् , नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् ; तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तत् नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिप्रत्तयः ; प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिः निराकृता ।
लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह --
त्रैरूप्यम् पुनः लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि । तदिदमुच्यत इति शेषः ।
किं पुनस्तत् त्रैरूप्यमित्याह - लिङ्गस्यानुमेये सत्वमेव [निश्चितं] ॥५॥
अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वमेव निश्चितं एक रूपम् । यद्यपि चात्र निश्चितग्रहणं न कृतं तथाप्यन्ते कृतं प्रक्रान्तयोर्द्वयोरपि [१९] रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तं, यथा बीजमङ्कुरस्य; अदृष्टाडूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानोत्पादापेक्षं परोक्षार्थप्रकाशनम् , यथा प्रदीपो घटादेः ; दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । नापरः कश्चित् । अतोऽन्वय-व्यतिरेक-पक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् । तत्र सत्त्ववचनेन असिद्धं चाक्षुषत्वादि[त्यादि] निरस्तम् ; एवकारेण पक्षकदेशासिद्धः, यथा 'चेतनास्तरवः स्वापात् ' इति ।
Page #25
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका
[ २ परिच्छेदः
पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वापः एकदेशेन सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाज:, किंतु केचिदेव | सत्त्ववचनस्य पश्चात् कृतेन एवकारेण असाधारणो धर्मो निरस्तः । यदि मे एव सत्त्वमिति कुर्यात्, श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन संदिग्धासिद्धः सर्वो निरस्तः ।
२०
सपक्ष एव सत्त्वम् [ निश्चितं ] ॥ ६ ॥ सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः, स हि नास्ति सपक्षे ; एवकारेण साधारणानैकान्तिकः [ यथा ] ' अनित्यः शब्दः प्रमेयत्वात् ' । स हि न सपक्षे एव वर्तते किं तूभयत्रापि । सत्त्वग्रहणात्पूर्वावधारणवचनेन सपक्षाच्या पिसत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात् सपक्षे सत्त्वमेव यस्य स हेतु:, इति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन संदिग्धान्वयो ऽनैकान्तिको निरस्तः, यथा ' सर्वज्ञः कश्चिद्वक्तत्वात् ' । वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् ।
असपक्षे चासत्त्वमेव निश्चितम् ॥ ७ ॥
असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितं तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरास, ' नित्यः शब्दः कृतकत्वात् खवत्'। विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृतेोर्निरासः । प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादावास्त आकाशादो नास्ति । ततो नियमेनास्य निरासः । असत्त्ववचनात्पूर्वस्मिन्नवधारणेऽयमर्थः स्यात् विपक्षे एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि सर्वत्र नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितI ग्रहणेन संदिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः ॥
-
ननु च सपक्षे एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव, तत्किमर्थं पुनरुभयोरुपादानं कृतम् । उच्यते । अन्वय
Page #26
--------------------------------------------------------------------------
________________
___ २१
२ परिच्छेदः] न्यायबिन्दुटीका व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् । अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् - सपक्षे योऽस्ति विपक्षे च नास्ति स हेतुरिति । तथा च सति 'स श्यामः तत्पुत्रत्वात् दृश्यमानपुत्रवत्' इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्तव्यः , येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थ द्वयोरुपादानमिति ।
- त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं वक्तव्यम् । तत्र कोऽनुमेय इत्याह - . अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥८॥
'अत्र' हेतुलक्षणे निश्चतव्ये धर्मी अनुमयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः। व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितुं अत्रग्रहणम् । 'जिज्ञासितः' ज्ञातुमिष्टः 'विशेषः ' धर्मो यस्य धर्मिणः स तथोक्तः ।
कः सपक्षः - साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥९॥
_ 'समानोऽर्थः सपक्षः'। समानः सदृशो योऽर्थः पक्षण स सिमक्ष उक्त उपचारात् समानशब्देन विशेष्यते । समानः पक्षः सपक्षः । समानस्य च सशब्दादेशः ॥ स्यादेतत् । किं [२१] तत् पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षणेत्याह - साध्यधर्मसामान्येनेति । साध्यश्वासावसिद्धत्वात् धर्मश्च पराश्रितत्वात् 'साध्यधर्मः' । न च विशेषः साध्यः , अपि तु सामान्यम् । अत इह सामान्य साध्यमुक्तं साध्यधर्मश्चासौ सामान्यं चेति । साध्यधर्मसामान्यन समानः पक्षेण · सपक्षः' इत्यर्थः । ___कोऽसपक्ष इत्याह --
Page #27
--------------------------------------------------------------------------
________________
२२
न्यायबिन्दुटीका २ परिच्छेदः न सपक्षोऽसपक्षः ततोऽन्यस्तद्विरुडस्तद
भावश्चेति ॥ १० ॥ न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः । कश्च सपक्षो न भवति । 'ततः' सपक्षादन्यः । तेन च विरुद्धः। तस्य च सपक्षस्याभावः । सपक्षादन्यत्वं ताद्वरुद्धत्वं च न तावत्प्रत्येतुं शक्यं यावत् सपक्षस्वभावाभावो न विज्ञातः । तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्सपक्षाभावरूपी प्रतीतावन्यविरुद्धौ । ततोऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ प्रतीयते । ततस्त्रयाणामप्यसपक्षत्वम् ।
त्रिरूपाणि च त्रिण्येव लिङ्गानि ॥ ११ ॥
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रिण्येव लिङ्गानीति । चकारो वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि चोच्यन्ते । त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयास्त्ररूपलिङ्गप्रकारा इत्यर्थः । .
कानि पुनस्तानीत्याह -- अनुपलब्धिः स्वभावकार्ये चेति ॥ १२ ॥
प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभावस्त्रिरूपः । कार्य च ।
अनुपलब्धिमुदाहर्तुमाह -- [२२] तत्रानुपलब्धिर्यथा न प्रदेशविशेषे कचिद्धटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥ १३ ॥
यथेत्यादि । यथेत्युपप्रदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्याऽपि, न त्वियमेवेत्यर्थः । 'प्रदेश' एकदेशः । विशिष्यत इति ‘विशेषः । प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह - कचिदिति ।
Page #28
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायाबिन्दुटीका
२३ प्रतिपत्तृप्रत्यक्षे क्वचिदेव प्रदेशे इति धर्मी । न घटः इति साध्यम् । 'उपलब्धिः ' ज्ञानम् । तस्याः · लक्षणं' जनिका सामग्री । तया ह्यनुपलब्धिर्लक्ष्यते । तत्प्राप्तोऽर्थो जनकत्वेन सामन्यन्तभावात् ' उपलाब्धलक्षणप्राप्तः' दृश्य इत्यर्थः । तस्यानुपलब्धरित्ययं हेतुः ॥ अथ यो यत्र नास्ति स कथं तत्र दृश्यः । दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते । यश्चैवं संभाव्यते ' यद्यसावत्र भवेद दृश्य एव भवेत' इति, स तत्राविद्यमानोऽपि दृश्यः समारोप्यः ॥ कश्चैवं संभाव्यः । यस्य समग्राणि स्वालम्बनदर्शनकारणानि भवन्ति ॥ कदा च तानि समग्राणि गम्यन्ते । यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं लोचनादिप्राणधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षं एकज्ञानसंसर्गि कथ्यते । तयोहि सतो कानयता भवात प्रतिपत्तिः । • योग्यताया द्वयोरप्यावीशष्टत्वात् । तस्मादेकज्ञानसंप्सर्गिणि दृश्यमाने सत्येकस्मिन् इतरत् समग्रदर्शनसामनीकं यदि भवेद् दृश्यमेव भवेदिति संभावितं दृश्यमारोप्यते । तम्यानुपलम्भो दृश्यानुपलम्भः । तस्मात्स . एव घटविविक्तप्रदेशः तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद् दृश्यानुपलम्भ उच्यते । यावद्धयेकज्ञानसंसर्गि वस्तु न निश्चितं तज्ज्ञानं च, न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्त्वप्यनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयमानीश्चतत्वादगमकम् । ततो दृश्यघटरहितः प्रदेशः तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम् ।
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह -- उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं
स्वभावविशेषश्च ॥ १४ ॥ 'उपलब्धिलक्षणप्राप्तिः' उपलब्धिलक्षणप्राप्तत्वं घटस्य । ' उपलम्भप्रत्ययान्तरसाकल्यम्' इति । ज्ञानस्य घटोऽपि जनकः , अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि । [२३] तेषां साकल्यं संनिधिः । स्वभाव एव, विशिष्यते तदन्यस्मादिति, विशेषः ; विशिष्ट इत्यर्थः । तदयं विशिष्टः स्वभावः प्रत्यया
Page #29
--------------------------------------------------------------------------
________________
२४
न्यायबिन्दुटीका
न्तरसाकल्यं चैतद्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेर्द्रष्टव्यम् । कीदृशः स्वभावाविशेष इत्याह
-
[ २ परिच्छेदः
यः स्वभावः सत्स्वन्येषुपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः ॥ १५ ॥ सत्स्वित्यादि । उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तदयमत्रार्थः एकप्रतिपत्रपेक्षमिदं प्रत्यक्षलक्षणम् । तथा च सति, द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टुर्दृश्यमान उभयवान्भावः । १ । अदृश्यमानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः, प्रत्ययान्तरसाकल्यवन्तस्तु । यैर्हि प्रत्ययैः स दृष्टा पश्यतेि ते संनिहिताः । अत संनिहिता यैः द्रष्टुं प्रवृत्तः सः । २ द्रष्टुमप्रवृत्तस्य तु योग्यदशस्था अपि द्रष्टुं ते न शक्याः, प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्तु । ३ । दूरदेशकालास्तूभयवेिकलाः | ४ ॥ तदेवं पश्यतः कस्य चिन्न प्रत्ययान्तरविकलो नाम; स्वभावविशेषावकलस्तु भवेत् । १ । अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः प्रत्ययान्तरविकलः । २ । अन्ये तूभयविकला इति । ३ ।
1
अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह-
--
स्वभावः स्वसत्तामात्र भाविनि साध्यधर्मे हेतुः ||१६|| स्वभावो हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्यैव स्वभाव इत्याह । स्वस्थ आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम् । तस्मिन्सति भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसताया व्यतिरिक्तं कञ्चिद्धेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन्साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य, नान्यः ।
[२४] उदाहरणम् ।
यथा वृक्षोऽयं शिंशपात्वादिति ॥ १७ ॥
अयमिति धर्मी । वृक्ष इति साध्यम् । शिंशपात्वादिति हेतुः । तदयमर्थः - वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वादिति ।
Page #30
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायबिन्दुटीका तत्र प्रचुरशंशपे देशेऽविदितशिंशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्शोच्यते ' अयं वृक्षः' इति तदासौ जाड्याच्छिशपाया उच्चत्वमपि वृक्षव्यवहारानिमित्तमवस्यति । तदा यामेवानुच्चां शिंशपां पश्यति तामेवावृक्षमवस्यति । स मूढः शिंशपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते – 'नोच्चत्वादि निमितान्तरमिह वृक्षव्यवहारस्य, अपि तु शिंशपात्वमात्रं निमित्तम् ' । शिशपागतशाखादिमत्त्वं निमित्तामत्यर्थः ।
कार्यमुदाहर्तुमाह -
कार्य यथाग्निरत्र धूमादिति ॥१८॥
अमिरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भानिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ।
ननु त्रिरूपत्वादेकमेव लिङ्गमयुक्तम् । अथ प्रकारभेदानेदः; एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तमित्याह - अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः ॥ १९ ॥
_ 'अत्र' इति एषु त्रिषु हेतुषु मध्ये द्वौ हेतू 'वस्तुसाधनौ' विधेः साधनौ गमकौ । एकः प्रतिषेधस्य ‘हेतुः' गमकः । प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः । तदयमर्थः-- हेतुः साध्यसिद्धयर्थत्वात् साध्याङ्गम् । साध्यं प्रधानम् । अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदात् भेदो न स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः कश्चित्प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणावस्थानात् तयोः हेतू भिन्नौ । विधिरपि [२५] कश्चिद्धतोभिन्नः कश्चिदभिन्नः । भेदाभेदयोरपि अन्योन्यत्यागेनात्मस्थितेः भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्ना न तु स्वत एवेति ।
कस्मात्पुनस्त्रयाणां हेतुत्वं कस्माच्चान्येषामहेतुत्वमित्याशङ्कय वथा त्रयाणामेव हेतुत्वमन्येषां चाहेतुत्वं तदुभयं दर्शयितुमाह --
Page #31
--------------------------------------------------------------------------
________________
२६
न्यायाबिन्दुटीका [२ परिच्छेदः स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत् ॥ २०॥
स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः । 'साधनं कृता' (पा. २, १, ३२) इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे स्वभावे च साध्ये म्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । हिर्यस्मादर्थे । यस्मात स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् तस्मात् त्रयाणां गमकत्वं अन्येषामगमकत्वम् । .
कस्मात्पुनः स्वभावप्रतिबन्धे एव सति गम्यगमकभावो नान्यथेत्याह -- तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ॥ २१ ॥
तदिति स्वभाव उक्तः । तेन स्वभावेनाप्रतिबद्धः । तदप्रतिबद्धः' । यो यत्र स्वभावेन न प्रतिबद्धः तस्य तदप्रतिबद्धस्य 'तदव्यभिचारनियमाभावात्। तस्य प्रतिबन्धविषयास्याव्यभिचारः तदव्यभिचारः तस्य नियमः तदव्यभिचारनियमः तस्याभावात् । अय. मर्थः- न हि यो यत्र स्वभावेन न प्रतिबद्धः स तमप्रतिबन्धविषयमवश्यमेव न व्यभिचरति, इति नास्ति तयोः 'अव्यभिचारनियमः' अविनाभावनियमः । अव्यभिचारनियमाच्च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम् , अपि त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावनिश्चयः । ततो गम्यगमकभावः । तस्मात स्वभावप्रतिबन्धे सत्यर्थोऽर्थ गमयेत् नान्यथेति स्थितम् ।
ननु च परायत्तस्य प्रतिबन्धोऽपर यते । तदिह साध्यसाधनयोः कस्य व प्रतिबन्ध इत्याह -
[२६] स च साध्येऽर्थे लिङ्गस्य ॥ २२ ॥
' स च ' स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्गं परायत्तत्वात् प्रतिबद्धम् । साध्यस्त्वर्थोऽपर यत्तत्वात् प्रतिबन्धविषयः न प्रतिबद्ध इत्यर्थः । तत्रायमर्थः - तादात्म्याविशेषऽपि यत् प्रतिबद्धं तत्
Page #32
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायबिन्दुटोका
२७ गमकम् । यत् प्रतिबन्धविषयः तत् गम्यम् । यस्य च धर्मस्य यन्नियतः स्वभावः स तत्प्रतिबद्धः, यथा प्रयत्नानन्तरीयकत्वाख्यः अनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथाऽनित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं निश्चितम् । अतः तदेवानित्यत्वे प्रसिद्धम् । तस्मान्नियतविषयः एव गम्यगमकभावो नान्यथेति ।
कस्मात्पुनः स्वभावप्रतिबन्धो लिङ्गस्य साध्येन इत्याह --- वस्तुतस्तादात्म्यात्साध्यादर्थादुत्पत्तेश्च ॥ २३ ॥
वस्तुत इत्यादि । स साध्योऽर्थः 'आत्मा' स्वभावो यस्य तत् तदात्मा तस्य भावः तादात्म्यं तत्स्वभावत्वं तस्मात् हेतोः। यतः साध्यस्वभावं साधनं, तस्म त् तत्तत्र स्वभावप्रतिबद्धमित्यर्थः । यदि साध्यस्वभावं साधनं, साध्यसाधनयोरभेदात् प्रतिज्ञार्थंकदेशो हेतुः स्यादित्याह- वस्तुत इति । परमार्थसता रूपेणाभेदस्तयोः; विकल्पविषयस्तु यत् समारोपितं रूपं तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः वास्तवस्तु अभेद इति । न केवलं तादात्म्यादपि तु ततः' ' साध्यादर्थादुत्पत्तेः ' लिङ्गस्य । तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ।
कस्मात् निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य, नान्यस्मादित्याह -- अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्ध
स्वभावत्वात् ॥ २४ ॥ स स्वभावोऽस्य सोऽयं तत्स्वभावः, न तत्स्वभावः ‘अतस्वभावः । तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः, न तथा ' अतदुसत्तिः' । यो यत्स्वभावो यदुत्पत्तिश्च [२७] न भवति तस्य तत्स्वभावस्यातदुत्पत्तेश्च । 'तत्र' अतत्स्वभावेऽनुत्पादके च । अ
Page #33
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटोका [२ परिच्छेदः प्रतिबद्धः स्वभावोऽस्यति सोऽयं अप्रतिबद्धस्वभावः तम्य भावः अप्रतिबद्धस्वभावत्वं तस्मात् 'अप्रतिबद्धस्वभावत्वात्' । यदि अतत्स्वभावे अनुत्पादके च कश्चित् प्रतिबद्धत्वभावो भवेत् , भवेदन्यतोऽपि निमित्तात् स्वभावप्रतिबन्धः । प्रतिबद्ध स्वभावत्वं हि स्वभावप्रतिबन्धः, न चान्यः कश्चिदायत्तस्वभावः । तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः ।
भवतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः , कार्यस्वभावयोरेव तु गमकत्वं कथमित्याह ----- ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति
ताभ्यामेव वस्तुसिहिः ॥ २५ ॥ इतिस्तस्मादर्थे । यस्मात् स्वभावे कार्ये एव च तादात्म्यतदुत्पत्ती स्थिते तन्निबन्धनश्च गम्यगमकभावः , तस्मात् 'ताभ्यामेव ' कार्यस्वभावाभ्यां ' वस्तुनः ' विधेः सिद्धिः ।
____ अथ प्रतिषेधासहिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह - प्रतिषेधसिडिरपि यथोक्ताया एवानुपलब्धेः ॥ २६ ।।
प्रतिषेधव्यवहारस्य सिद्धिः यथोक्ता या दृश्यानुपलब्धिः तत एव भवति यतः , तस्मादन्यतो नोक्ता ।
ततस्तावत् कस्माद्भवतीत्याह -- सति वस्तुनि तस्या असंभवात् ॥ २७ ॥
सति तस्मिन् प्रतिषेध्ये वस्तुनि यस्माद् दृश्यानुपलब्धिः न संभवति, तस्मात् असंभवात् ततः प्रतिषेधसिद्धिः ।
अथ तत एव कस्मादित्याह -- [२८] अन्यथा च अनुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वात्मप्रत्यक्षनिवृत्तेरभाव
निश्चयाभावात् ॥ २८ ॥ सति वस्तुनि तस्या अदृश्यानुपलब्धेः संभवादित्यन्यथा
Page #34
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायाबन्दुटीका
२९ शब्दार्थः । एतस्मात्कारणान्नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ॥ कुत एतत् सत्यपि वस्तुनि तस्याः संभव इत्याह -- अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्च उपलब्धिलक्षणप्राप्तोऽर्थः उक्तः । द्वयोरेकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते । तदिह अनुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरकैवल्यवन्त उक्ताः । देशकालस्वभावविप्रकृष्टेष्विति स्वभावविशेषविप्रकृष्टा उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति विग्रहः । तेष्वभावनिश्चयस्याभावात् । सत्यपि वस्तुनि तस्याभाव इष्टः । कस्मान्निश्चयाभाव इत्याह- तेषु प्रतिपतुः ‘आत्मनः' यत् प्रत्यक्षं तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्मात् अनुपलाब्धिलक्षणप्राप्तेष्वात्मप्रत्य
क्षनिवृत्तेरभावनिश्चयाभावः , तस्मात् सत्यपि वस्तुन्यात्मप्रत्यक्षनिवृत्तिलक्ष.णाया अदृश्यानुपलब्धेः संभवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ।
अथेयं दृश्यानुपलब्धिः कस्मिन्काले प्रमाणं किस्वभावा किंव्यापारा चेत्याह -
अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी ॥ २९ ॥
. प्रतिपतुः प्रत्यक्षो घटादिरर्थः तस्य 'निवृत्तिः' अनुपलब्धिः, तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः , स्वभावानुपलब्धेः सिद्धत्वात् । अविद्यमानोऽपि च घटादिरेकज्ञानसंसर्गिणि भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यमानतया संभावितत्वात् प्रत्यक्षः उक्तः । अत एकज्ञानसंसर्गी दृश्यमानोऽर्थः तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात् तद्दुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया संभावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञानं एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः [२९] निवृत्तिमात्रात् दृश्यनिवृत्त्यनिश्चयात् ॥ ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञानसंसर्गिणि दृश्यमाने 'घटो यदि भवेद् दृश्य एव भवेत् ' इति दृश्यः संभावितः ततो दृश्यानुपलब्धिनिश्चिता । दृश्यानुपलाब्धिनिश्चयसाम
Page #35
--------------------------------------------------------------------------
________________
३०
न्यायबिन्दुटीका [२ परिच्छेदः ादेव च दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद दृश्यानुपलम्भो न भवेत् । अतो दृश्यानुपलम्भनिश्चयाद् दृश्याभावः साम
•दवसितो न तु व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः । तस्मादर्थान्तरं एकज्ञानसंसर्गि दृश्यमानं तज्ज्ञानं च प्रत्यक्षनिवृतिनिश्चयहेतुत्वात् प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् । यथा चैकज्ञानसंसगिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतोऽपि; तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते, वर्तमाने चामूढस्मृतिसंस्कारे (च), घटस्य तद्रूपमारोपितमसतः इति द्रष्टव्यम् । अनेन दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता । सा च सिद्धा । तेन न घटाभावः साध्यः अपि त्वभावव्यवहार इत्युक्तम् ।
— अमूढः ' अभ्रष्टो दर्शनाहितः स्मतिजननरूपः संस्कारो यास्मिन् घटादौ स तथोक्तः। तस्यातीतस्य प्रतिपत्तप्रत्यक्षस्यति सम्बन्धः, वर्तमानस्य च प्रतिपतृप्रत्यक्षस्येति सम्बन्धः । अनूढम्मतिसंस्कारग्रहणं तु न वर्तमानविशेषणम् । यस्मात् अतीते घटविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मूढः दृश्यघटानुपलम्भे दृश्ये च घटे मूढो भवति, वर्तमाने च घटरहितप्रदेशदर्शने न स्मृतिसंस्कारमोह; अत एव ने घटानुपलम्भे नापि घटे महः । तस्मान्न वर्तमाननिषेध्याविशेषणं अमूढस्मृतिसंस्कारग्रहणम् । स्मृतिसंस्कारव्याभिचाराभावात् वर्तमानस्यार्थस्य । अत एव 'वर्तमानस्य च' इति चशब्दः कृतः, विशेषणरहितस्य वर्तमानस्य विशेषणवता अतीतेन समुच्चयो यथा विज्ञायेत । तदयमर्थः-- अतीतोऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं वर्तमानश्च । ततः 'नासीदिह घटोऽनुपलब्धत्वात् ' 'नास्त्यनुपलभ्यमानत्वात्' इति शक्यं ज्ञातुम् । न तु ' न भविष्यत्यत्र घटोऽनुपलप्स्यमानत्वात् ' इति शक्यं ज्ञातुं, अनागताया अनुपलब्धेः सत्त्वसन्देहादिति कालविशेषः अनुपलब्धेव्याख्यातः ।
व्यापारं दर्शयति । अभावस्य व्यवहारः 'नास्ति' इत्येवमाकारं ज्ञानं, शब्दश्चैवमाकारः, निःशङ्कगमनागमनलक्षणा च प्रवृत्तिः, कायिकोऽनावव्यवहारः । घटानावे हि ज्ञाते निःशङ्कं गन्तुमागन्तुं च
Page #36
--------------------------------------------------------------------------
________________
२ परिच्छेदः ]
न्यायबिन्दुटीका
प्रवर्तते । तदेवमेतस्य त्रिविधस्याप्यभावव्यवहारस्य हरयानुपलब्धिः [३०] ' साधनी ' प्रवर्तिका । यद्यपि च ' नास्ति घट : ' इति ज्ञानमनुपलब्धेरेव भवति अयमेव चाभावानेश्चयः; तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धः, तस्मादू ' इह घटो नास्ति' इत्येवं च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः; तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः । किञ्च दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसंभवात् । सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् । अतोऽनुपलम्भोऽभावं व्यवहारयति । दृश्यो यतोऽनुपलब्धः तस्मात् नास्ति इत्यतो दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्तयति न त्वकृतं करोति इत्यभावनिश्चयः अनुपलम्भात्प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यहारप्रवर्तिन्यनुपलब्धिः ।
कस्मात्पुनरतीते वर्तमाने चानुपलब्धिर्गमित्याह
तस्या एवाभावनिश्चयात् ॥ ३० ॥
तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव संदिग्धस्वभावा । नाभावनिश्चयः अपि त्वतीतवर्तमानाया इति ।
तस्या असिद्धाया
संप्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह --
――
३१
साच प्रयोगभेदादेकादशप्रकारा ॥ ३१ ॥
सा चैषाऽनुपलब्धिरेकादशप्रकारा । एकादश प्रकारा अस्या इत्येकादशप्रकारा । कुतः प्रकारभेदः । प्रयोगभेदात् । ' प्रयोगः ' प्रयुक्तिः शब्दस्याभिधानव्यापार उच्यते । शब्दो हि साक्षात्काचिदर्थान्तराभिधायी क्वचित्प्रातेषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिरशब्दांपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् ।
प्रकारभेदाना
Page #37
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [२ परिच्छेदः [३१] स्वभावानुपलब्धिर्यथा नात्र धूमः उपलब्धि
लक्षणप्राप्तस्यानुपलब्धेरिति ॥ ३२ ॥
प्रतिषेध्यस्य यः स्वभावः तस्यानुपलब्धिः । यथेति । 'अत्र' इति धर्मी ' न धूमः' इति साध्यम् । ' उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः' इति हेतुः । अयं च हेतुः पूर्ववद्व्याख्येयः ॥ १ ॥ कार्यानुपलब्धिर्यथा नेहाप्रतिबहसामर्थ्यानि धूम
कारणानि सन्ति धूमाभावात् ॥ ३३ ॥
प्रतिषेध्यस्य यत्कार्य तम्यानुपलब्धिरुदाहियते - यथेति । 'इह' इति धर्मी। ' अप्रतिबद्ध ' अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि । 'न सन्ति ' इति साध्यम् । 'धूमाभावात् ' इति हेतुः । कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनात् अप्रतिबद्धसामर्थ्यानामवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसंभवात् । कार्यानुपलाब्धश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका । तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यनपि चतुर्पु पार्थेष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंझकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात्यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देश: स्यात् - तस्य वह्वेरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात । तम्मात्तद्देशस्य वढेरभावः प्रतिपतव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षितं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्मात् दृश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वयभावप्रतीतिसामर्थ्यायातो धर्मी न दृश्यमान एव । इहेति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्ष:- न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी अपि त्वन्यत्रापि । शब्दस्य क्षाणकत्वे साध्ये कश्चिदेव शब्द: प्रत्यक्षोऽन्यस्तु परोक्षः तद्वदिहापि । यथा चात्र [ ३२ ] धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥२॥
Page #38
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायबिन्दुटीका व्यापकानुपलब्धिर्यथा नात्र शिंशपा
वृक्षाभावादिति ॥ ३४ ॥ प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मः तस्यानुपलब्धिरुदाहियते- यथेति । अत्र [इति] धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावादिति हेतुः । इयमप्यनुपलब्धिः व्याप्यस्य शिंशपात्वस्य दृश्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नतौ देशौ भवतः तयोरेकस्तरुगहनोपेतः अपरश्चैकशिलाघटितो निर्वृक्षकक्षः ; द्रष्टापि तत्स्थान्वृक्षान् पश्यन्नपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्ष अप्रत्यक्षं शिंशपात्वम् । स हि निवृक्षे एकशिलाघटिते वृक्षाभावं दृश्यत्वाद दृश्यानुपलम्भादवम्यति, शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषयेऽस्या अभावसाधनाय प्रयोगः ॥३॥
स्वभावविरुडोपलब्धिर्यथा नात्र
शीतस्पर्शोऽग्नेरिति ॥ ३५ ॥ . प्रतिषेध्यस्य स्वभावेन विरुद्धम्योपलब्धिरुदाहियते- यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषेधः साध्यः । वहेरिति हेतुः । इयं चानुपलब्धिः तत्र प्रयोक्तव्या यत्र शीतस्पर्शोऽदृश्यः । दृश्ये दृश्यानुपलब्धिप्रयोगात् । तस्मात् यत्र वर्णविशेषात् वह्निद्देश्यः शीतम्पर्शो दूरस्थत्वात् सन्नप्यदृश्यः तत्रास्याः प्रयोगः ॥ ४ ॥ विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शी
धूमादिति ॥ ३६ ॥ प्रतिषेध्येन यत् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः। यत्र शीतस्पर्शः सन् दृश्यः स्यात् , तत्र दृश्यानुपलब्धिमिका । यत्र विरुद्धो वह्निः [३३] प्रत्यक्षः, तत्र विरुद्धोपलब्धिः । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते । तत्र समस्तापवरकस्थं शीतं निवयितुं समर्थस्यामेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमप"बरकात् पश्यति तदा विशिष्टाद्वहेरनुमितात् शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वापवरकाम्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववत् द्रष्टव्यः ॥ ५ ॥
Page #39
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [२ परिच्छेदः विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति ॥ ३७॥
प्रतिषेध्यस्य यत् विरुद्धं तेन व्याप्तम्य धर्मान्तरस्योपलब्धिरुदाहर्तव्या -- यथेति । 'ध्रुवं ' अवश्यं भवतीति ध्रुवभावी नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । 'भूतम्यापि भावस्य' इति धर्मिविशेषणम् । 'भूतस्य ' जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्य इत्यपिशब्दार्थः । जनकातोरन्यो हेतुः ‘हेत्वन्तरं' मुद्रादि - तदपेक्षते विनश्वरः- तम्यापेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवभावित्वेन व्याप्तम् । यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुई चाऽवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुहव्याप्त हेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः । इह ध्रुवभावित्वं नित्यत्वं अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परम्परपरिहारेणावस्थानात् एकत्र विरोधः । तथा च सति परस्परपरिहारवतोद्वयोः यत्रैक दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यानषेधश्च दृश्यतयाऽभ्युपगतस्य संभवति । यतः, एवं तादात्म्यनिषेधः क्रियते' यद्ययं दृश्यमानो नित्यो भवेत् नित्यरूपो दृश्येत । न च नित्यरूपो दृश्यते । तस्मान्न नित्यः' । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मत्वमभ्युपगम्य प्रतिषेधः कृतो भवति । वस्तुनोऽप्य दृश्यस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते, दृश्यात्मत्वमभ्युपगम्य कर्तव्यः - ' यद्ययं दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् , न च दृष्टः, तस्मान्न पिशाचः' इति । दृश्यात्मत्वाभ्युपगमपूर्वकः दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च [३४] तादात्म्यनिषेधः । तथा च सति, यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तहत् सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधः दृश्यानुपलम्भादेव । तथा चास्यैवंजातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥ ६ ॥ काविरुहोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि
शीतकारणानि सन्त्यग्नेरिति ॥ ३८ ॥
प्रतिषेध्यस्य यत् कार्य तस्य यत् विरुद्धं तस्योपलब्धेरुदाहरणम् - यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां
Page #40
--------------------------------------------------------------------------
________________
२ परिच्छेदः] न्यायाबिन्दुटोका
३५ शीतजननं प्रति न तानि सन्तीति साध्यम् । वहेरिति हेतुः । यत्र शीतकारणान्यदृश्यानि शीतस्पर्शोऽप्यदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः दृश्यानुपलब्धिर्वा गामिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्प्रतिपत्तुः, वह्निः तु] भास्वरवर्णत्वात् दूरादपि दृश्यः तत्रायं प्रयोगः ॥ ७ ॥
व्यापकविरूहोपलब्धिर्यथा नात्र
तुषारस्पर्शोऽग्नेरिति ॥३९॥ प्रतिषेध्यम्य यत् व्यापकं तेन यत विरुद्धं तस्योपलब्धिरुदाहर्तव्यायथति । अत्रेति धर्मी । तुषारम्पर्शो नेति साध्यम् । वहेरिति हेतुः । यत्र व्याप्यस्तुषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः तत्रायं हेतुः, तयोर्दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या। तथा च सत्यभावसाधनी इयम् । दूरवर्तिनश्च प्रतिपत्तुः तुषारस्पर्शः, शीतस्पर्शविशेषः शीतमानं च परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वहेः शीतमात्राभावः । ततः शीतविशेषतुषारस्पीभावनिश्चयः, शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषयेऽस्याः प्रयोगः ॥ ८ ॥
[३५] कारणानुपलब्धिर्यथा नात्र
धूमोऽग्न्यभावादिति ॥ ४० ॥ प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणम् - यथेति । अत्रेति धर्मी । न धूम इति साध्यम् । वयसत्त्वादिति हेतुः । यत्र कार्य सदपि दृश्यं न भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिः गमिका । ततोऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते हृदे हेमतोचितवाष्पोद्गमे विरले संध्यातमसि सति, सन्नपि तत्र धूमो न दृश्यः इति कारणानुपलब्ध्या प्रतिषिध्यते । वहिम्तु यदि तस्याम्भस उपरि प्लवमानो भवेत् ज्वलितो रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेणाधाररूपेण वा दृश्य एव वह्निः इति तत्रास्याः प्रयोगः ॥ ९ ॥ कारणविरूद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः
संनिहितदहनविशेषत्वादिति ॥४१॥ प्रतिषेध्यस्य यत्कारणं तस्य याविरुद्धं तस्योपलब्धेरुदाहरणम्
Page #41
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका २ परिच्छदः यथेति । अस्यति धर्मी । रोम्णां 'हषः ' उद्भेदः स आदिर्यषां दन्तवीणादीनां शीतकृतानां, ते [विशेषाः ] विशिप्यन्ते तदन्येभ्यो भयश्रद्धादिकृतभ्य इति · रोमहर्षादिविशेषाः' । ते न सन्तीति साध्यम् । दहनः एव विशिप्यते तदन्यस्माद्दहनात शीतनिवर्तनसामर्थ्यनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो दहनविशेषो यस्य स तथोक्तः तस्य भावः तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेपाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या; शीतम्पर्शम्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्विदूरात् दहनं पश्यति, शीतम्पर्शम्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणाविरुहोपलब्ध्या अभावः प्रतिपद्यत इति तत्रास्याः प्रयोगः ॥ १० ॥ [३६] कारणविरुहकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ॥ ४२ ॥
प्रतिषे यस्य यत् कारणं तस्य यत् विरुद्धं तस्य यत् कार्य तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं देश इति धर्मी। योगो ‘युक्तं', रोमहर्षादिविशेषयुक्तं रोमहर्षादिविशेषैर्युक्तम् । तस्य संबन्धी पुरुषा 'रोमहर्षादिविशेषयुक्तपुरुषः'। तद्वान् न भवतीति साध्यन् । धूमादिति हंतुः । रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः, कारणम्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः, वढेम्तु प्रत्यक्षत्वे कारणविरुहोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य प्रतिपतुः दहनशीतम्पर्शरोमहादिविशेषा अप्रत्यक्षाः सन्तोऽपि धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यादृशः तस्मिन्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वढेरनुमापकः स इह ग्राह्यः । धूममात्रेण तु वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृत्तिः नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ ११ ॥
___ यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादश अभावहेतव इत्याहइमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ सङ्ग्रहमुपयान्ति ॥४३॥ 'इमे' अनुपलब्धिप्रयोगाः । इदमा अनन्तरप्रक्रान्ता निर्दिष्टाः ।
Page #42
--------------------------------------------------------------------------
________________
३७
३७
२ परिच्छेदः] न्यायविन्दुटीका तत्र कियतामपि ग्रहणे प्रसक्त आह- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनामपि त्रयाणां चतुणी वा ग्रहणे प्रसक्ते सत्याहदशेति । दशानामप्युदाहृतमात्राणां ग्रहणप्रसङ्गे सत्याह- सर्व इति । एतदुक्तं भवति । अप्रयुक्ता अपि प्रयुक्तोदाहरणसदृशाश्च सर्वे एवेति दशग्रहणमन्तरेण सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकान्यं गम्येत । दशग्रहणात्तु उदाहरणक.स्न्येऽवगते सर्वग्रहणं अतिरिच्यमानं उदाहृतसदृशकान्यावंगतये जायते । ते स्वभावानुपलब्धौ संग्रहं तादात्म्येन . गच्छन्ति । स्वभावानुपलब्धिस्वभावाः इत्यर्थः ।
[ ३७ ] ननु च स्वभावानुपलब्धिप्रयोगात् भिद्यन्ते कार्यानुपलब्ध्यादयः तत्कथं अन्तर्भवन्तीत्याहपारम्पर्येण अर्थान्तरविधिप्रतिषेधाभ्यां
प्रयोगभेदेऽपि ॥४४ ।। प्रयोगभेदेऽपि । 'प्रयोगम्य ' शब्दव्यापारस्य भेदेऽपि अन्तभवन्ति । कथं प्रयोगभेद इत्याह- अर्थान्तरविधीत्यादि । प्रतिषेध्यादथीदर्थान्तरस्य ‘विधिः' उपलब्धिः स्वभावविरुद्धाधुपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिप्रयोगेषु । अर्थान्तरविधिना अर्थान्तरप्रतिषधेन च प्रयोगा भिद्यन्ते । यदि प्रयोगान्तरप्वर्थान्तरविधिप्रतिपत्रौ, कथं तन्तिर्भवन्तीत्याह -- पारम्पर्येणेति । प्रणालिकयेत्यर्थः । एतदुक्तं भवति । न साक्षादेत प्रयोगा दृश्यानुपलब्धिमभिदधति ; दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधिं निषेधं वाभिदधति । ततः प्रणालिकयाऽमीषां स्वभावानुपलब्धौ संग्रहो न साक्षादिति ।
यदि प्रयोगभेदेन भेदः, पराानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । शब्दश्च परार्थानुमानमित्याशङ्कयाह---- प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः ॥४५॥
प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रघटितानां 'दर्शनं ' उपसम्भः । तस्य 'अभ्यासः' पुनः पुनरावर्तनम् । तस्मानिमित्तात् ‘स्वयमपि ' इति प्रतिपत्तुरात्मनोऽपि ‘एवं' इत्यनन्तरोक्तेन क्रमेण 'व्यवच्छेदस्य' प्रतिषेधस्य प्रतीतिर्भवतीति । इतिशब्दः तस्मादर्थे । तदयमर्थः -- यस्मात् स्वयमप्येवं अनेमोपायेन प्रतिपद्यते प्रयोगाभ्यासात् तस्मात् स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने
Page #43
--------------------------------------------------------------------------
________________
३८
न्यायबिन्दुका
[ २ परिच्छेदः
निर्देशः। यत्पुनः परप्रतिपत्तावेवोपयुज्यते तत्परार्थानुमाने एव वक्तव्यमिति।
ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव प्रतिषेधः, दृश्यनिषेधे स्वभावानुपलम्भप्रयोगप्रसङ्गात् । तथा च सति न तेषां दृश्यानुपलब्धेर्निषेधः, तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावर्तभाव
इत्याह
[ ३८ ] सर्वत्र चास्यामभावव्यवहार साधन्यामनुपलब्धौ येषां स्वभावविरुडादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनुपलब्धि वेदितव्या ॥ ४६ ॥
अभावश्च तद्व्यवहारच 'अभावव्यवहारौ ' । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ सत्यां येषां प्रतिषेध उक्तः तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव स प्रतिषेधः, तस्मात् दृदयानुपलब्धावन्तर्भावः । कुत एतत् दृश्यानामेवेत्याहस्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्स्वभावाविरुद्धः आदियेषां तेषामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या [च] प्रतिषेध उक्तः, तस्मात् दृश्यानामेव प्रतिषेध इत्यर्थः ॥ यदि नाम स्वभावविरुद्धाछुपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तः तथापि कथं दृश्यानामेव प्रतिषेध इत्याह- उपलब्धिरित्यादि । अत्रापि चकारे । हेत्वर्थः । यस्मात् ये विरोधिनो व्याप्यव्यापकभूताः कार्यकारणभूताच ज्ञाताः तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धिर्वेदितव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तः ते दृश्या एव । तस्मात् स्वभावविरुद्धाद्युपकारणाद्यनुपलब्ध्या चोषलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्या॒नामेव कृतो द्रष्टव्यः । बहुषु चोद्येपु प्रक्रान्तेषु परिहारसमुच्चयार्थश्वकारो हेत्वर्थो भवति । यस्मात् इदं चेदं च समाधानमस्ति तस्मात् तत्तच्चोद्यमयुक्तमिति चकारार्थः ।
लब्ध्या
कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह
Comme
Page #44
--------------------------------------------------------------------------
________________
२ परिच्छेदः ]
न्यायबिन्दुटीका
३९
अन्येषां विरोधकार्यकारणभावाभावासिद्धेः ॥ ४७ ॥
उपलब्ध्यनुपलब्धिमद्भ्योऽन्येऽनुपलब्धा एव ये तेषां विरोधश्व कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य व्यापकस्याभावेन सिध्यति यस्मात् ततो विरोधिकार्यकारणभावाभावासिद्धेः कारणात् उपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः । [३९] उभयवन्तश्च दृश्या एव । तस्मात् दृश्यानामेव प्रतिषेधः । तदयमर्थः - विरोधश्च कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति । एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः । कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितः कार्यकारणभावः । व्यापकाभिमताभावे च व्याप्याभावे निश्चिते निश्चितो व्याप्यव्यापकभावः । तत्र व्याप्यव्यापकभावप्रतीतेर्निमित्तं अभावः प्रतिपत्तव्यः । इह गृहीते वृक्षाभावे हि शिंशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्मात् विरोध कार्यकारणभावं व्याप्यव्यापकभावं च स्मरता विरोधकार्यकारणभावव्याप्यव्यापकभावविषयाभावप्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीनामस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिषेधाभ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां च दृश्यानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः । तत्र यद्यपि संप्रति नास्ति दृश्यानुपलब्धिः, विरोधादिग्रहणकाले स्वासीत् । या दृश्यानुपलब्धिः संप्रति स्मर्यमाणा सेवाभावप्रतिपत्तिनिबन्धनम् । ततः ' संप्रति नास्ति दृश्योपलब्धिः' इत्यभावसाधनत्वेन दृश्यानुपलब्धिप्रयोगात् भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः । विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिप्ता ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपतिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तभावः । तदनेन सर्वेण दृश्यानुपलब्धावन्तर्भावो दशानामनुपलब्धिप्रयोगाणां पारम्पर्येण दर्शित इति वेदितव्यम् ।
Page #45
--------------------------------------------------------------------------
________________
न्यायबिन्दुीका [२ परिच्छेदः उक्ता दृश्यानुपलब्धिः अभावेऽभावव्यवहारे च साध्य प्रमाणम् । अदृश्यानुपलब्धिस्तु किस्वभावा किंव्यापारा चेत्याह
विप्रकृष्टविषयानुपलब्धिः प्रत्यक्षानुमान
निवृत्तिलक्षणा संशयहेतुः ॥ ४८ ॥
विप्रकृष्टः त्रिभिर्देशकालस्वभावविप्रकर्षेः यस्या विषयः सा विप्रकृष्टविषयेति संशयहेतुः । किंस्वभावा सेत्याह - प्रत्यक्षानुमाननिवृत्तिः 'लक्षणं' स्वभावो यस्याः सा 'प्रत्यक्षानुमाननिवृत्तिलक्षणा' । ज्ञानज्ञेयस्वभावेति यावत् ।
[४.] ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था; ततः . प्रमाणाभावात् प्रमेयाभावप्रतिपत्तिर्युक्तेत्याहप्रमाणनिवृत्तावप्यर्थाभावासिडेरिति ॥४९॥
प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमान कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकं; अतः प्रमाणयोर्निवृत्तावप्यर्थस्य प्रमेयस्य निवृत्तिन सिध्यति । ततोऽसिद्धेः संशयहेतुरदृश्यानुपर ब्धिः, न निश्चयहेतु: । यत्पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति, तद्युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न च कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या; न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति ॥ इति न्यायबिन्दुटोकायां द्वितीयः [स्वार्थानुमान-]
परिच्छेदः समाप्तः ।
Page #46
--------------------------------------------------------------------------
________________
अथ तृतीयपरिच्छेदः।
[१] स्वार्थपरार्थानुमानयोः स्वार्थ व्याख्याय परार्थ व्याख्यातुकाम आह
त्रिरूपलिङ्गाख्यानं परार्थानुमानम् ॥१॥
त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि अन्वयव्यतिरेकपक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेन त्रिरूपं लिङ्गमिति · आख्यानम् ' । किं पुनस्तत् ? वचनम् । वचनेन हि त्रिरूपं लिङ्गमाख्यायते । परस्मायिदं परार्थम् ।
'ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम् ; तात्कमर्थ संप्रति वचनात्मकमनुमानमुच्यत इत्याह
कारणे कार्योपचारात् ॥२॥ कारणे कार्योपचारादिति । त्रिरूपालिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते, स्मृतेश्चानुमानम् । तस्यानुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्कारणे वचने कार्यस्यानुमानस्य — उपचारः' समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमानशब्देनोच्यते । औपचारिकं वचनमनुमानं, न मुख्यमित्यर्थः । न च यावत्किंचित् उपचारादनुमानशब्देन वक्तुं शक्यं लावत्सर्व व्याख्येयम् , किं त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य व्याख्येयत्वात् निमितं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतं अनुमानस्य [ ४२ ] निमित्तं भवति, परेण वा प्रतिपादितम् । तस्मात् लिङ्गस्य स्वरूपं व्याख्येयं, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकः शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दं अवश्यवक्तव्यं दर्शयन्ननुमानशब्देनोक्तवानाचार्य इति परमार्थः ।
Page #47
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेदः परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह
तत् द्विविधम् ॥ ३॥ तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तत् द्विविधम् । कुतो द्विविधमित्याह
प्रयोगभेदात् ॥ ४॥ प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगः अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदात् द्विविधमनुमानम् । तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह-- .
साधर्म्यवधर्म्यवच्चेति ॥५॥ समानो धर्मो यस्य सोऽयं सधर्मा तस्य भावः साधर्म्यम् । विसदृशो धर्मोऽस्य विधर्मा विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधार्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमाभिधेयं तत् साधर्म्यवत् । यथा - यत् कृतकं तदनित्यं यथा घटः तथा च कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधय॑मभिधेयं तत् वैधर्म्यवत् । यथा - यन्नित्यं तदकृतकं दृष्टं यथाकाशम् शब्दस्तु कृतक इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् ।
यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमाभिन्न प्रकाश्यामित्याह
[४३] नानयोरर्थतः भेदः कश्चित् ॥ ६ ॥
नानयोरर्थत इति । 'अर्थः ' प्रयोजनं प्रकाशयितव्यं वस्तु, यदुद्दिश्यानुमाने प्रयुज्यते । ततः प्रयोजनात् अनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्यते ।
Page #48
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका
४३ द्वाभ्यामपि त्रिरूपं लिङ्गं प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् । अभिधेयभेदोऽपि तर्हि न स्यादित्याह
अन्यत्र प्रयोगभेदात् ॥७॥ अन्यत्र प्रयोगभेदादिति । 'प्रयोगः ' अभिधानं वाचकत्वम् । वाचकत्वमेदादन्यो भेदः प्रयोजनकृतो नास्तीत्यर्थः । एतदुक्तं भवति । 'अन्यदभिधेयं अन्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रकाश्यं त्वभिन्नम् । अन्वये हि कथिते, वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति; व्यतिरेके चान्वयगतिः । ततः त्रिरूप लिङ्ग प्रकाश्यमभिन्नम् । न च यत्राभिधेयभेदः तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते ; यस्मात् 'पीनो देवदत्तो दिवा न भुङ्क्ते', 'पानो देवदत्तो रात्रौ भुते' इत्यनयोर्वाक्ययोराभिधेयभेदेऽपि गम्यमानमेकमेव । तद्वत् इहाभिधेयभेदेऽपि गम्यमानं वस्तु एकमेव ।
तत्र साधर्म्यवत् ॥ ८॥ तत्रेति तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः ।
साधर्म्यवत् तावदुदाहरन्ननुपलब्धिमाहयद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्यवहारविषयः सिद्धः यथा अन्यः कश्चित् दृष्टः शशविषाणादिः, नोपलभ्यते च कचित्प्रदेशविशेष उपलब्धि
लक्षणप्राप्तो घट इति ॥९॥ यदित्यादिना । यत् ' उपलब्धिलक्षणप्राप्तं सत्' दृश्यं सत् 'नोपलभ्यते' इति । अनेन दृश्यानुपलम्भोऽनूद्यते । सोऽसंव्यवहारस्य विषयः सिद्धः'। तत् ' असत्' इति व्यवहर्तव्यमित्यर्थः । [४] अनेनासयवहारयोग्यत्वस्य विधिः कृतः । ततश्चासब्यवहारस्य योग्यत्वे दृश्यानुपलम्भो नियतः कथितः; दृश्यमनुपलब्ध असद्व्यवहारयोग्य
Page #49
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेदः मेवेत्यर्थः ॥ साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तं-"व्याप्तिापकस्य तत्र भाव एव, व्याप्यस्य च तत्रैव भावः" इति।
___ व्याप्तिसाधनस्य प्रमाणम्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह-- यथान्य इति । साध्यधर्मिणः 'अन्यः', दृष्टान्त इत्यर्थः । 'दृष्टः' इति प्रमाणेन निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतं, अपि तु प्रमाणेन दृश्यानुपलम्भेन असयवहारयोग्य विज्ञातम् । शशविषाणमादिर्यस्यासद्व्यवहाराविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्रनिमित्तोऽसद्व्यवहारः प्रमाणेन सिद्धः । तत एव प्रमाणात अनेन वाक्येनाभिधीयमाना व्याप्तिज्ञातव्या ।
___ संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह-- नोपलभ्यते चेति । 'प्रदेशः ' एकदेशः पृथिव्याः; स एव विशिष्यतेऽन्यस्मादिति विशेषः, एकः । प्रदेशविशेषे इत्येकस्मिन्प्रदेशे । 'क्वचित् ' इति प्रतिपत्तुः प्रत्यक्षे । एकोऽपि प्रदेशः, स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तः प्रत्यक्षो, नान्यः । ' उपलब्धिलक्षणप्राप्तः' इति दृश्यः । यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ।
खभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह---
तथा स्वभावहेतोः प्रयोगः ॥ १० ॥
तथेति । यथा अनुपलब्धेः तथा स्वभावहेतोः साधर्म्यवान्प्रयोग इत्यर्थः । यत्सत्तत्सर्वमानत्यं यथा घटादिरिति शुद्धस्य
स्वभावहेतोः प्रयोगः ॥ ११ ॥ ' यत्सत् ' इति सत्त्वमनूद्य 'तत्सर्वमनित्यम्' इत्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वमनित्यं न किंचित् नानित्यं, यत्सत् तदनित्यमेव, अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शन [४५ ] वाक्यमिदम् । यथा घटादिरिति । व्याप्तिसाधनस्य
Page #50
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका प्रमाणस्य विषयकथनमेतत् । 'शुद्धस्य' इति निर्विशेषगस्य स्वभावस्य प्रयोगः ।
सविशेषणं दर्शयितुमाहयदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन ।
स्वभावस्य प्रयोगः ॥ १२॥ यदुत्पत्तिमदिति । ' उत्पत्तिः ' स्वरूपलाभो यस्त्रास्ति तत् उत्पत्तिमत् । उत्पत्तिमत्त्वमनूद्य ' तदनित्यम् ' इत्यनित्यत्वविधिः । तथा
च सति उत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् । ... ' स्वभावभूतः ' स्वभावात्मको धर्मः, तस्य ‘भेदेन ' भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नभ्यो हि व्यावृत्तिमाश्रित्य उत्पन्नो भाव उच्यते । सैव व्यावृत्तिः यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते [यथा] भावस्योत्पत्तिरिति । तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन . धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः । - यत्कृतकं तदनित्यामत्युपाधिभेदेन ॥ १३ ॥
यत्कृतकमिति कृतकत्वमनूद्यानित्यत्वं विधीयत इति । अनित्यत्वे नियतं कृतकत्वमुक्तम् , अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता। उपाधिभेदेन स्वमावस्य प्रयोग इति संबन्धः । ' उपाधिः' वशेषणम् । तस्य ' भेदेन ' भिन्नेनोपाधिना विशिष्टः स्वभावः; प्रयुक्त इत्यर्थः । इह कदाचित् शुद्ध एवार्थ उच्यते, कदाचित् अव्यतिरिक्तन विशेषणेन विशिष्टः, कदाचित् व्यतिरिक्तेन । 'देवदत्तः' इति शुद्धः, 'लम्बकर्णः' इत्यभिन्नकर्णद्वयविशिष्टः , 'चित्रगुः' इति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत् सत्त्वं शुद्धम् , उत्पत्तिमत्त्वं अव्यतिरिक्तविशेषणम् , कृतकत्वं व्यतिरिक्तविशेषणम् ।
ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकः चित्रशब्दो गोशब्दश्चास्ति; स्तकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्तीत्याशङ्कयाह--
Page #51
--------------------------------------------------------------------------
________________
न्यायाविन्दुटोका [३ परिच्छेदः {t ] अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्ती
कृतक इति ॥ १४ ॥ __ अपेक्षितेति । परेषां कारणानां व्यापारः स्वभावस्य निप्पत्तौ; । निष्पयर्थम् अपेक्षितः परव्यापारो येन स तथोक्तः । हीति यस्मादर्थे ।
यस्मात् अपेक्षितपरव्यापारः कृतक उच्यते; तस्मात् व्यतिरिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते । यद्यपि व्यतिरिक्तं विशेषणपदं न प्रयुक्तं तथापि कृतकशब्देनैव व्यतिरिक्त विशेषणमन्तीवितम् । अत एव संज्ञाप्रकारोऽयं कृतकशब्दः, यस्मात् संज्ञायामयं कन्प्रत्ययो विहितः [पा. ४, ३, १४७] । यत्र च विशेषणमन्तर्भाव्यते तत्र विशेषणपदं न प्रयुज्यते । कचित् प्रतीयमानं विशेषणम् यथा ‘कृतः' इत्युक्त 'हेतुभिः' इत्येतत्प्रतीयते । तत्र च हेतुशब्दः प्रयुज्यते; कदाचिन्न वा प्रयुज्यते ।
प्रयुज्यमानस्वशब्दश्च यथा प्रत्ययभेदभविशब्दे प्रत्ययभदः । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः ॥ १५ ॥
यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधायी, एवं प्रत्ययभेदभेदित्वमादिर्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि स्वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः । प्रत्ययानां कारणानां 'भेदो' विशेषः लेन प्रत्ययभेदेन भेतुं शीलं यस्य स प्रत्ययभेदभेदी शब्दः तस्य भावः ‘प्रत्ययभेदभेदित्वम् ' । ततः प्रत्ययभेदभेदित्वात् शब्दस्य कृतकत्वं साध्यते ; प्रयत्नानन्तरीयकत्वादनित्यत्वं साध्यते । तत्र प्रत्ययभेदशब्दो व्यतिरिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्दे प्रयुक्तः; प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः । तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः । शुद्धः, अव्यतिरिक्तविशेषणः, व्यातरिक्तविशेषणश्च । एवमर्थ चैतदाख्यातं – वाचकभेदात् मा भूत् कस्याचित् स्वभावहेतावमि प्रयुक्त व्यामोह इति ।
सन्नुत्पत्तिमान्कृतको वा शब्द इति
पक्षधर्मोपदर्शनम् ॥१६॥ अथ किमेंते स्वभावहेतवः सिद्धसंबन्धे स्वभावे साध्ये प्रयो
Page #52
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाबिन्दुटोका क्तव्याः, आहोस्विदसिद्धसंबन्धे इत्याशय, सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितुमाहसर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः ॥ १७ ॥
[४७ ] सर्व एत इति । गमकत्वात्साधनानि, पराश्रितत्वाच्च धर्माः; साधनधर्मा एव साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्य ' अनुबन्धः ' अनुगमनं अन्वयः । सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्याह । यथास्वं प्रमाणैरिति । यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेदत्वात् संबन्धसाधनान्यपि प्रमाणानि बहूनीति 'प्रमाणैः' इति बहुवचननिर्देशः । गमयितव्यत्वात्साध्यः, पराश्रितत्वाच्च धर्मः ‘साध्यधर्मः' । तदयं परमार्थः । न हेतुः प्रदीपवद्योग्यतया गमकः, अपि तु नान्तरीयकतया विनिश्चितः । साध्याविनाभावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारः, नान्यः कश्चित् । प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले साधनं साध्यनान्तरीय सामान्येन स्मर्तव्यम् । ‘कृतकत्वं नामानित्यत्वस्वभावम् ' इति सामान्येन स्मृतमर्थ पुनर्विशेष योजयति — इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेव ' इति । तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सति अविनामावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धिसाध्यधर्मे स्वभावहेतवः प्रयोक्तव्याः, नान्यत्रेत्युक्तम् ।
यद्येवम् , संबन्धो निश्चेतव्यः साध्यस्य साधनेन सह; साधनधर्ममात्रानुबन्धम्तु साध्यस्य कस्मात् निश्चितोऽपि] मृग्यत इत्याह---
तस्यैव तत्स्वभावत्वात् ॥१८॥ तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावो नान्यः ।
Page #53
--------------------------------------------------------------------------
________________
४८
न्यायविन्दुटीका [३ परिच्छेदः भवत्वीदश एव स्वभावः; स्वभावे एव तु साध्ये कस्मात् हेतुप्रयोगः ?
[४८ ] स्वभावस्य च हेतुत्वात् ॥ १९ ॥
स्वभाव इह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धश्च स्वभावो नान्यः ।
यदि साध्यधर्मः साधनस्य स्वभावः, प्रतिज्ञार्थंकदेशः तर्हि हेतुः स्यादित्याह -.
वस्तुतस्तयोस्तादात्म्यात् ॥ २० ॥
वस्तुत इति । 'वस्तुतः ' परमार्थतः साध्यसाधनयोः तादात्म्यम् । समारोपितस्तु साध्यसाधनयोर्भेदः । साच्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेन इतरव्यावृत्तिकृतेन भिन्न इत्यन्यत्साधनं अन्यत्साध्यम् । दूराद्धि शाखादिमानों वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदन । तस्मात् निश्चयारूढरूपापेक्षया अन्यत्साधनं अन्यत्साध्यम् । अतो न प्रतिज्ञार्थंकदेशो हेतुः । वास्तवं तु तादात्म्यमिति ।
कस्मात्पुनः साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्य इत्याहतनिष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ॥२१॥
तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स तन्निष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्तावनिप्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावी च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिप्पन्नस्यानिष्पन्नस्य च ऐक्यं भवेत् , एकस्यैवार्थस्य भावाभावौ स्यातां युगपत् । न च विरुद्वयोर्भावाभावोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वात् एकत्वाभावस्य । किं च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः ।
Page #54
--------------------------------------------------------------------------
________________
४९
३ परिच्छेदः] न्यायबिन्दुटोका ततो निष्पन्नानिष्पन्नयोर्विरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्यः ॥
मा भूत्पश्चानिष्पन्नः पूर्वजस्य स्वभावः ; साध्यस्तु [४९] कस्मान्न भवतीत्याह
व्यभिचारसंभवाच ॥ २२ ॥ पूर्वजेन पश्चान्निष्पन्नस्य 'व्यभिचारः' परित्यागो यः तस्य संभवाच्च । न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्धे एव स्वभावहेतवः प्रयोक्तव्या इति स्थितम् । कार्यहेतोरपि प्रयोगः - यत्र धूमस्तत्राग्निर्यथा महानसादौ, अस्ति चेह धूम इति ॥ २३ ॥
कार्यहेतोः प्रयोगः ; साधर्म्यवानिति प्रकरणादपेक्षणीयम् । 'यत्र धूमः' इति धूममनूद्य 'तत्रामिः'इत्यनेर्विधिः । तथा च नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दर्शिता । व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह । यथा महानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माऽविनाभावो निश्चितः ; 'अस्ति चेह-' इति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये
कार्यहेतुर्वक्तव्यः ॥ २४ ॥ इहापीति । न केवल स्वभावहेतौ इहापि कार्यहेतौ । 'सिद्धे' एवेति निश्चिते कार्यकारणत्वे । कार्यकारणत्वनिश्चयो ह्यवश्यकर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु नानन्तरीयकत्वादित्युक्तम् ।
साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह
Page #55
--------------------------------------------------------------------------
________________
५०
न्यायबिन्दुटीका [३ परिच्छेदः [५०] वैधय॑वतः प्रयोगो यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः; न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ॥२५॥
वैधर्म्यवत इति । 'यत्सदुपलब्धिलक्षणप्राप्तं ' इति यत्सत् दृश्यमिति अस्तित्वानुवादः । तदुपलभ्यत इति उपलम्भविधिः । तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम् । असत्त्वनिवृत्तिश्च सत्त्वम् अनुपलम्भनिवृत्तिश्चोपलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिर्विहिता । तथा च साध्यनिवृत्तिः साधननिवृत्ती नियतत्वात साधननिवृत्त्या व्याप्ता कथिता। यदि च धामणि साध्यधर्मो न भवेत् हेतुरपि [ न भवेत् ] ; हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः, अतो व्यापकस्य साधनाभावस्याभावात् व्याप्यस्य साध्याभावस्याभाव इति साध्यनिश्चयो भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः ।
स्वभावहेतोवैधयंप्रयोगमाह-- असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा; असश्च शब्द उत्पत्तिमान्कृतको वेति
स्वभावहेतोः प्रयोगः ॥ २६ ॥
असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत उच्यते । तेन हेत्वभावेन साध्याभावो व्याप्त उक्तः त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान्कृतको वा शब्द इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह च साधनाभावस्य व्यापकस्य अभाव उक्तः । ततो व्याप्योऽपि साध्याभावो निवृत्त इति साध्यगतिः ।
कार्यहेर्विधर्म्यप्रयोगमाहअसत्यग्नौ न भवत्येव धूमः, अत्र चास्तीति
___ कार्यहेतोः प्रयोगः ॥ २७ ॥ असत्यमाविति । इहापि वयभावो धूमाभावेन व्याप्त
Page #56
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका उक्तः । 'अस्ति चात्र धूमः' इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः ।
[५१] ननु च साधर्म्यवति व्यतिरेको नोक्तः, वैधर्म्यवति चान्वयः ; तत्कथमेतत् त्रिरूपलिङ्गाख्यानमित्याहसाधयेणापि हि प्रयोगैऽर्थाद्वैधर्म्यगतिरिति ॥ २८ ॥
___ साधर्म्यणेति । साधर्म्यणाप्यभिधेयेन युक्त प्रयोगे क्रियमाणे ' अर्थात् ' इति सामर्थ्यात् । वैधर्म्यस्य' व्यतिरेकम्य गतिर्भवति हीति यस्मात् ; तस्मात्रिरूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेको ऽन्वयवति नोक्तः , तथाप्यऽन्वयवचनसमाादेवावसीयते ।
कथम् ? . असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥२९॥
असति तस्मिन्व्यतिरेके बुद्ध्यध्यवसिते साध्येन हेतोरन्वयस्य बुद्धयाऽवसितम्याभावात् । साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीत स्यात् । साध्याभावे च साधनाभावगतिः व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः ।
तथा वैधपेणाप्यन्वयगतिः ॥३०॥ तथेति । यथाऽन्वयवाक्ये तथ अर्थादेव वैधर्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः ।
कथम् ? असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥३१॥
असति तस्मिन्नन्वये बुद्धिगृहीते, साध्याभावे हेत्वभावस्य 'असिद्धेः ' अनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे नियतः साध्याभावो न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिः ' अन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्याभिधानसामर्थ्यात् व्यतिरेकवाक्येऽन्वयगतिः ।
Page #57
--------------------------------------------------------------------------
________________
न्यायविन्दुटीका [३ परिच्छेदः यदि नामाकाशादौ साध्याभावे साधनाभावः , तथापि किमिति हेतुसंभवे साध्यसंभव इत्याह[५२ ] न हि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्ता
वपरस्य नियमेन निवृत्तिः ॥ ३२॥
नहीति । स्वभावेन प्रतिबन्धो यः तस्मिन्नसति एकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य 'नियमेन' युक्ता नियमवती निवृत्तिः । स च द्विप्रकारः सर्वस्य, तादात्म्यलक्षणस्तदु
त्पत्तिलक्षणश्चेत्युक्तम् ॥ ३३ ॥
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य प्रतिबद्धस्य । तादात्म्यं ' लक्षणं' निमित्तं यस्य स तथोक्तः । तदुत्पत्तिः लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्वः तस्य स प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्यस्मिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद्विप्रकारः स इति उक्तं ' स च साध्येऽर्थे लिङ्गस्य' इत्यत्रान्तरेऽभिहितम् ।
तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मानिवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोलिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यवाक्यद्वयप्रयोगः ॥ ३४॥
हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावः . तेन साध्यस्य निवृत्तौ साधनस्य निवृत्तिं कथयता प्रतिबन्धो निवर्त्य निवर्तकयोः दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धं भवेत् , एवं साध्यनिवृत्तौ तत् नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्श नीयः तस्मात् साध्यनिवृत्तौ यत्साधननिवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धो पदर्शनम् । यच्च तदाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचनम्
Page #58
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायविन्दुटीका प्रतिबन्धश्चेदवश्यं दर्शयितव्यः, न बक्तव्यस्तयन्वयः । यस्मात् दृष्टान्ते प्रमाणेन प्रतिबन्धो दीमान एवान्वयो नापरः कश्चित् , तस्मान्निवनिवर्तकयोः प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वये व्यतिरेकगातिय॑तिरेके चान्वयगतिः , तस्मादेकेनापि सपक्षे चास[ ५३ ]पक्षे च सत्त्वासत्त्वयोः ख्यापनं स्तम् । अन्वयो ' मुखं ' उपायोऽभिधेयत्वाद्यस्य तदन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इतिः हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिः तस्मादेकस्मिन्साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्तव्यः । अर्थगत्यर्थों हि शब्दप्रयोगः । अर्थश्चेदवगतः किं शब्दप्रयोगेण । एकमेव त्वन्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् । अनुपलब्धावपि-यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्तेऽनुपलभ्यमानं तादृशम
सदिति प्रतीतरन्वयसिद्धिः ॥ ३५ ॥
अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः । ' यत्सदुपलब्धिलक्षणप्राप्तं ' इति साध्यस्यासव्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्वरूपामाह । 'तदुपलभ्यत एव' इति अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । यदि च साधनसंभवेऽपि साध्यनिवृत्तिर्भवेत् , न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्ति प्रतिपद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह - अनुपलभ्यमानं ' तादृशं' इति दृश्यं असदिति 'प्रतीतेः ' संप्रत्ययात् अन्वयसिद्धिरिति ।
द्वयोरप्यनयोः प्रयोगे नावश्यं पक्षनिर्देशः ॥३६॥
यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात् पक्षोऽवश्यमेव न निर्देश्यः । यत्साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात् साध्यप्रतीतिः , अतो न किंचित् साध्यानर्देशेनेति ।
Page #59
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटौका [३ परिच्छेदः एतमेवार्थमनुपलब्धिप्रयोगे दर्शयति । अत्र साधर्म्यवत्प्रयोगेऽपि - यदुपलब्धिलक्षणप्राप्त सन्नोपश्यते सोऽसयवहारविषयः, नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति ॥ ३७॥
साधर्म्यवति प्रयोगेऽपि सामर्थ्यादेव ' नेह घटः' इति भवति । किं पुनस्तत्सामर्थ्यमित्याह । यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति अनुपलम्भानुवादः । [५४] सोऽसद्व्यवहारविषय इत्यसद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानुपलम्भोऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यत इत्यादिना साध्यधर्मिणि सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत् साधनधर्मोऽपि न भवेत् , साध्यनियतत्वात् तस्य साधनधर्मस्येति · सामर्थ्यम् ' ।
तथा वैधर्म्यवत्प्रयोगेऽपि -- यः सद्यवहारविषय उपलाधलक्षणप्राप्तः स उपलभ्यत एव; न तथात्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्यवहारविषय इति भवति ॥ ३८ ॥
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव 'नेह सद्व्यवहारविषयोऽस्ति घटः' इति भवति । सामर्थ्य दर्शयितुमाह । यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति दृश्यः । इत्येषा साध्यनिवृत्तिः । स उपलभ्यत एवेति साधननिवृत्तिरिति । अनेन च साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथाऽन्यो दृश्य उपलभ्यते न तथाऽत्र प्रदेशे 'तादृशः' इति दृश्यो घट उपलभ्यते इत्यनेन साध्यनिवृत्तेापिका साधननिवृत्तिरसति साव्यधार्मिणि दर्शिता ।
यदि च न साध्यधर्मः साध्यधर्मिणि भवेत् साधनधर्मोऽपि न भवेत् अस्ति च साधनधर्म इति ' सामर्थ्यात्'। ततः सामर्थ्यात् 'नास्त्यत्र घटः' इति प्रतीतेन पक्षनिर्देशः । एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात् संप्रत्यय इति न पक्षनिर्देशः ।
Page #60
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिदुटीका
कीदृशः पुनः पक्ष इति निर्देश्यः ॥ ३९ ॥ कीदृशः पुनरर्थः पक्ष इत्यनेन शब्देन 'निर्देश्यः' वक्तव्य इति ।
आहस्वरूपेणैव खयमिष्टो ऽनिराकृतः पक्ष इति ॥४०॥
स्वरूपेणैवेति साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति नोक्त एवापि त्विष्टोऽपीत्यर्थः । एवंभूतः सन् प्रत्यक्षादिभिरनिराकृतो यो ऽर्थः स पक्ष इत्युच्यते ॥ अथ यदि न [५५ ] पक्षो निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तम् अपि त्वसाध्यं केचित्साध्यं साध्यं चासाध्यं प्रतिपन्नाः । तत् साध्यासाध्यविप्रतिपत्तिनिराकरणार्थं पक्षलक्षणमुक्तम् ।
स्वरूपेणेष्ट इत्यस्य विवरणं--
स्वरूपेणेति साध्यत्वेनेष्टः ॥४१॥
साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वात् नापरमास्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ।
एवशब्दं विवरीतुमाह-- स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि ॥४२॥
स्वरूपेणैवेति ॥ ननु चैवशब्दः केवल एव प्रत्यवमष्टव्यः, तत्किमर्थं स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् , असिद्धत्वाच्च साध्यत्वेनापीष्टं; तस्य निवृत्त्यर्थ एवशब्दः ।
तदुदाहरति-- यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात्साध्यं न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाप्यभिधानात् ॥ ४३ यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः । शब्देऽ
Page #61
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेदः सिद्धत्वात्साध्यामित्यनेन साध्यत्वेनेष्टिमाह । तदिति चाक्षुषत्वम् इहेति शब्दे । न साध्यत्वनैवेष्टमिति साध्यत्वेनष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीष्ट, न साध्यत्वेनैवेति ।
[५६ ] स्वयमिति - वादिना । ॥ ४४ ॥
स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह । वादिनेति । स्वयंशब्दो निपातः , आत्मन इति षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्यार्थे वर्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च संबन्धिशब्दः । वादी च प्रत्यासन्नः । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः स एव तृतीयार्थयुक्तों निर्दिष्टो वादिनेति । न तु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह
यस्तदा साधनमाह ॥ ४५ ॥ यस्तदेति वादकाले साधनमाह । अनेकवादिसंभवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् । यद्येवं, वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुक्तेन ? अनेन 'तदा' वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः , स एव साध्यः, नेतर इत्युक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् ।
___ अथ कस्मिन्सति अन्यधर्मसाध्यत्वस्य संभवो यन्निवृत्यर्थ चेदं वक्तव्यमित्याह-- एतेन - यद्यपि कचिच्छास्त्रे स्थितः साधनमाह , तच्छास्त्रकारेण तस्मिन्धर्मिण्यनकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति ॥ ४६॥
तच्छास्त्रकारेणेति । यत् शास्त्रं तेन वादिना ऽभ्युपगतं • तच्छास्त्रकारेण' तास्मन्साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे
Page #62
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाबिन्दुटोका .
५७ सति अन्यधर्मसाध्यत्व संभवः । तथा हि । शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । [सा] अनेनापास्यते ; अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति ।
ननु च शास्त्रानपेक्षं वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि 'क्वचिच्छास्त्रे स्थितः ' इति किंचिच्छास्त्रमभ्युपगतः साधनमाह; तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदमुक्तम् । [५७ ] इष्ट इति, यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन
साध्यः ॥ ४७ ॥ इष्ट इति । इष्टशब्दमुपक्षिप्य व्याचष्टे । 'यत्रार्थे ' आत्मनि ["विवादः '] विरुद्धो वादः प्रक्रान्तो ' नास्त्यात्मा' इत्यात्मप्रतिषेधवादः आत्मसत्तावादविरुद्धः ; विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तम् । 'तस्य' आत्मार्थस्य ‘सिद्धिं ' निश्चयमिच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवति इष्टशब्देन । यत्तत् ' इत्युक्तं भवति' इतिग्रहणमन्ते, तदिहापेक्ष्य वाक्यं परिसमापयितव्यम् । यद्यपि परार्थानुमाने उक्त एव साध्यो युक्तः , 'अनुक्तोऽपि तु वचनेन साध्यः'; सामोक्तत्वात्तस्य । ___कुत एतदित्याह--
तदधिकरणत्वाद्विवादस्य ॥ ४८ ॥ तदित्यादि । तदिति । सः ' अधिकरणं' आश्रयो यस्य स तदधिकरणो विवादः तस्य भावस्तत्त्वं तस्मादिति । एतदुक्तं भवति । यस्मात् विवादं निराकर्तुमिच्छता वादिना साधनमुपन्यस्तं तस्मात् यत् अधिकरणं विवादस्य तदेव साध्यम् ; यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तम् । तच्चेन्न साध्यं, किमिदानी जगति नियत किंचित् साध्यं स्यादिति ?
Page #63
--------------------------------------------------------------------------
________________
५८
न्यायबिन्दुटीका
[ ३ परिच्छेदः
अनुक्तमपि परार्थानुमाने साध्यमिष्टम् । तदुदाहरति
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छ्यनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता | तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति ॥ ४९ ॥
परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्माथि परार्था इति साध्यम् पारार्थ्यम् । संघातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं शयनासद्याङ्गवदिति । शयनमासनं च ते आदी यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् । [ ५८ ] तद्वदत्र प्रमाणे यदव्यात्मार्थाचक्षुरादय इत्यात्मार्थता नोक्ता; अनुक्ताऽप्यात्मार्थता साध्या । तथा हि । साङ्ख्येनोक्तं ' अस्त्यात्मा' । तद्विरुद्धं बौद्धेनोक्तं ' नास्त्य त्मा' इति । ततः साङ्ख्येन स्ववाद - विरुद्धं बौद्धवादं हेतुकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्ताप्यात्मार्थता साध्या तदधिकरणत्वाद्विवादस्य । शयनासनादिषु हि पुरुषोपभोगाव्वात्मार्थत्वेनान्वय न प्रसिद्धः ; संघातत्वस्य परार्थ [त्व]मात्रेण तु सिद्ध: । ततः परार्था इत्युक्तम् । चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थं साधयितुमिष्टम् । विज्ञानाच्च पर आत्मैव स्यात् । परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा परार्थ - ग्रहणं कृतम् । ‘तेन' इष्टसाध्यवचनेन 'नोक्तमात्रं ' अपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः साधयितुमिष्टं उक्तमनुक्तं वा प्रकरणगम्यं ' साध्यमित्युक्तं भवति 1
9
अनिराकृत इति एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निरात्रियते न स पक्ष इति प्रदर्शनार्थम् ॥ ५० ॥
अनिराकृत इति व्याख्येयम् । 6 एतत् ' इत्यनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तं साध्यत्वेनेष्टेत्यादि । एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति ' प्रदर्शनार्थं ' प्रदर्शनाय अनिराकृतग्रहणं कृतम् । कीटशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह । यः साधयितुमिष्टोऽर्थः
Page #64
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायविदुटीका
५९ प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं च, तैः 'निराक्रियते' विपरीतः साध्यते न स पक्ष इति । तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति। ५१
___ तत्रेति तेषु चतुर्पु प्रत्यक्षादिनिराकृतेषु । प्रत्यक्षनिराकृतः कीदृशः । यथेति । यथायं प्रत्यक्षनिराकृतः तथान्येऽपि द्रष्टव्या इति यथाशब्दार्थः । श्रवणेन ग्राह्यः श्रावणः , न श्रावणः 'अश्रावणः'; श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धन श्रोत्रग्राह्यत्वेन बाध्यते । [५९ ]अनुमाननिराकृतो यथा-नित्यः शब्द इति ॥५२॥
अनुमाननिराकृतः । नित्यः शब्द इति शब्दस्य प्रतिज्ञातं नित्यत्वं अनित्यत्वेनानुमानसिद्धेन निराक्रियते । प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति ॥५३॥
प्रतीत्या निराकृतः । अचन्द्र इति । चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । 'प्रतीतिः ' प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पविज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथा हि । यत् विकल्पज्ञानप्रायं तत् शब्दाकारसंसर्गयोग्यम् । [यच्च शब्दाकारसंसर्गयोग्यं ] तत् सांकेतिकन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकं द्रष्टव्यम् । स्वभावहेतुश्च प्रतीतिः । यस्मात् विकल्पविषयत्वमात्रानुबन्धिनि सांकेतिकशब्दवाच्यता; ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधक द्रष्टव्यम् । खवचननिराकृतो यथा-नानुमानं प्रमाणम् ॥ ५४ ॥ ___स्ववचनं ' प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दस्तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा - नानुमानं प्रमाणम् । अत्रानुमानस्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स ' नानुमानं प्रमाणं' इत्यनेन स्ववाच
Page #65
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटोका [३ परिच्छेदः केन वाक्येन बाध्यते । वाक्यं ह्येतत् प्रयुज्यमानं वक्तुः शाब्दस्य प्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथाहि । मद्वाक्याद्योऽर्थसंप्रत्ययः तवोत्पद्यते सोऽसत्यार्थ इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता । वचनार्थश्चेदसत्यः परेण ज्ञातव्यः , वचनमपार्थकम् । योऽपि हि 'सर्व मिथ्या ब्रवीमि' इति वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यद्येतद्वाक्यं सत्यार्थमादार्शतम् , एवं वाक्यान्तराण्यात्मीयान्य [ ६० ] सत्यार्थानि दर्शितानि भवन्ति । एतदेव तु यद्यसत्यार्थम् , अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति । ततश्च न किंचिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्नेव वक्ता वाक्यमुच्चारयति । तथा च सति बाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति । तस्मात् ' नानुमानं प्रमाणम् ' इति ब्रुवता शाब्दस्य प्रत्ययस्य असन् ग्राह्य उक्तः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते; नान्यत् । शब्दोच्चारणसामर्थ्याच्चाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नों दर्शितः । ततः कल्पितादर्थकार्याच्छब्दात् शाब्दप्रत्ययार्थम्यानुमितं सत्त्वं प्रतिज्ञायमानं असत्त्वं प्रतिबध्नाति । तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं वाच्यमानं ववचनेन बाधितमुक्तमित्ययमत्रार्थः ।
अन्ये त्वाहुः । अभिप्रायकायीच्छब्दात् जातं ज्ञानमभिप्रायालम्बनं सदर्थमिच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति । तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वं स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् ; न वास्तवम् । अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते । किं च यथाऽनुमानमनिच्छन् वयव्यभिचारित्वं धूमस्य न प्रत्येति; तथा शब्दस्याप्यभिप्रायाव्याभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि
Page #66
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका तु बाह्यवस्तुसत्त्वप्रतिपादनाय । तस्माद्बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव व्याख्यानमनवद्यम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥ ५५॥ .
[' इति '] एवं सति अनिराकृतग्रहणेन अनन्तरोक्ताश्चत्वारः पशवदाभासन्त इति ‘पक्षाभासाः' निरस्ता भवन्ति ।
संप्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवच्छेदेन यादृशः पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति-- [६१ ] एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवा दर्शितं भवति ॥५६ ॥
एवमित्यनन्तरोक्तक्रमेण सिद्धस्य · विपर्ययेण ' विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादर्थात् सिद्धोऽर्थो विपरीतः , स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य । तस्मात् ' असिद्धः' साध्यः । असिद्धोऽपि न सर्वः अपि तु सौधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण, स्वयं वादिना साधयितुमनिष्टस्यासिद्धस्य विपर्ययेण, तथा उक्तमात्रस्यासिडस्यापि विपर्ययेण, तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः । यश्चायं पञ्चभिर्व्यवच्छेदै रहितोऽर्थः असिद्धः असाधनं वादिनः स्वयं साधयितुमिष्टः उक्तोऽनुक्तो वा प्रेमाणैरनिराकृतः साध्यः । स एवासौ — स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः ' एतैः पदैरुक्त इत्यर्थः । यश्चायं साध्यः स — पक्षः' उच्यते । इतिशब्द एवमर्थे; एवं पक्षलक्षणमनवद्यमिति । अविद्यमानं 'अवा' दोषो यस्य तत् 'अनवद्यम् । 'दर्शितं' कथितम् ।
त्रिरूपलिङ्गाख्यानं परिसमापय्य प्रसङ्गागतं च पक्षलक्षणमभि| धाय हेत्वाभासान्वक्तुकामस्तेषां प्रस्तावं रचयति
Page #67
--------------------------------------------------------------------------
________________
__ न्यायबिन्दुटीका [३ परिच्छेदः त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्या
नुक्तौ साधनाभासः ॥५७ ॥ त्रिरूपेत्यादिना । एतदुक्तं भवति । त्रिरूपलिङ्गाख्यानं वकुकामेन स्फुटं तद्वक्तव्यम् । एवं च तत् स्फुटमुक्तं भवति यदि तच्च तत्प्रतिरूपकं चोच्यते । हेयज्ञाने हि [ सति ] तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थानुमानमिति प्रागुक्तम् | तत्रेति तस्मिन्सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः । त्रयाणां रूपाणां मध्ये एकस्याप्य [ ६२ ] नुक्तौ; अपिशब्दाद्वयोरपि । ['साधनाभासः '] साधनस्याभासः, सदृशं साधनस्य न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः । उक्तावप्यसिद्धौ संदेहे वा प्रतिपाद्यप्रतिपादकयोः।५८
न केवलमनुक्तौ उक्तावप्यसिद्धौ संदेहे वा । कस्येत्याह । 'प्रतिपाद्यस्य' प्रतिवादिनः 'प्रतिपादकस्य ' च वादिनः हेत्वाभासः।
अथ कस्य रूपस्यासिद्धौ संदेहे वा किंसंज्ञको हेत्वाभास इत्याहएकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे
वाऽसिद्धो हेत्वाभासः ॥ ५९॥
एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः ‘धर्मिसंबन्धः' । धर्मिणि सत्त्वं हेतोः । तस्यासिद्धौ संदेहे वा असिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः न साध्यस्य न विरुद्धम्य न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुः, कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थो ऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ।
उदाहरणमाहयथा- अनित्यः शब्द इति साध्ये चाक्षुषत्व
मुभयासिद्धम् ॥ ६०॥ यथेत्यादि । ' अनित्यः शब्दः' इत्यानित्यत्वविशिष्टे शब्दे
Page #68
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका साध्ये 'चाक्षुषत्वं' चक्षुग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ।
चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धं विज्ञानेन्द्रियायुनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्तस्य च तरुष्वसंभवात् ॥ ६१ ॥
चेतनास्तरव इति तरूणां चैतन्ये साव्ये सर्वा त्वक 'सर्वत्वक् ' तस्या अपहरणे सति मरणं दिगम्बरैरुपन्यस्तं प्रतिवादिनो बौद्धस्यासिद्धम् । कस्मादसिद्धमित्याह । [६३] विज्ञानं चेन्द्रियं चायुश्च । तत्र ' विज्ञानं ' चक्षुरादिजनितम् । रूपादिविज्ञानोत्पत्त्या यदनुमितं कायान्तर्भूतं चक्षुर्गोलकादिस्थितरूपं तत् ' इन्द्रियम् ' । 'आयुः' इति लोके प्राणा उच्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः प्राणस्वभावमायुरिह । तेषां 'निरोधः' निवृत्तिः । स ' लक्षणं' तत्त्वं यस्य ततथोक्तम् । तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् । यदि नामैवं, तथापि कथमसिहमित्याह । 'तस्य च' विज्ञानादिनिरोधात्मकस्य तरुष्वसंभवात् । सतापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं नेच्छेत् । तस्मात् विज्ञानानिष्टेः निरोधोऽपि नेष्टस्तरुषु । ननु च शोषोऽपि मरणमुच्यते; स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया व्याप्तं यन्मरणं तदिह हेतुः - विज्ञाननिरोधश्च तत्सतया व्यातो [यतः, - न शोषमात्रम् । ततो यन्मरणहेतुः तत्तरुष्वसिद्धम् ; यत्तु सिद्धं शोषात्मकं तदहेतुः । दिगम्बरस्तु साध्येन व्याप्तमव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात्सिद्धं शोषरूपम् , शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोऽप्यसिद्ध स्यादिति न्यायः ।
अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनित्यं वा साङ्ख्यस्य स्वयं वादिनोऽसिडम् । ६२ ।
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते
Page #69
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटीका [३ परिच्छेदः सुखादयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा लिङ्गमुपन्यस्तम् । ये उत्पत्तिमन्तोऽनित्या वा ते न चेतना यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयः तस्मादचेतनाः । चैतन्यं तु पुरुषत्य स्वं रूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि साङ्ख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परम्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वं, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । तादृशं च द्वयमपि साङ्ख्यस्यासिद्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानात् वादिनोऽसिद्धम् । [६४ ] यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रमाणं वादिनो ज्ञातं म्यात् , वादिनोऽपि सिद्ध स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ।
संदिग्धासिद्ध दर्शयितुमाहतथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ॥ ६३ ॥
स्वयमिति हेतोरात्मनः संदेहेऽसिद्धः । तदाश्रयणस्य वेति । तस्य हेतोराश्रयणं आश्रीयतेऽस्मिन्हेतुरिति आश्रयण ' हेतोर्व्यतिरिक्त आश्रयभूतः साध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते । तस्याश्रयणस्य संदेहे संदिग्धः । . स्वात्मना संदिह्यमानमुदाहर्तुमाहयथा बाष्पादिभावेन संदिह्यमानो भूतसंघातो अग्निसिडावुपदिश्यमानः संदिग्धासिद्धः ॥ ६४ ॥
यथेति । बाष्प आदिर्यस्य स बाष्पादिः तद्भावेन बाष्पादित्वेन संदिद्यमानः । भूतसंघात इति । 'भूतानां' पृथिव्यादीनां ' संघातः ' समूहः । 'अमिसिद्धौ' अमिसिद्ध्यर्थमुपादीयमानोऽसिद्धः । एतदुक्तं भवति । यदा धूमोऽपि बाप्पादित्वेन संदिग्धो भवति तदा असिद्धः , गमकरूपानिश्चयात् । धूमतया निश्चितो बह्निजन्यत्वाद्गमकः । यदा तु संदिग्धस्तदा न गमक इति असिद्धताख्यो दोषः । ___ आश्रयणासिद्धमुदाहरतियथेह निकुञ्जे मयूरः केकायितादिति ॥६५॥
Page #70
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिदुटीका
यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो भूभागो । निकुञ्जः' । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितं मयूरध्वनिः ।
कथमाश्रयणासिद्ध इत्याह__ [६५ ] तदापातदेशविभ्रमे ॥६६॥
तदापात इति । तस्य केकायितस्य 'आपातः' आगमनं तस्य देशः स उच्यते यस्माद्देशादागच्छति केकायितम् । तस्य 'विभ्रमे ' व्यामोहे सति अयमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुलेषु सत्सु यदा केकायितापातनिकुञ्जे विभ्रमः 'किमस्मान्निकुञात्केकायितमागतमाहोस्विदस्मात् ' इति, तदा आश्रयणासिद्ध इति ।
धर्मिणोऽसिद्धावप्यसिद्वत्वमुदाहरति--- धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् ॥ ६७॥
यथेति । सर्वस्मिन् ‘गतः' स्थितः सर्वगतः ; व्यापीति यावत् । व्यापित्वे आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देशे उपलभ्यमानाः सुखदु:खेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत् , कथं दक्षिणापथे उपलब्धाः सुखादयो मव्यदेशे उपलभ्येरन् । तस्मात् सर्वगत आत्मा । तदिह बौद्ध स्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्य; इत्यसिद्धो हेत्वाभासः । पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः ; संप्रति त्वसिहो धर्युक्त इत्यनयोर्विशेषः । तदेवमेकस्य रूपस्य धर्मि[स]बद्धस्यासिद्धावसिद्धो हेत्वाभासः । तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनै
कान्तिको हेत्वाभासः ॥ ६८ ॥ तथा अपरस्यैकस्य रूपस्य असपक्षेऽसत्त्वाख्यस्य असिद्धावनैका- . न्तिको हेत्वाभासः । एकोऽन्त — एकान्तः ' निश्चयः । स प्रयोजन
Page #71
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेदः मस्येत्यैकान्तिकः, नैकान्तिकः । अनैकान्तिकः' । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयः अपि तु तद्विपरीतः संशयः ।
साव्येतरयोः संशयहेतुरनैकान्तिक उक्तः । तमुदाहरति[६६ ] यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये
प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः ___ सर्वत्रैकदेशे वा वर्तमानः ॥ ६९ ॥
यथेत्यादिना । नित्यत्वमादिर्यस्य स नित्यत्वादिको धर्मः । आदिशब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं च परिगृह्यते । प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदिशब्दादनित्यत्वं पुनरनित्यत्वममूर्तत्वं च गृह्यते । शब्दम्य धर्मिणो नित्यत्वादिक धर्मे साध्ये प्रमेयत्यादिको धर्मोऽनैकान्तिकः । चतुर्णामपि विपक्षे ऽसत्त्वमसिद्धम् । तथाहि । नित्यः शब्दः प्रमेयत्वादाकाशवटवदिति प्रमेयत्वं सपक्षविपक्षव्यापि । अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदाकाशवटवच्चेत्यनित्यत्वं सपक्षकदेशवृत्ति, विद्यदादावस्ति नाकाशादौ ; विपक्षव्यापि, प्रयत्नानन्तरीयके सर्वत्र भावात् । अनित्यत्वात्प्रयत्नानन्तरीयकः शब्दो घटवद्विधुदाकाशवच्चेत्यनित्यत्वं विपक्षकदेशवृत्ति, विद्युदादावस्ति नाकाशादौ ; सपक्षव्यापि, सर्वत्र प्रयत्नानन्तरीयके भावात् । नित्यः शब्दो ऽमूर्तत्वादाकाशपरमाणुवकर्मघटवच्चेत्यमूर्तत्वमुभयैकदेशवृत्ति । उभयोरेकदेशः आकाशे कर्मणि च वर्तते ; परमाणौ तु सपक्षकदेशे, घटादौ च विपक्षैकदेशे, न वर्तते ; मूर्तत्वाद्धटपरमाणुप्रभृतनिाम् । नित्यास्तु परमाणवो वैशेषिकेरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः । अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे । ततो ऽनैकान्तिकता । तथाऽस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ॥७॥
यथा चास्य रूपस्यासिद्धावनैकान्तिकः तथाऽस्यैव विपक्षे मसत्त्वाख्यस्य रूपस्य संदेहेऽनैकान्तिकः ।
तमुदाहरति
Page #72
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटोका यथा ऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये वक्तृत्वादिको धर्मः संदिग्ध
. विपक्षव्यावृत्तिकः ॥ ७१॥ यथेति । असर्वज्ञ इति असर्वज्ञत्वं साध्यम् । कश्चित् 'विवक्षितः' इति वक्तृरभिप्रेतः पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः, स यस्याम्ति स रागादिमानिति द्वितीयं साध्यम् । [६७ ] वाग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तृत्वं' वचनशक्तिः तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनैकान्तिकः । संदिग्धा विपक्षाघ्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा संदिग्धम् । अतो न ज्ञायते वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वकृत्वम् ।
__ ननु च सर्वज्ञो वक्ता नोपलभ्यते, तत्कथं वचनं सर्वज्ञे संदिग्धम् ? अत एव -- .
सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहहेतुत्वात् । ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेावृत्तिः संदिग्धा ।।७२।।
सर्वज्ञो वक्ता नोपलभ्यते इति एवंप्रकारस्य' एवंजातीयकस्यानुपलम्भ[वाक्य]स्य संदेहहेतुत्वात् । कुत इत्याह । अहश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् । यतो ऽदृश्यविषयो ऽनुपलम्भः संशयहेतुर्न निश्चयहेतुः, 'ततः' असर्वज्ञविपक्षात्सर्वज्ञात् वक्तृत्वादेव्यावृत्तिः संदिग्धा ।
नानुपलम्भात् सर्वज्ञे वक्तृत्वमसळूमोऽपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न ; वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च । यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको
न सिध्यति । संदेहात् ॥७३ ॥
Page #73
--------------------------------------------------------------------------
________________
न्यायविन्दुटीका [३ परिच्छेदः सर्वज्ञत्ववक्तत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणात् व्यतिरेको न सिध्यतीति संबन्धः । व्याप्तिमन्तं व्यतिरेकं दर्शयति । यः सर्वज्ञ इति साध्याभावरूपं सर्वज्ञत्वमनूद्य न स वक्ता भवतीति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् साधनाभावेन व्याप्त उक्त इति व्याप्तिमानीदृशो ब्यतिरेकः विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिधयेत् । न चास्ति विरोधः । तस्मान्न सिध्यति । कुत इत्याह । संदेहात् । यतो विरोधाभावः तस्मात् संदेहः । संदेहाव्यतिरेकासिद्धिः ।
कथं विरोधाभावः ? द्विविधो हि पदार्थानां विरोधः ॥ ७४ ॥
हीति यस्माद्विविध एव विरोधो नान्यः ; तस्मान्न वक्तृत्वसर्वज्ञत्वयोर्विरोधः ।
कः पुनरसौ द्विविधो विरोध इत्याह-- अविकलकारणस्य भवतो ऽन्यभावे
अभावाविरोधगतिः ॥ ७५ ॥ अविकलकारणस्यति । 'अविकलानि' समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावो न तम्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणग्रहणम् । ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम् ; तत्कुतो विरोधगतिः ? एवं तर्हि - [' अभावात्'] अविकलकारणस्यापि यत्कृतात् कारणवैकल्यादभावः तेन विरोधगतिः । तथा च सति यो यस्य विरुद्धः स तस्य किंचित्कर एव । तथा हि । शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एव । निवर्त्यस्य सहानघस्थानविरोधश्वायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहर्तव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्थयोरेव निवर्त्यनिवर्तकभावः । तस्माद्यो यस्य निवर्तकः स तं, यदि परं, तृतीये क्षणे निवर्तयति । प्रथमे
Page #74
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका क्षणे सन्निपतन्नसमर्थावस्थाधानयोग्यो भवति । द्वितीये विरुद्धमसमर्थ करोति । तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति । तत्रालाको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामयन् यदा ऽन्धकारे निरन्तरमालोकक्षणं जनयति, तदा आलोकसमीपवर्तिनमन्धकारमसमर्थ जनयति । ततो ऽसामर्थ्य तस्य, यस्य समीपवर्त्यालोकः । असामर्थ्य निवृत्ते तादृशो जायत आलोकः इत्येवं क्रमेणालोकनान्धकारोऽपनेयः ; तथोप्प्यस्पर्शेन शीलस्पर्शो निवर्तनीयः । यदा त्वालोकः तत्रैवान्धकारे देशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकक्षण उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ उत्पन्नः । ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकः ततः तृतीये क्षणे निवृत्तो विरुद्धः, यदि शीघ्रं [६९ ] निवर्तते । जन्यजनकभावाच्च संतानयोर्विरोधो न क्षणयोः । यद्यपि च न संतानो नाम वस्तु तथापि संतानिनो वस्तुभूताः । ततोऽयं परमार्थः । न क्षणयोर्विरोधः अपि तु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति । संतानयोर्निव~-- निवर्तकत्वनिमित्ते च विरोधे स्थिते, सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोध इतरेतरसंतानानिवर्तनात्तेषाम् । गतिधर्मा चालोको यां दिशमाक्रामति तदिग्वार्तनो विरोधिसंतानानिवर्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभा अन्धकारनिकटवर्तिन्यपि नान्धकारं निवर्तयति । अन्धकाराकान्तायां दिशि आलोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुकृतं संताननिष्ठमेव बिरोधं दर्शयता ' भवतः' इति कृतम् । 'भवतः ' प्रबन्धेन वर्तमानस्य शीतस्पर्शसंतानस्याभावोऽन्यस्योष्णस्पर्शसंतानस्य भावे सतीति ।
ये त्वाहुः – न विरोधो वास्तवः इति, ते इदं वक्तव्याः । यथा न निष्पन्ने कार्ये कश्चिजन्यजनकभावो नाम दृष्टोऽस्ति - कारणपूर्विका तु कार्यप्रवृत्तिः, अतो वास्तवः एव [सः], तद्वन्न निवृत्ते वस्तुनि कश्चिदिष्टो नाम विरोधोऽस्ति । दह ननिमित्तं तु शीतस्पर्शस्य क्षणान्तरासामर्थ्य अतो विरोधोऽपि वास्तवः एव ।
Page #75
--------------------------------------------------------------------------
________________
७०
न्यायाबिन्दुटोका
[३ परिच्छेदः
उदाहरणमाह -
शीतोष्णस्पर्शवत् ॥ ७६ ॥ शीतश्चाष्णश्च तावेव म्पर्शी, तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद्विरोधो योजनीयः । द्वितीयमपि विरोध दर्शयितुमाहपरस्परपरिहारास्थितलक्षणतया वा :
भावाभाववत् ॥ ७७ ॥ परस्परं 'परिहारः' परित्यागः तेन स्थितं ' लक्षणं ' रूपं ययोः तद्भावः परस्परपरिहारास्थितलक्षणता तया । इह यस्मिन् परिच्छिद्यमाने यत् व्यवच्छिद्यते तत् परिच्छिद्यमा ७० ]नमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्य - प्रच्युतिरवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्मात् वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ । नीला तु यइन्यद्रूपं तन्नीलाभावाव्यभिचारि; नीलस्य दृश्यस्य पीतादावुपलभ्यमाने अनुपलम्मादभावनिश्चयात् । यथा च नीलं स्वाभावं परिहरति तद्वदभावाव्यभिचारि पीतादिकमपि । तथा च भावाभावयोः साक्षा द्वरोधः , वस्तुनोस्तु अन्योन्याभावाव्यभिचारित्वाद्विरोधः । कम्य चान्यत्राभावावसायः ? यो नियताकारोऽर्थः तस्य । न त्वनियताकारोऽर्थः । क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् ; यतः क्षणिकत्वपरिहारेण न किंचिद्दश्यते । यद्येवं, अभावोऽपि न नियताकारः ? कथं न नियताकारो नाम; यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः। ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्र असदवसीयते नानियतम् । एवं च नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मकत्वविरोधश्चायम् । ययोर्हि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः । अत एव लाक्षणिकोऽयं विरोध उच्यते । ‘लक्षणं' रूपं वस्तूनां प्रयोजनमस्येति कृत्वा । विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्था
Page #76
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका प्यते । अतएव दृश्यमाने रूपे यन्निषिध्यते तत् दृश्यमेवाभ्युपगम्य निषिध्यते । तथा हि । अभावोऽपि पिशाचोऽपि यंदा पीते निषेडुमिप्यते तदा दृश्यात्मतया निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः । तथा च सति रूपे परिच्छिद्यमाने एकस्मिन् तदभावो दृश्यो व्यवच्छिद्यते । ततः स्वप्रच्युतिवत् प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति । ये परस्परपरिहारस्थितरूपाः सर्वे तेऽनेन निषिहैकत्वा इति । सत्यपि चास्मिन्विरोधे सहावस्थानं स्यादपि । ततो भिन्नव्यापारी विरोधी - एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते, अन्येन सहावस्थानम् ; भिन्नप्रवृत्तिविषयौ च । सकले वस्तुन्यवस्तुनि च परस्परपरिहाराविरोधः । वस्तुन्येव कतिपय सहानवस्थानविरोधः । तस्माद्भिन्नव्यापारौ भिन्नविषयौ च । ततो नानयोरन्योन्यान्तर्भाव इति । . स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न
संभवति ॥ ७८ ॥ [ ७१ ] स चायं द्विविधोऽपि विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोः न संभवति । न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं ह्यदृश्यम् । अदृष्ट(श्य)स्य चाभावो न वसीयते । ततो नानेन विरोधगतिर्भवति । न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् , काष्ठादयोऽपि [य] वक्तृत्वपरिहृताः तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् । काष्ठादीनामपि वक्तत्वप्रसङ्गात् । तत एवाविरोधाद्वक्तत्वावधानन सर्वज्ञत्वनिषेधः ।
स्यादेतत् । यदि नास्त्येव विरोधो घटपटयोरिव, स्यादपि तयोः सहावास्थतिदर्शनम् । अदर्शनात्तु विरोधगतिः । विरोधाच्चाभावगतिरित्याशङ्कयाह - न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः ॥ ७९ ॥
___ न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धविधिः । यद्यपि च सहावस्थानानुपलम्भः तथापि न तयोर्विरोधः ; यस्मान्न सहानुपलम्भमात्राद्विरोधः, अपि तु द्वयोरुपलभ्यमानयोर्निवय॑निवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविरोधिविरुद्वविधिः ।
Page #77
--------------------------------------------------------------------------
________________
न्यायविन्दुटीका
७२
अतो ऽस्मान्नान्यस्याभावगतिः ।
तथा न वक्तृत्वाद्रागादिमत्त्वगतिः ; यतो यदि वचनादि रागादीनां कार्यं स्यातू वचनादे रागादिगतिः स्यात्, रागादिनिवृत्तौ [च] वचनादिनिवृत्तिः स्यात् । न च कार्यम् । कुतः ? रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ||८०|| रागादीनां वचनादेव कार्यकारणभावस्यासिद्धेः कारणात् न कार्य, अतो ऽस्मान्न गतिः ।
[ ३ परिच्छेदः
माभूद्रागादिकार्यं वचनम्, सहचारि तु भवति ; ततो रागादौ सहचारिणि निवृत्ते निवर्तते वचनमित्याशङ्कयाह-[२] अर्थान्तरस्य वाऽकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ॥ ८१ ॥
इति संदिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ॥ ८२ ॥ अर्थान्तरस्य वा ऽकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण | नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्रेति । इतिशब्दः तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात् सर्वज्ञत्वाद्रागादिमत्त्व विपर्ययादरागादिमत्त्वात् संदिग्धो व्यतिरेको वचनादेः । अतो नैकान्तिको वचनादिः ।
एवमेकैकरूपासिद्धिसंदेहे हेतुदोषानाख्याय द्वयोर्द्वयो रुपयोरसिद्धिसंदेह हेतुदोषान्वक्तुकाम आह-
द्वयोरूपयोर्विपयर्यसिद्धौ विरुद्धः ॥ ८३ ॥ द्वयोरूपयोर्विपर्ययसिद्धौ सत्यां विरुद्धः ।
त्रीणि च रूपाणि सन्ति । ततो विशेषज्ञापनार्थमाह-
कयोर्द्वयोः ॥ ८४ ॥
कयोर्द्वयोरिति । विशिष्टे रूपे दर्शयति
Page #78
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका । ७३
सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य ॥ ८५॥ यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे
साध्ये विरुद्धो हेत्वाभासः ॥८६॥
सपक्ष सत्त्वस्यासपक्षे चासत्त्वस्य विपर्ययसिद्धाविति संबन्धः । । कृतकत्वमिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वमिति कार्यहेतुः । प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । — जन्म ' जायमानस्य स्वभावः । 'ज्ञानं' ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः । एतौ हेतू नित्यवे साव्ये विरुद्धौ हेत्वाभासौ ।
__ कस्मात्पुनरेतौ विरुद्धावित्याह -- ... [७३ ] अनयोः सपक्षेऽसत्त्वमसपक्ष च सत्त्व
मिति विपर्ययसिद्धिः ॥ ८७॥ अनयोरिति । सपक्षे नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ।
कस्मात्पुनर्विपर्ययसिद्धावप्यतौ विरुद्धावित्याह - एतौ च साध्यविपर्ययसाधनाविरुद्धौ ॥ ८८ ॥
एतौ च साध्यस्य नित्यत्वस्य विपर्ययं अनित्यत्वं साधयतः । साध्यविपर्ययसाधनात् विरुद्धौ ।।
यदि साध्यविपर्ययसाधनाविरुद्धावतो, उक्तं च परार्थानुमाने साध्यं न त्वनुक्तं, इष्टं चानुक्तं ; अतोऽन्य इष्टविघातकृदाभ्यामिति दर्शयन्नाह - ननु च तृतीयोऽपीष्टविघातकृद्विरुद्धः ॥ ८९ ॥
ननु च तृतीयोऽपि विरुद्ध उक्तः । उक्तविपर्यय साधनौ द्वौ । तृतीयोऽयं इष्टस्य शब्देनानुपात्तस्य विघातं करोति विपर्ययसाधनादिति 'इष्टविघातकृत् ।
Page #79
--------------------------------------------------------------------------
________________
न्यायाविन्दुटीका [३ परिच्छेदः तमुदाहरति - यथा परार्थाश्चक्षुरादयः संघातत्वाच्छय
नासनाद्यङ्गवदिति ॥ ९० ॥ __ यथेति । चक्षुरादय इति धर्मी। परः ' अर्थः' प्रयोजन संस्कार्य उपकर्तव्यो येषां ते ‘परार्थाः' इति साध्यम् । 'संघातत्वात् ' संचितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसंचितिरूपाः । ततः संघातरूपा उच्यन्ते । शयनमासनं चादियस्य तत् शयनासनादि । तदेवाङ्गं पुरुषापभागाङ्गत्वात् । अय व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारायंन संहतत्वं व्याप्तम् । यत: शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति पराथा उच्यन्ते ।
कथमयमिष्टविघातकृदित्याह - [७] तदिष्टासंहतपारार्थ्यविपर्ययसाध
नाद्विरुद्धः ॥ ९१ ॥ तदिष्टासह तपारार्थ्यविपर्ययसाधनादिति । असंहते विषये पारार्थ्य ' असंहतपारार्थ्यम्', तस्य सांख्यस्य वादिन इष्टमसंहतपारार्थ्य ' तदिष्टासंहतपारार्थ्य' तस्य विपर्ययः संहतपारायं नाम तस्य साधनात् विरुद्धः । आत्माऽस्तीति वाणः सांख्यः , कुत एतदिति पर्यनुयुक्तो बौद्धन, इदमात्मनः सिद्धये प्रमाणमाह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्मात् यो यस्योपकारकः स तस्य जनकः, जन्यमानश्च युगपत् क्रमेण वा भवति संहतः ; तस्मात् परार्थाश्चक्षुरादय इति संहतपरार्था इति सिद्धम् । स इह कस्मान्नोक्तः ? अनयोरेवान्तर्भावात् ॥ ९२ ॥
____ अयं च विरुद्ध आचार्यदिग्नागनोक्तः । स कस्माद्वार्तिककारेण सता त्वया नोक्त इत्यत आह - अनयोरेव साध्यविपर्ययमाधनयोः अन्तर्भावात् ।
Page #80
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाबिन्दुटोका
ननु चोक्तविपर्ययं न साधयति तत्कथं उक्तविपर्ययसाधनयोरेव अन भाव इत्याहन ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन
भिद्यते ॥ ९३ ॥ नायमिति । हीति यस्मादर्थे । यस्मादयमिष्टविघातकृत् आभ्यां हेतुभ्यां साध्यविपर्ययसाधनत्वेन न भिद्यते - यथा तो साध्यविपर्ययसाधनौ तथा अयमपि - उक्तविपर्ययं तु सांधयतु वा मा वा, किमुक्तविपर्ययसाधनन ; तस्मादनयोरेवान्तर्भावः ।
ननु चोक्तमेव साध्ये, तत्कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह---- न हीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति ॥१४॥ - नहीति। [हि यस्मात् इष्टोक्तयोः परपरस्य साध्यत्वेन न काश्चत् 'विशेषः ' भेदः ' इति' तस्मात् ; अनयोरेवान्तभावः इत्युपसंहारः । प्रतिवादिना हि यत् जिज्ञासितं तत् प्रकरणापन्नम् । [ ७५ ] यच्च प्रकरणापन्नं तत् साधनेच्छया विषयीकृतम् | साध्यमिष्टं उक्तमनुक्तं वा । नतूक्तमात्रमेव साध्यम् । तेनाविशेष इति ।
[ एकस्यासिद्धावपरस्य च संदेहे कहिशो हेत्वाभासः ? ] द्वयो रूपयोरेकस्यासिद्धावपरस्य च
संदेहेऽनैकान्तिकः ॥ ९५ ॥ द्वयो रूपयोरसिद्धौ विरुद्ध उक्तः । अनयोद्वियोर्मध्ये एकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः ।
कीदृशोऽसावित्याह-- यथा वीतरागः कश्चित्सर्वज्ञो वा वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः । संदिग्धोऽन्वयः॥९६॥ . - यथेति । विगतो रागो यस्य स 'वीतरागः' इत्येक साध्यम् । सर्वज्ञो वेति द्वितीयम् । वक्तृत्वादिति हेतुः । व्यक्तिरेकोऽत्रासिद्धः इति स्वात्मन्येव सरागे चासर्वज्ञे च विपक्षे वक्तत्वं दृष्टम् । अतोऽसिद्धो व्यतिरेकः ; संदिग्धोऽन्वयः ।
Page #81
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटोका [ ३ परिमा कुत इत्याहसर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र
सवमसत्त्वं वा संदिग्धम् ॥ ९७ ॥
सपक्षभूतयोः सर्वज्ञवीतरागयोः ‘विप्रकर्षत् ' इति अतीन्द्रियत्वात् वचनादेः इन्द्रियगम्यस्यापि तत्र' अतीन्द्रिययोः सर्वज्ञत्ववीतरागत्वयाः सत्त्वमसत्त्वं वा संदिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वं सर्वज्ञे उत न इत्यनै कान्तिक इति ।
___ संप्रति द्वयोरेव संदेहेऽनै कान्तिकं वक्तुमाह - अनयोरेव द्वयो रूपयोः संदेहेऽनैकान्तिकः ॥ ९८ ॥
अनयोरेव अन्वयव्यतिरेकरूपयोः संदेहात् संशयहेतुः । उदाहरणम् - [७] यथा सात्मकं जीवच्छरीरं प्राणादि
मत्त्वादिति ॥१९॥ सहात्मना वर्तते 'सात्मकम् ' इति साध्यम् । शरीरमिति धर्मी । जीवद्हगं धर्मिविशेषणम् । मृते ह्यात्मानं नच्छति । 'प्राणाः । आश्वासादय आदिर्यस्य उन्मेषनिमेषादेः प्राणिधर्मस्य म प्राणादिः, स यस्यास्ति तत् प्राणादिमत् जीवच्छरीरम्, तम्य भावस्तत्त्वं तम्मादित्येष हेतुः । अयमसाधारणः संशयहेतुरुपपादयितव्यः । पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम्- संशयविषयौ यावाकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात् ; तयोश्च व्यापकयोः आकारयोः एकत्रापि वृत्त्यनिश्चयात् । यकाभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोः आकारयोः न संशयः ; प्रकारान्तरसंभवे हि पक्षधर्मो धर्मिणमवियुक्त द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात् अतो न संशयहेतुः स्यात् । द्वयोः धर्मयोरनियतं भावं दर्शयन् संशयहेतुः, द्वयोस्तु अनियतमपि भावं दर्शयितुमशक्तः अप्रतिपत्तिहेतुः, नियतं भावं दर्शयन् हेतुविरुद्धो वा स्यात् । तस्मात् यकाभ्यां सर्व वस्तु संगृह्यते तयोः
Page #82
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका संशयहेतुः, यदि तयोः एकत्रापि सद्भावनिश्चय। न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयः, विरुद्धः हेतुर्वा स्यात् । अनियतसत्तानिश्चये तु साधारणानकान्तिकः संदिग्धविपक्षव्यावृत्तिकः संदिग्धान्वयः असिद्धव्य तिरेको वा स्यात् । एकत्रापि तु वृत्त्यनिश्चयात् असाधारणानैकान्तिको भवति । ततोऽसाधारणानकान्तिकस्य अनैकान्तिकावे हेतुद्वयं दर्शयितुमाहन हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति
यत्र प्राणादिर्वतेत ।। १०० ॥ ___ न हीति । सहात्मना वर्तते 'सात्मकः ' । निष्क्रान्त आत्मा यस्मात्स 'निरात्मकः ' । ताभ्यां [ 'हि' ] यस्मात् नान्यो राशिरस्ति, किंभूतः ? यत्रायं वस्तुधर्मः प्राणादिः वर्तेत ; तस्मादयं तयोर्भवति संशयहेतुः ।
कस्माइन्यराश्यभाव इत्याह[७७] आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात्॥१०१॥
आत्मनो ‘वृत्तिः ' सद्भावः 'व्यवच्छेदः' अभावः ताभ्यां सर्वस्य वस्तुनः ‘संग्रहात ' कोडीकरणात । यत्र ह्यात्मास्ति तत् सात्मकम् । तदन्यन्निरात्मकम् । ततो नान्यो राशिरस्ति संशयहेतुत्वकारणम् ।
प्रकाराभ्यां सर्वसंग्रहं प्रतिपाद्य द्वितीयमाह-- नाप्यनयोरेकत्र वृत्तिनिश्चयः ॥ १०२ ॥
नाप्यनयोः सात्मकानात्मकयोमध्ये एकत्र सात्मकऽनात्मके वा 'वृत्तेः' सद्भावस्य निश्चयोऽस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिः, वस्तुधर्मत्वात् । ततश्चानयोरेव वर्तते इत्येतावदेव ज्ञातम् । विशेषे तु वृत्तिनिश्चयो नास्तीत्ययमर्थः ।
तदाह-- सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्ध
प्राणादेरसिद्धेः ॥ १०३ ॥
Page #83
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेदः सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्त प्रसिद्धे' निश्चिते वस्तुनि प्राणादेर्धर्मस्य असिद्धेः अनैकान्तिकः, अनिश्चितत्वात् । तदेवं असाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् ।
पक्षधर्मश्च भवन् सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधमत्वं दर्शयति-- तस्माजीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाच सर्वस्माछावृत्तत्वेनासिद्धेः
ताभ्यां न व्यतिरिच्यते ॥१०४ ॥
तस्मादित्यादिना । जीवच्छरीरस्य संबन्धी, पक्षधर्म इत्यर्थः । । यस्मात्त पोरेकत्रापि न निवृत्तिनिश्चयः तस्माताभ्यां न व्यतिरिच्यते । वस्तुधर्मो हि सर्ववस्तु यापिनोः [७] प्रकारयोः एकत्र नियतसद्भावे निश्चितः प्रकारान्तरान्निवर्तेत । तत एवाह | सात्मकादनात्मकाच्च सर्वस्मात् वस्तुनो व्यावृत्तत्वेनासिद्धेरिति । प्राणादिस्तावत् कुतश्चित् घटादेः निवृत एव । ततः एतावदवसातुं शक्यम् -सात्मकादनात्मकाद्वा कियतो निवृतः, सर्वस्मा तु निवृत्तो नावसीयते । ततो न कुतश्चिद्व्यतिरेकः । . ___ यद्येवं अन्वयोऽस्तु तयोनिश्चित इत्याह--
न तत्रान्वेति ।। १०६ ॥ न 'तत्र' सात्मकेऽनात्मके वाऽर्थे ' अन्वेति' अन्वयन्वान् प्राणादिः ।
कुत इत्याह--
___एकात्मन्यप्यासिडेः ॥ १०६ ॥ 'एकात्माने ' सात्मकेऽनात्मके वा असिद्धेः कारणात् । वस्तधर्मतया तयोद्वयोः एकत्र वा वर्तते इत्यवप्सितः प्राणादिः, न तु सात्मके एव निरात्मके एव वा वर्तते [इत्यवसितः] ; इति कुतोऽन्वयनिश्चयः ।
. ननु च प्रतिवादिनो न किंचित् सात्मकमस्ति । ततोऽस्य हेतोः न सात्मके अन्वयः न व्यतिरेके इत्यन्वयव्यतिरेकयोः अभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याह--
Page #84
--------------------------------------------------------------------------
________________
३ परिच्छेदः ] न्यायबिन्दुरीका
नापि सात्मकानिरात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥ १०७॥
नापि सात्मकात् वस्तुनः तस्य प्राणादेः अन्वयव्यतिकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरकशब्दापेक्षया द्रष्टव्या।
कथमन्वयव्यतिरेकयोः नाभावनिश्चय इत्याह --- एकाभावनिश्चयस्यापरभाव निश्चय]
नान्तरीयकत्वात् ॥ १०८ ॥ एकस्य अन्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः स [एव] अपरस्थ द्वितीयस्य भाव[७९Jनिश्चयनान्तरीयकः भावनिश्चयस्य अव्याभिचारी, तस्य भावः तत्त्वं तस्मात् । यत एकामावनिश्चयोऽपर. भावनिश्चयनान्तरीयकः तस्मात् न द्वयोरे कत्राभावनिश्चयः। कस्मात्युनः एकस्याभावनिश्चयः अपर सद्भावनिश्चयाव्यभिचारीत्याह
अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः ।१०९।
अन्योन्यस्य 'व्यवच्छेदः' अभावः स एव रूपं ययोः तयोभावः तत्त्वं तस्मात् कारणात् । अन्वयव्यतिरेको भावाभावो । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितन् । स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यत । तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपः, यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्छिद्य रूप आकारवत् परिच्छिद्यते । तथाच सति अन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्च अन्वयः । ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति ; व्यतिरेकाभावे च निश्चित अवयो निश्चितो भवति । तस्मात् यदि नाम सात्मकं अवस्तु निरात्मकं च वस्तु, तथापि न तयोः प्राणादेः अन्वयव्यतिरेकयोः अभावनिश्चयः। एकवस्तुनि एकवस्तुनो युगपद्भावाभावविरोधात् तयोरभावनिश्चयायोगात् ।
Page #85
--------------------------------------------------------------------------
________________
न्यायबिन्दुदीका
[ ३ परिच्छेदः
न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती किंतु प्रमाणानुरोधात् इत्युभे संदिग्धे । ततः तयो प्राणादिमत्त्वस्व सदसत्वसंशयः । यत एव क्वचिदन्वयव्यतिरेकयोः न भावनिश्चयो नाप्य भावनिश्चयः तत एव अन्वयव्यतिरेकयोः संदेहः । यदि तु क्वचिदपि अन्वयव्यतिरेकयोः एकस्यापि अभावनिश्चयः स्यात् स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह एव न स्यात् । यतश्च न कचिद्भा वाभावनिश्चयः तत एव अन्वयव्यतिरेकयोः संदेहः । संदेहाच्चानैकान्तिकः । कस्मादुनैकान्तिकः ?
८०
[C] साध्येतरयोरतो निश्चयाभावात् ॥ ११०॥
सांध्यस्य इतरस्य च विरुद्धस्य अतः संदिग्धान्वयव्यतिरेकातू निश्चयाभावात् । सपक्ष विपक्षयोर्हि सदसत्त्वसंदेहे न साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां (च) पर प्रकार: संभवति । ततः प्राणादिमत्त्वात् धर्मिणि जीवच्छरीरे संशयः आत्मभावाभावयोः इत्यनैकान्तिकः प्राणादिरिति ।
त्रयाणां असिद्धौ संदेहे च हेतुदोषानुपपाद्य उपसंहरन्नाह एवं गां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोर सिद्धौ संदेहे च यथायोगमसिद्धविरु नैकान्तिकत्रयो हेत्वाभासाः ॥ १११ ॥ एवमित्यनन्तरोक्तेन क्रमेणैषां मध्ये एकैकं रूपं यत् असिद्ध संदिग्धं वा भवति । द्वे द्वे वा असिद्धे संदिग्धे वा भवतः । तदा असिद्धश्च विरुद्धश्व अनैकान्तिश्च ते हेत्वाभासाः । यथायोगनिति । यस्यासिद्धौ संदेहे वा यो हत्वाभासो युज्यते स तस्यासिद्धेः संदेहाच्च व्यवस्थाप्यत इति । यस्य यस्य येन येन योगः ' यथायोगं ' इति । ननु च आचार्येण
विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः ॥ ११२ ॥ हेत्वन्तरसाधितस्य विरुद्धं यत् तं न व्यभिचरति स ' विरुद्वा
Page #86
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायविन्दुरीका व्यभिचारी' । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य, विरुद्धसाधनादव्याभिचारी च, स्वसाध्याव्याभिचारात् 'विरुद्धाव्यभिचारी'। .
स इह नोक्तः। सत्यं उक्त आचार्येण | मया त्विह नोक्तः । कस्मादित्याह
• अनुमानविषयेऽसंभवात् ॥११३॥ अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो ह्यनुमानसद्भावः सः अनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यात् अनुमानसद्भावः तस्मात् तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न [८] विरुद्धाव्यभिचारिसंभवः । प्रमाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः संभवति यस्य प्रमाणसिद्ध रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धं अम्ति रूपम् । अतो न संभवः । ततोऽसंभवात् नोक्तः ।
कस्मादसंभव इत्याहन हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयो
रनुपलम्भस्य च विरुडतायाः ॥ ११४ ॥
न हीति । यस्मान्न संभवोऽस्ति विरुद्धतायाः। कार्य च स्वभावश्च तयोः उक्तलक्षणयोरिति । कार्यस्य कारणाजन्मलक्षणं तत्त्वम् ; स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्य यश्चः स्वभावः स कथं आत्म यिं ] कारणं व्यापकं च खभावं परित्यज्य भवेत् येन विरुद्धः स्यात् । ' अनुपलम्भस्य च ' उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं अनुपलम्भलक्षणम् । स्यादेतत् । एतेभ्योऽन्यो भविष्यतीत्याह
न चान्योऽव्यभिचारी ॥ ११५॥ न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत एव तेष्वेव हेतुत्वम् ।
क ताचार्यदिग्नागेनायं हेतुदोष उक्त इत्याह -
Page #87
--------------------------------------------------------------------------
________________
न्यायबिन्दुटीका [३ परिच्छेद तस्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी
___ साधनदोष उक्तः ॥ ११६॥
यस्मात् वस्तुबलप्रवृत्तेऽनुमाने न संभवति तस्मात् आगमाश्रयमनुमानं आश्रित्य विरुद्धाव्यभिचारी उक्तः। आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं तस्य आगम आश्रयः । ननु चागमासद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह-अवस्तुदर्शनबलप्रवृत्तमिति । अवस्तुनो 'दर्शन' विकल्पमात्रं तस्य ‘बलं' सामर्थ्य ततः प्रवृत्तम् । अप्रमाणात विकल्पमात्रात् व्यवस्थितं [८२] त्रैरूप्यं आगमसिद्धं अनुमानस्य ; न तु प्रमाणात् । तत् तर्हि अनुमान आगमसिद्धोरूप्यं काधिकृतमित्याह-तदर्थेति । तस्य आगमस्य यः ‘अर्थः' अतीन्द्रियः प्रत्यक्षानुमानाभ्यामविषयीकृतः सोमान्यादिः तस्य विचारेषु प्रक्रान्तेषु आगमाश्रयमनुमानं संभवति । तदाश्रयो विरुद्धाज्यभिचार्युक्त आचायेगेति ।
कस्मात्पुनरागमाश्रयेऽप्यनुमाने संभव इत्याहशास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्य
स्वभावस्योपसंहारसंभवात् ॥११७॥ - शास्त्रकृतां 'विपरीतस्य ' वस्तुविरुद्धस्य स्वभावस्य 'उपसंहारः' ढौकनं अर्थेषु । तस्य संभवाद्विरुद्धाव्यभिचारिसंभवः । 'भ्रान्त्या' इति विपर्यासेन । विपर्यस्ता हि शास्त्रकाराः सन्तमसन्तं स्वभावमारोपयन्ति इति।
___ यदि शास्त्रकृतोऽपि भ्रान्ताः, अन्येष्वपि पुरुषेषु क आश्वास इत्याह
न ह्यस्य संभवो यथावस्थितवस्तुस्थि
तिष्वात्मकार्यानुपलम्भेषु ॥ ११८॥ . ___न हीति । न हेतुषु कल्पनया हेतुव्यवस्था अपि तु वस्तुस्थित्या । ततो यथावस्थितवस्तुस्थितिप्वात्मकार्यानुपलम्भेष्वस्य संभवो
Page #88
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाबिन्दुटोका
८३ नास्ति । 'अवस्थितं' परमार्थसद्वस्तु, तदनतिक्रान्ता यथावस्थिता 'वस्तुस्थितिः ' व्यवस्था येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः, न कल्पनया । अतः तेषु न भ्रान्तेरवकाशाऽस्ति येन विरुद्वाव्यभिचारिसंभवः स्यात् । तत्रोदाहरणं यत्सर्वदेशावस्थितैः स्वसंबन्धिभिः संबध्यते तत्सर्वगतम । यथाकाशम् । अभिसंबध्यते
च सर्वदेशावस्थितैः स्वसंबन्धिभिर्युग- पत्सामान्यमिति ॥ ११९ ॥
'तत्र' विरुद्धाव्याभिचारिणे उदाहरणम् । यत् सर्वस्मिन्देशेवस्थितैः स्वसंबन्धिभिः युगपत् अभिसंबध्यते तत् । सर्वदेशावस्थितैर-[८३ भिसंबध्यमानत्वं सामान्यस्यानूद्य सर्वगतत्वं विधीयते । तेन युगपदाभिसंबध्यमानत्वं सर्वगतत्वे 'नियतं' तेन व्याप्तं कथ्यते । इह सामान्य कणाइमहर्षिणा निष्क्रियं दृश्यं एक चोक्तम् ; युगपञ्च सर्वैः स्वैः स्वैः संबन्धि भः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्य स्थितं साधयितुं प्रमाणमिदमुपन्यरतम् । यथाकाशमिति व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावास्थतैर्वृक्षादिभिः स्वसंयोगिभिः युगपदभिसंबध्यमानं सर्वगतं च । आभिसंबंध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिः इति हेतोः पक्षधर्मत्वप्रदर्शनम् ।
अस्य स्वभावहेतत्वं प्रयोजयितुमाहतत्संबन्धिस्वभावमात्रानुबन्धिनी तद्दे शसंनिहितस्वभावता। न हि यो यत्र नास्ति स तद्देशमात्मना व्यापोतीति
स्वभावहेतुप्रयोगः ॥१२०॥ तत्संबन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां संबन्धी सामान्यस्य स्वभावः, स एव तत्संबन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी। कासावित्याह - तद्देशसंनिहितरवभावता । तेषां संब
Page #89
--------------------------------------------------------------------------
________________
___ न्यायाबिन्दुटीका [३ परिच्छेदः न्धिनां देशः तद्देशः तदेशे संनिहितः स्वभावो यस्य तत् तद्देशसंनिहितस्वभावं तस्य भावः तत्ता । यस्य हि येषां संबन्धी स्वभावः तत् नियमेन तेषां देशे संनिहितं भवति । ततः तत्संबन्धित्वानुबन्धिनी तद्देशसंनिहितता सामान्यस्य ।। ननु च गवां संबन्धी स्वामी। न च तद्देश संनिहितम्वभावः स्वामी। तत्कथं संबन्धित्वात्तद्देशत्यमित्याहन हीति । यो यत्र देश नास्ति [सः], स देशो यस्य स तद्देशः, तं न व्यामोति 'आत्मना' स्वरूपण । इह सामान्यस्य तद्वतां च समवायलक्षणः संबन्धः । स चाभिन्न देशयोरेव । तेन यत्र यत् समवेतं तत् तं आत्मीयेन रूपेग क्रोडीकुवत् समवायिरूपदेशे स्वात्मानं निवेशयति । तदेशरूपनिवेशनमेव तत्क्रोडीकरणम् । ततः तत्समवायः । तस्मात् यद्यत् यत्र समवेतं तत्तत् द्रव्यं व्याप्नुवदा मना तद्देशे संनिहितं भवति । तदयमर्थः । तदेशस्थवम्तुत्र्यापनं तद्देशसत्तया व्याप्तम् । तद्देशसत्ताऽभावे तद्व्यापनाभावात् व्यापनलक्षणः [८४] समवायसंबन्धो न स्यात् । अस्ति च व्यापनम् । अतः तद्देशे संनिहितत्वमिति । तदयं स्वभावहेतुः ।
पैठरपयोगं दर्शयन्नाह - द्वितीयोऽपि प्रयोगो यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्तत्रास्ति। तद्यथा कचिदविद्यमानो घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्य व्यक्तयन्तरालेष्विति। अयमनुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः ॥१२१।।
द्वितीयोऽपीति । यत् उपलब्धेः ' लक्षणतां' विषयतां प्राप्तं, दृश्यमित्यर्थः । एतेन दृश्यानुपलब्धिमनूद्य 'न तत्तत्रास्ति' इत्यसद्यव्यवहार्यत्वं विहितम् । ततो व्याप्य दृश्यानुपलब्धेः व्यापकं असद्यवहार्यत्वं दर्शितम् । तद्यथेति क्वचिदसन्घटो दृष्टान्तः । पक्षधर्मत्वं दर्शगितुमाह-नोपलभ्यते चेति । व्यक्तेः ' अन्तरालं' व्यक्त्यन्तरं च व्यक्तिशून्यमाकाशं च। दृश्यमपि कस्यांचियक्तौ गोसामान्यं अश्वादिषु व्यक्त्यन्तरेषु व्यक्तिशू-ये चाकाशे नोपलभ्यते । तस्मान्न तेजस्तीति
Page #90
--------------------------------------------------------------------------
________________
८२
३ परिच्छेदः ]
न्यायबिन्दुटीका
गम्यते । अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्परविरुद्वैौ याव तयोः साधनात् तावेकस्मिन् धर्मिणि संशयं जनयतः । न ह्येकोऽर्थः परस्परविरुद्वस्वभावो भवितुमर्हति । एकेन चात्र व्यक्तयन्तरेषु व्यक्तिशून्ये चाकाशे सत्त्वं, अपरेण चानुपलम्भेन असत्त्वं साध्यते । न चैकस्य एकदा एकत्र सत्त्वमसत्त्वं च युक्तं, तयोर्विरोधात् । तस्मादागमसिद्धस्य सामान्यस्य सर्वगतत्वा सर्वगतत्वयोः साध्ययोः एतौ विरुद्धाव्यभिचारिणो जाती । यतः सामान्यस्यैकस्य युगपत्सर्व देशावस्थितैः अभिसंबन्धित्वं चाभ्युपगतं दृश्यत्वं च; ततः सर्वसंबन्धित्वात्सर्वगतत्वं दृश्यत्वादन्तरालानुपलम्भात् [च] अस्वगतत्वम् । ततः शास्त्रकारेणैव विरुद्धव्यातत्वमपास्यता विरुद्धव्याप्तौ धर्मावुतवा विरुद्धाव्यभिचार्यकाश दत्त इति । न च वस्तुन्यस्य संभवः ।
इत्युक्ता हेत्वाभासाः ।
ननु च साधनावयवत्वाद्यथा हेतव उक्ताः तत्प्रसङ्गेन [च] हेत्वाभासाः, तथा साधनावयवत्वाद्दृष्टान्ता वक्तव्याः तत्प्रसङ्गेन च दृष्टान्ताभासाः; तत्कथं नोक्ता इत्याह
[८५] त्रिरूपो हेतुरुक्तः । तावतैवार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तेन नास्य लक्षणं पृथगुच्यते । गतार्थत्वात् ।। १२२॥
:
त्रिरूपो हेतुरुक्तः तत्किं दृष्टान्तैः । स्थादेतत् । तावता नार्थप्रतीतिरित्याह- तावतैवेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स एव गमकः ततस्तद्वचनमेव साधनम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चायं नावयवः तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात्पृथक् उच्यते । कथं तर्हि हेतोर्व्याप्तिनिश्रयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुरदृष्टान्तक एव अपि तु न हेतोः पृथक् दृष्टान्तो नाम । हेत्वन्तर्भूत एव दृष्टान्तः अत एवोक्तं ' न. स्य लक्षणमुच्यते' इति । यद्येवं हेतूपयोगिनोपि लक्षणं वक्तव्यमेवेत्याहगतार्थत्वात् । गतः ‘अर्थः ' प्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य तस्य भावः तत्त्वं तस्मात् । दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा
I
Page #91
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटोका [३ परिकरः स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्तलक्षणस्य यत् प्रयोजनं दृष्टान्तप्रतीतिः तत् ‘गतं' निप्पन्नं, अभिधेयं वा ‘गतं' ज्ञातं दृष्टान्ताख्यम् ।
कथं गतार्थत्वामत्याह - हेतोः सपक्ष एव सत्त्वमसपक्षाच सर्वतो व्यावृत्ती रूपमुक्तमभेदेन । पुनर्विशेषेण कार्यस्वभावयोर्जन्मतन्मात्रानुबन्धी दर्शनीयावुक्तौ । तच्च दर्शयता यत्र धूमस्तत्राग्निः असत्यग्नौ न क्वचिडुमो यथा महानसेतरयोः, यत्र कृतकत्वं तत्रानित्यत्वमनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः। अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवतिः एतावन्मात्र
रूपत्वात्तस्य ।। १२३ ॥ हेतो रूपमुक्तं 'अभेदेन' सामान्यन | साधारणं कार्यस्वभावानुपलभानामतल्लक्षणमित्यर्थः । किं पुनस्तत् । सपक्ष एव यत सत्वं विपक्षाच्च सर्वस्मात् व्यावृतिर्या । रूपद्वयमेतत् [८६] अभेदेनोक्तम् । न च सामान्यमुक्तमपि शक्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठ वक्तव्यम् । अतः पुनरपि ' विशेषेण ' विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मान हि ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माट्यावृत्तिः ज्ञाता भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । 'तत्' इति साधनं, तदेव 'तन्मात्रं' साधनमात्रं ; साधनमात्रस्य ' अनुबन्धः अनुगमनं साधनमात्रभावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साधस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः सपक्ष एवं सत्त्वं विपक्षाच्च सर्वस्माब्यावृत्तिमता भवति । तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यम् नान्यथा । ततो विशेषलक्षणमुक्तम् ।।
Page #92
--------------------------------------------------------------------------
________________
३ परिच्छेदः ] न्यायविन्दुटीका
किमतो यदि नामैवामित्याह-तच्च सामान्यलक्षणं दर्शयितुका: मेन विशेषलक्षणं दर्शयता एवं दर्शनीयमिति संबन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोर्व्याप्तिः दर्शिता । व्याप्तिश्च कार्यकारणभावसाधनात्प्रमाणात् निश्चीयते । ततो यथा महानस इति दर्शनीयम् । असत्यमौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथैतस्मिन्निति दर्शनीयः। वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्र दर्शनीया ।
यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोर्व्याप्तिः दर्शिता । अनित्यत्वाभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च साधकं प्रमाणं साधर्म्य दृष्टान्त न] दर्शनीयम् । प्रसिद्ध व्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिदर्शनीया । तदवश्यं 'यथा घटे' 'यथाकाशे' चेति दर्शनीयम् ।
कमादेवामित्याह-न हीति यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे 'यथोक्तप्रकारे' इति नियते । सपक्ष एव सत्त्वं विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । न च विशेषलक्षणं अन्यथा शक्यं दर्शयितुम् । तस्य साध्यस्य कार्य तत्काय धूमः तस्य भावस्तत्कार्यता सैव नियमः, यतः तत्कार्यतया धूमो दाहेन नियतः। सोऽयं 'तत्कार्यतानियमः' विशेषलक्षणरूपः अन्यथा दर्शयितुमशक्यः ; स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिः विशेषलक्षणरूपा न शक्या दर्शयितम् । यस्मात् कार्यकारणभावः तादात्म्यं च महानसे घटे च ज्ञातव्यं, तस्मात् व्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्य [८७] दृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैधHदृष्टान्त इष्यते । तस्मात दृष्टान्तव्यतिरेकेण हेतोरन्वयो व्यतिरेको वा न शक्यः दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्य
Page #93
--------------------------------------------------------------------------
________________
न्यायविन्दुरीका [३ परिच्छेद दृष्टान्तः । प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभावप्रदर्शनात् वेधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति अस्मिश्चार्थे दर्शिते दर्शित एब दृष्टान्तो भवति । योऽयमों व्याप्तिसाधनप्रमाणप्रदर्शिनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्चेत्यस्मिन्नर्थे प्रदर्शिते दर्शितो दृष्टान्त इत्याहएतावन्मात्रं रूपं यस्य तस्य भावः तत्त्वं तस्मादिति । एतावदेव हि रूपं दृष्टान्तस्य यदुन व्याप्तिमाधनप्रमाणदर्शनत्वं नाम साधर्म्यदृष्टान्तम्य, प्रसिद्धव्याप्तिकस्य वा साध्यनिवृत्ती साधननिवृत्तिप्रदर्शकत्वमित्येतद्वैधयं दृष्टान्तस्य । तच हेतुरूपाख्यानादेवाग्यातमिति किं दृष्टान्तलक्षणेन । एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥१२४॥
एतेनैव च हेतुरूपाख्यानात् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तस्य दोषा दृष्टान्ताभासाः कथिता भवन्ति । तथाहि । पूर्वोक्तसिद्धये य उपादीयमानोऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति ।
दृष्टान्ताभासानुदाहरति---- यथा नित्यः शब्दोऽमूर्तत्वात् कर्मवत्परमाणुवद्धटव
दिति साध्यसाधनधर्मोभयविकला ॥१२५ ॥ ___ यथेति । नित्यः शब्द इति नित्यत्वे शब्दस्य साध्ये अमूर्तत्वादिति हेतुः । साधर्म्यण कर्मवत्परमाणुवद्बटवदित्येचे दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः साध्यं च साधनं चोभयं चेति तैर्विकला : । साध्यविकलं कर्म तस्यानित्वात् । [८८] साधनविकलः परमाणुः मूर्तत्वात्परमाणूनाम् । असर्वगतं द्रव्यपरिमाणं मूर्तिः । असर्वगताश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु वैशेषिकरिष्यन्ते । ततो न साध्यविकलाः । घटस्तूभयविकलः , अनित्यत्वान्मूर्तत्वाच्च घटस्येति ।
तथा संदिग्धसाध्यधर्मादयश्च । यथा रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्माऽयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं
रागादिमत्वाद्रथ्यापुरुषवदिति ॥१२६॥
Page #94
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाविन्दुटोका . ८९
तथा संदिग्धः साध्यधर्मो यास्मिन् स संदिग्धसाध्यधर्मः स आविर्येषां ते तथोक्ताः । संदिग्धसाध्यधर्मः, संदिग्धसाधनधर्मः, संदिग्धोभयः । उदाहरणं-रागादिमानिति रागादिमत्वं साध्यं, वचनादिति हेतुः, रथ्यापुरुषवदिति दृष्टान्तः । रागादिमत्त्वं संदिग्धम् । मरणं धर्मो ऽस्यति मरणधर्मा तस्य भावो मरणधर्मत्वं साध्यम् । ' अयं पुरुषः' इति धर्मी 'रागादिमत्त्वात्' इति हेतुः । रथ्यापुरुष दृष्टान्ते संदिग्धं साधनं, साध्यं तु निश्चितं मरणधर्मत्वमिति । असर्वज्ञ इति असर्वज्ञत्वं साध्यम् । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुष दृष्टान्ते संदिग्धं- असर्वज्ञत्वं रागादिमत्त्वं चेति । । ____ तथाअनन्वयोऽप्रदर्शितान्वयश्च । यथा यो वक्ता स रागादिमानिष्टपुरुषवत् । अनित्यः शब्दः
कृतकत्वाद्धटवदिति ॥१२७॥
अनन्वय इति । यस्मिन्दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते न तु साध्येन व्याप्तो हेतुः सः · अनन्वयः ' । अप्रदर्शितान्वयश्च, यस्मिन्दृष्टान्ते विद्यमानो ऽप्यन्वयः न प्रदर्शितो वक्रा सः 'अप्रदर्शितान्वयः' । अनन्वयमुदाहरति- यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं प्रति नियमः । तेन व्याप्तिरुक्ता। इष्टपुरुषवदिति । इष्टग्रहणेन प्रतिवाद्यपि गृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः सत्वमात्रं इष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति ।
अनित्यः शब्द इत्यनित्यत्वं साध्यम्, कृतकत्वादि हेतुः । [८९] घटवदिति दृष्टान्तेन न प्रदर्शितोऽन्वयः । इह यद्यपि कृतकत्वेन घटसदृशः शब्दः तथापि न अनित्यत्वेनापि सदृशो प्रत्येतुं शक्यः, अतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यत्वस्वभावं विज्ञातं भवति एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्मात् यत् कृतकं तत् अनित्यमिति कृतकत्वं अनित्यत्वनियतमभिधाय नियमसाधनाय अन्वयवा
Page #95
--------------------------------------------------------------------------
________________
न्यायाबिन्दुटोका [ ३ परिग्रः क्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादयः । स च प्रदर्शितान्धय एव । अनेन त्वन्वयवाक्यमनुक्कैव दृष्टान्त उपात्तः । ईदृशश्च साधर्म्यमात्रेणैवोपयोगी । न च साधात् साध्यसिद्धिः । अतो ऽन्वयार्थी दृष्टान्तः, तदर्थश्चानेन नोपात्तः ; साधार्थश्चोपात्तो निरुपयोग इति बक्तदोषादयं दृष्टान्तदोषः । वक्रा ह्यत्र परः प्रतिपादयितव्यः । ततो यदि नाम न दुष्टं वस्तु तथापि वक्रा दुष्टं दर्शितमिति दुप्टमेव । तथा विपरीतान्वयः यदनित्यं तत्कृतकम् ॥ १२८ ॥ ____ तथा विपरीतो ऽन्वयो यस्मिन्दृष्टान्ते स तथोक्तः । तमेवोदाहरति । यदनित्यं तत्कृतकमिाते । कृतकत्वं अनित्यत्वानेयतं दृष्टान्ते दशनीयम् । एवं कृतकत्वादानत्यत्वगतिः स्यात् । अत्र तु अनित्यत्वं कृतकत्वनियतं दर्शितम् ; कृतकत्वं तु अनियतमेव अनित्यत्वे । ततो यादृशमिह कृतकत्वं अनियतं अनित्यत्वे प्रदर्शितं ताशात नास्ति अनित्यत्वप्रतीतिः । तथा हि । 'यदनित्यं' इत्यनित्यत्वं अनूद्य ' तत्कृतकं' इति कृतकत्वं विहितम् । अतः अनित्यत्वं नियतमुक्तं कृतकत्वे न तु कृतकत्वं अनित्यत्वे । ततो यथा अनित्यत्वात् अनियतात्प्रयत्नानन्तरीयकत्वे न प्रयानानन्तरीयकत्वप्रतीतिः तद्वत् कृतकत्वात् अनित्यत्वप्रतिपत्तिः न स्यात ; अनित्यत्वे अनियतेत्वात् कृतकत्वस्य । यद्यपि च कृतकत्वं वस्तुस्थित्या अनित्यत्व नियत तथापि अनियतं वक्रा दर्शितम् । अतः तत् वयं न दुष्टमपि वक्तृदोषात् दुष्टम् । तस्मात् विपरीतान्वयोऽपि वक्तुरपराधात् न वस्तुतः । परार्थानुमान च वक्तुरपि दोषश्चिन्त्यते ।
इति साधयेण ॥ १२० ॥ इति साधर्म्यण नव दृष्टान्तदोषा उक्ता । ___ [९०] वैधयेणापि नव दृष्टान्तदोषान्वक्तुकाम आह. वैधhणापि परमाणुवत्कर्मवदाकाशवदिति . साध्याद्यव्यतिरेकिणः ॥ १३०॥
नित्यत्वे शब्दस्य साध्ये अमूर्तत्वे हेतौ परमाणुर्वेधर्म्यदृष्टान्तः साध्याव्यतिरेकी, नित्यत्वात्परमाणूनाम् । कर्म साधनाव्यतिरेक, अमू
Page #96
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका तत्वात्कर्मणः । आकाशमुभयव्यतिरेकी, नित्यत्वात् अमूर्तत्वाच्च । साध्यं आदिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि तेषां 'अव्यतिरेकः ' वृत्त्यभावः स येषामस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ।
अपरानुदाहर्तुमाहतथा संदिग्धसाध्यव्यतिरेकादयः यथा ऽसर्वज्ञाः कपिलादयो ऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र वैधर्योदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिानादिकमुपदिष्टवान् तद्यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः
संदिग्धो व्यतिरेकः ॥ १३१ ॥ तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः संदिग्धः साध्यव्यतिरेको यस्मिन् स संदिग्धसाध्यव्यतिरेकः स आदिर्येषां ते तथोक्ताः । संदिग्धसाध्यव्यतिरेकमुदाहतुमाह-यथेति । असर्वज्ञा इत्येक साध्यम् ; ' अनाप्ताः ' अक्षीणदोषा इति द्वितीयम्। कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादि हेतुः। सर्वज्ञता च आप्तता च, तयोः ' लिङ्गभूतः प्रमाणातिशयः ' लिङ्गात्मकः प्रमाणविशेषः । अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिंस्तत्तथोक्तं शासनं, तादृशं शासनं येषां ते तथोक्ताः तेषां भावः तत्त्वं, तस्मात् ।' प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिलादयः सर्वज्ञा आप्ता वा म्युः तदा ज्योतिज्ञानादिकं कस्मात् नोपदिष्टवन्तः ? न चोपदिष्टवन्तः । तस्मात् न सर्वज्ञा आप्ता वा ।
[९१] 'अत्र' प्रमाणे वैधर्योदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्गभूतमुपदिष्टवान्। यथा ऋषभो वर्धमानश्च तावादी यस्य स 'ऋषभवर्धमानादिः ' दिगम्बराणां शास्ता सर्वज्ञ आप्तश्चेति । तदिह वैधोदाहरणात् ऋषभादेः असवज्ञत्वस्य अनाप्ततायाश्च ‘व्यतिरेकः ' व्यावृत्तिः संदिग्धा ; यतो ज्योतिर्ज्ञानं चोपदिशेत् असर्वज्ञश्च भवेत् अनाप्तो वा ; कोऽत्र
Page #97
--------------------------------------------------------------------------
________________
९२
न्यायविन्दुटीका [३ परिच्छेदः विरोधः । नैमित्तिकमेतत् ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ।
संदिग्धसाधनव्यतिरेको यथा न त्रीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधम्र्योदाहरणं ये ये ग्राह्यवचना न ते रागादिमन्तः तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्यो रागादिमत्त्वस्थ साधनधर्मस्य व्या
वृत्तिः संदिग्धा ॥ १३२ ॥ संदिग्धः साधनव्यतिरेको यस्मिन् स तथोक्तः। तमुदाहरति-यथेति । ऋक्सामयजृषि त्रीणि 'त्रयी' तां वोत्ते [ स ] यीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवाक्षित इति कपिलादिः धर्मी । रागादिमत्त्वादिति हेतुः । ' अत्र' प्रमाणे · वैधयोदाहरणं' साच्याभावः साधनाभावेन व्याप्तो यत्र दश्यते तत् वैधोदाहरणम् । ग्राह्य वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूद्य न ते रागादिमन्त इति साधनाभावो विहितः। गौतम आदिर्येषां ते तथोक्ता मन्वादयो ‘धर्मशास्त्राणि' स्मृतयः तेषां कर्तारः । त्रयीबिदा हि ब्राह्मणेन ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च । 'ते' इति धर्मा । व्यतिरेकविषयो [ऽत्र] गौतमादय इति । गौतमादिभ्या रागादिमत्त्वस्य साधनस्य निवृत्तिः संदिग्धा । यद्यपि ते ग्राह्यवचनाः त्रयीविदा तथापि किं सरागा उत वीतरागा इति संदेहः ।
संदिग्धोभयव्यतिरेको यथा ऽवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति। अत्र वैवादाहरणं यो वीतरागो न तस्य परिग्रहाग्रही यथा ऋषभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः ॥ १३३ ।
___ संदिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः । तमुदाहरति[९२] यथेति । अवीतरागा इति रागादिमत्त्वं साध्यम् । कपिलादर
Page #98
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायाविन्दुटीका इति धर्मी । ' परिग्रहः' लभ्यमानस्य स्वीकारः प्रथमः । स्वीकारादूर्ध्व यत् गाय मात्सर्यं स ' आग्रहः' । परिग्रहश्च आग्रहश्च ताभ्यां योगात् । कपिलादयो लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्तीति ते रागादिमन्तो गृह्यन्ते ।
___ 'अत्र' प्रमाण · वैधयॊदाहरणं' यत्र साध्याभावे साधनाभावो दर्शयितव्यः । यो वीतराग इति साध्याभावमनूद्य, न तस्य परिग्रहाग्रहाविति साधनाभावो विहितः । यथा ऋषभादरिति दृष्टान्तः । एतस्मात् ऋषभादेः दृष्टान्तात् अवीतरागत्वस्य साध्यस्य परिग्रहायोगस्य च साधनम्य निवृत्तिः संदिग्धा। ऋषमादीनां हि परिग्रहाग्रहयोगोऽपि संदिग्धो वीतरागत्वं च। यदि नाम तसिद्धान्ते वीतरागाश्च निप्परिग्रहाश्च पठ्यन्ते तथापि संदेह एव ।
__ अपरानपि त्रीनुदाहतुमाह- - अव्यतिरेको यथाऽवीतरागो वक्तृत्वात् । वैधPदाहरणं यत्रावीतरागत्वं नास्ति न स वक्ता यथा उपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्तं तथापि सर्वे। वीतरागो न वक्तेति व्याप्त्या
___ व्यविरेकासिद्धेरव्यतिरेकः ॥ १३४ ॥ ___ अविद्यमानो व्यतिरेको यस्मिन् सः अन्यतिरेकः । अवीतराग इति रागादेमत्त्वं साध्यम् । वक्तृत्वादिति हेतुः । इह व्यतिरेकमाह । यत्रावीतरागत्वं नास्तीति साध्याभावानुवादः । तत्र वक्तृत्वमपि नास्तीति साधनाभावविधिः । तेन साधनाभावेन साध्याभावो व्याप्त उक्तः । दृष्टान्ता यथोपलखण्ड इति । कथमयमव्यतिरेकः यावता उपलखण्डादुभयं निवृत्तम् ? किमतः । यद्यप्युपलखण्डादुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं च ; तथापि व्याप्त्या व्यतिरेको यः तम्य आसद्धेः कारणात् अव्यतिरेकोऽयम् । कीदशी पुनः व्याप्तिरित्याह-सर्वो वीतराग इति साध्याभावानुवादः । न वक्तति साधनाभावविधिः । तेन साध्याभावः साधनाभावनियतः ख्यापितो भवतीति । इदशी व्याप्तिः। तया व्यतिरेको न सिद्धः । [९३] अम्य चार्थस्य प्रसिद्धये दृष्टान्तः । तस्मात् ।
Page #99
--------------------------------------------------------------------------
________________
९४
न्यायबिन्दुटीका [३ परिच्छेद स्वकार्याकरणात् दुष्टः । अप्रदर्शितव्यतिरेको यथा अनित्यः शब्दः
कृतकत्वादाकाशवदिति ॥१३॥
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । आकाशवदिति वैधर्येण दृष्टान्तः । इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतः, यदि परेण अशुद्धः ख्याप्यते, स तावत् यथा प्रकाशितः तथा न युक्तः ; यथा युक्तः तथा न प्रकाशितः । प्रकाशितश्च हेतुः । अतो वतुरपराधादपि परार्थानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिः अपि तु साध्यनियतात् हेतोः । अतः साध्यनियतो हेतुः अन्वयवावयेन व्यतिरेकवाक्येन च वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्मात दृष्टान्तो नाम अन्वयव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्य प्रयुक्तम् । अतो वैधNदृष्टान्तः इह असादृश्यभावन साधक उपन्यस्तः । न च तथा साधकः। व्यतिरेकविषयत्वेन स साधकः । न च तथा उपन्यस्त इति । अतः अप्रदर्शितव्यतिरेको वक्तुरपराधात् दुष्टः ।
वैधhणापिविपरीतव्यतिरेको यथा यदकृतकं तन्नित्यं
भवतीति ॥ १३६ ॥ विपरीतो व्यतिरेको यस्मिन् वैधHदृष्टान्ते स तथेक्तः । तमुदाहरति-यद कृतकमित्यादि । इह अन्वयव्यतिरेकवाक्याभ्यां साध्यनियतो हेतुः दर्शयितव्यः । यदा च साध्यनियतो हेतुः दर्शयितव्यः तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः। एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नारख्यायते, साधनसत्तायामपि साध्य भावः संभाव्येत । तथा च साधनं साध्यनियत न प्रतीयेत । तस्मात् साध्याभावः साधनाभावे नियतो वक्तव्यः ।
Page #100
--------------------------------------------------------------------------
________________
३ परिच्छेदः] न्यायबिन्दुटीका विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते, न साथ्याभावः साधनाभावे । तथा हि । ' यदस्तकं' इति साधनाभावमनूद्य ' तन्नित्यं' इति साध्याभावविधिः । ततोऽयमर्थः । अकृतको नित्य एव । तथा च सति अकृतकत्वं नित्यत्वे साध्याभाव नियतमुक्तं [९४] न नित्यत्वं साधनाभावे । ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह । तथा च विपरीतव्यतिरेकोऽपि वक्तुरपराधात् दुष्टः ।
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाहन ह्येभिदृष्टान्ताभासैहेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा ।
तदर्थापत्त्यैषां निरासो वेदितव्यः ॥ १३७॥ · न ह्येभिरिति । साध्यनियतहेतुप्रदर्शनाय हि दृष्टान्ता वक्तव्याः । एभिश्च हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत् सामान्यलक्षणं तत निश्चयेन न शक्यं दर्शयितुम् । ननु च सामान्य लक्षणं विशेषनिष्टमेव प्रतिपत्तव्यं न स्वत एवेत्याहविशेषलक्षणं वा । यदि विशेषलक्षण प्रतिपादयितुं शक्येत, स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु न शक्यं एभिः प्रतिपादयितुम् । [ 'तत्'] तस्मात् ' अर्थापत्त्या' सामर्थ्येन एषां निराकरणं द्रष्टव्यम् | साध्यनियतसाधनप्रतिपतये उपात्ताः तदसमर्थाः दुष्टाः, स्वकार्याकरणादिति सामर्थ्यम् । इयता साधनमुक्तम् । दूषणं वक्तुमाह
दूषणा न्यूनताद्युक्तिः ॥ १३८ ॥ दूषणा का द्रष्टव्या ? न्यूनतादीनां उक्तिः । उच्यते ऽनयेति 'उक्तिः ' वचनं, न्यूनतादिवचनम् ।
दूषणं विवरीतुमाह-- ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन परेष्टार्थसिडिप्रतिबन्धात् ॥ १३९॥
Page #101
--------------------------------------------------------------------------
________________
- न्यायबिन्दुटीका [३ परिच्छेदः ये पूर्व न्यूनतादयः असिद्धविरुद्धानकान्तिका उक्ताः तेषां 'उद्भावनं' वचनं यत् तत् दूषणम् । ननु च न्यूनतादयो न विपर्ययसाधनाः, तत् कथं दूषणमित्याह-[९५] 'तेन' न्यूनतादिवचनेन परेषामिष्टश्चासौ अर्थश्च तस्य ‘सिद्धिः' निश्चयः तस्याः प्रतिबन्धात् । नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवत् आपे तु पास्याभिप्रेतनिश्चयनिबन्धात् निश्चयाभावो भवति निश्चयाविपर्यय इत्यस्त्येव विपययसिद्धिरिति ।
उक्ता दूषणा ।
दूषणाभासास्तु जातयः ॥१४०॥ : दूषणाभासा इति ! दूषणवदाभासन्त इति दूषणाभासाः । के ते । जातयः । जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि | उत्तरस्थानप्रयुक्तत्वात उत्तरसदृशानि जात्युत्तराणि ।
तदेव उत्तरसादृश्यं उत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाहअभूतदोषोद्भावनानि जात्युत्तराणि ॥१४१॥
'अभूतस्य' असत्यस्य दोषस्य · उद्भावनानि | उद्भाव्यत एतैरिति · उद्भावनानि ' वचनानि । तानि जात्युत्तरााणे । 'जात्या.' सादृश्येन उत्तराणि जात्युत्तराणीति ।
कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममल मिन्दोरंशुवन्न्यायपिन्दोः । पदम नरमवाप्य ज्ञानधर्मोत्तरं य
जगदुपकृतिमात्रव्यापृतिः स्यामतोऽहम् ॥ आचार्यधर्मोत्तरपादविरचितायां न्यायबिन्दुटीकायां
तृतीयः [परार्थानुमान ] परिच्छेदः ।
समाप्तेयं न्यायविन्दुटीका कृतिराचार्यधर्मोत्तरस्य ॥०॥
सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् । सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम् ।।
Page #102
--------------------------------------------------------------------------
________________
धर्मकीर्तिप्रणीतं न्यायबिन्दुप्रकरणम् ।
प्रथमः परिच्छेदः। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्व्युत्पाद्यते । द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं च । तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना । तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं [च] ज्ञानं प्रत्यक्षम् ।..
____ तच्चतुर्विधम् । इन्द्रियज्ञानम्, स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् , सर्वचित्तचै! त्तानामात्मसंवेदनम्, भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । . तस्य विषयः स्वलक्षणम् । यम्यार्थस्य संनिधानासंनिधानाभ्यां. ज्ञानप्रातभासभेदः तत्स्वलक्षणम् । तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वादेव वस्तुनः । अन्यत्सामान्यलक्षणम् । सोऽनुमानस्य विषयः । तदेव च प्रत्यक्ष ज्ञानं प्रमाणफलम् । अर्थप्रतीतिरूपत्वात् । अर्थसारूप्यमस्य प्रमाणम्। तद्वशादर्थप्रतीतिसिद्धरिति ॥
___ द्वितीयः परिच्छेदः। __ अनुमानं द्विधा । स्वार्थ परार्थ.च । तत्र स्वार्थ त्रिरूपाल्लिकाद्यदनुमेय ज्ञानं तदनुमानम् । प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् । त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव, सपक्षे एव सत्त्वम्, असपक्ष चासत्त्वमेव निश्चितम् । __अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी। साध्यधर्मसामान्येन समानोऽर्थः सपक्षः । न सपक्षोऽसपक्षः ततोऽन्यः तद्विरुद्धः तदभावश्चेति । त्रिरूपाणि च त्रीण्येव लिङ्गानि । अनुपलब्धिः स्वभावकार्ये चेति ।
तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचित् घटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । उपलब्धिम्क्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव[ विशेष ] ।
Page #103
--------------------------------------------------------------------------
________________
न्यायबिन्दुः
[२ परिषद
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः । यथा वृक्षोऽयं शिंशपात्वादिति । कार्यं यथाऽभिरत्र धूमादिति । अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे हि सति अर्थोऽर्थ गमयेत् । तद्दप्रतिबद्धस्य तदव्यभिचारनियमाभावत् । स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य, वस्तुतः तादात्म्यात् साध्यादर्थादुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ।
प्रतिषेधसिद्धिरपि यथेोक्ताया एवानुपलब्धेः । सति वस्तुनि तस्या असंभवात् । अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वात्मप्रत्यक्षनिवृत्तेः अभावनिश्चयाभावात् । अमूढस्मृतिसंस्कारस्वातीतस्य वर्तमानस्य च प्रतिपत्तप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी । तस्या एवाभावनिश्रयात् ।
साच प्रयोगभेदादेकादशप्रकारा ।
1
१. स्वभावानुपलब्धिर्यथा नात्र धूम उपलब्धिलक्षण नाप्तस्यानुपलब्धेरिति । २. कार्यानुपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावात् । ३. व्यापकानुपलब्धिर्यथा नात्र शिशपा वृक्षाभावादिति । ४. स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेरिति । ५. विरुद्ध कार्योपलब्धिर्यथा नात्र शीतस्पर्शी धूमादिति । ६. विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भृतस्यापि भावस्य बिनाशो हेत्वन्तरापेक्षणादिति । ७. कार्यविरुडोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति अनरिति । ८ व्यापकविरुडोपलब्धिर्यथा नात्र तुषारस्पर्शोऽमेरिति । ९. कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति । १० कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः संनिहितदहनविशेषत्वादिति । ११. कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ।
इमे सर्वे कार्यानुपध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धी संग्रहमुपयान्ति । पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः । सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या
-
Page #104
--------------------------------------------------------------------------
________________
३ परिच्छेदः]
न्यायविन्दुः च प्रतिषेध उक्तः तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनुपलब्धिश्च वेदितव्या । अन्येषां विरोधकार्यकारणभावासिद्धेः ।
विप्रकृष्टविषयानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः । प्रमाणनिवृत्तावप्यर्थाभावासिहेरिति ।
तृतीयः परिच्छेदः। .... त्रिरूपलिङ्गाख्यानं परार्थानुमानम् । कारणे कार्योपचारात् । तविविधं प्रयोगभेदात् । साधर्म्यवद्वैधर्म्यवच्चेति । नानयोरर्थतो भेदः कश्चिदन्यत्र प्रयोगभेदात् ।
तत्र साधर्म्यवत्--उपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसध्यवहारविषयः सिहः, यथाऽन्यः कश्चिद्दष्टः शशविषाणादिः, नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धिलक्षणप्राप्तो घट इति । तथा स्वभावहेतोः प्रयोगः--यत्सतत्सर्वमनित्यं यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमतदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । अपेक्षितपरव्यापारा हि भावः स्वभावनिप्पत्ती कृतक इति । एवं प्रत्ययभददिस्वादयो द्रष्टव्याः । सनुत्पत्तिमान्कृतको वा शब्द इति पक्षधर्मोपदर्शनम् । सर्व एत साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः तत्स्वभावत्वात् स्वभावस्य च हेतुत्वात् । वस्तुतः तयोस्तादात्म्यात् तनिष्पत्तावनिप्पन्नस्य तत्स्वभावत्वाभावात् ; व्यभिचारसंभवाच्च । कायतोरपि प्रयोगः- यत्र धूमस्तत्रानिः यथा महानसादौ, अस्ति चेह धूम इति । इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः ।
वैधयवतः प्रयोगः - यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धि घटस्येत्यनुपलब्धिप्रयोगः । असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा, असंश्च शब्द उत्पत्तिमान्कृतको वेति स्वभाव हेतोः प्रयोगः । असत्यमौ न भवत्येव धूमः अत्र चास्तीति कार्यहेतोः प्रयोगः ।।
Page #105
--------------------------------------------------------------------------
________________
न्यायबिन्दुः
[३ परिच्छेदः साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । अति तस्मिन् साध्येन हेतोरन्वयाभावात् । तथा वैधर्म्येणाप्यन्वयगतिः । असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः । न हि स्वभावप्रतिचन्धेऽसति एकस्य निवृत्तावपरस्य नियमेन निवृत्तिः । स च द्विप्रकारः सर्वस्य तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्तम् । तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मान्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षास पक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ।
अनुपलब्धावपि - यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवे - त्युक्तेऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः । द्वयोरप्यनयोः प्रयोगे नावश्यं पक्षनिर्देशः । यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषयः ; नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति । तथा वैधर्म्यवत्प्रयोगेऽपि यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्व्यवहारविषय इति भवति ।
कीदृशः पुनः पक्ष इति निर्देश्यः । स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टोन साधनत्वेनापि । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात्साध्यं, न पुनस्तदिह साध्यत्वेनैवेष्टं, साधनत्वनाप्यभिधानात् । स्वयमिति वादिना यः तदा साधनमाह । एतेन
freeछात्र स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन्धर्मियनेकधर्माभ्युपगमेऽपि यः तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति । इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सः, अनुक्तोऽपि वचनेन, तदधिकरणत्वाद्विवादस्य । यथा परार्थाश्चक्षुरादयः संघातत्वाच्छ्यनासनाद्यङ्गवदिति । अत्र आत्मार्था इत्यनुक्तावपि आत्मार्थता । तेन नोक्तमात्रमेव साध्यमित्युक्तं भवि इति । एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमान
साध्यः,
Page #106
--------------------------------------------------------------------------
________________
३ परिच्छेदः ]
न्यायबिन्दुः
1
प्रतीतिस्ववचनैः निराक्रियते न स पक्ष इति प्रदर्शनार्थम् । तत्र प्रत्यक्षनिराकृतो यथा श्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति । प्रतीतिनिराकृतो यथा अचन्द्रः शशीति स्ववचननिराकृतो यथा नानुमानं प्रमाणम् । इति चत्वारः पक्षाभासो: निराकृता भवन्ति । एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं वादिना तदा साधयितुमनिष्टस्य उक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति ।
त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः उक्तावपि असिद्धी संदेहे वा । प्रतिपाद्यप्रतिपादकयोरेकस्य रूपस्य धर्मिसंबन्धस्यासिद्धैा संदेहे वाऽसिद्धो हेत्वाभासः । यथाऽनित्यः शब्द इति साध्ये चाक्षुषत्व - मुभयासिद्धम् । चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धं विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्तस्य च तरुष्वसंभवात् । अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् । तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः । यथा बाप्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धा त्रुपदिश्यमानः संदिग्धासिद्धः । यथेह निकुञ्ज मयूरः के कायितादिति तदापातदेशविभ्रमे । धर्म्यसिद्धावपि असिद्धो यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभमानगुणत्वम् । तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः । यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः । तथाऽस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये - त्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः । सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहहेतुत्वात् । ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा । वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च । यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यति । संदेहात् । द्विविधो हि पदार्थानां विरोधः । अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः शीतोष्णस्पर्शवत् परस्परपरिहार
Page #107
--------------------------------------------------------------------------
________________
न्यायाबिन्दुः [३ परिच्छेदः स्थितलक्षणतया वा भावाभाववत् । स च द्विविधोऽपि विरोधो वक्तत्वसर्वज्ञत्वयोर्न संभवति। न चाविरुद्धविधेरनुपलब्धावपि अभावगतिः । रागादीनां वचनादेश्च कार्यकारणभावासिद्धः । अर्थान्तरस्य वाऽकारणस्य निवृतौ न वचनादेनिवृत्तिरिति संदिग्धव्यतिरकोऽनै कान्तिको वचनादिः।
. . द्वयो रूपयोर्विपर्ययसिद्धी विरुद्धः। कयोर्द्वयोः ! सपक्ष सत्त्वस्यासपक्षे चासत्त्वस्य । यथा कृतकत्वं प्रयत्नानन्तरीय कत्व च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः । अनयोः सपक्षेऽसत्त्वमसपक्षे च सत्त्वमिति विपर्ययपिद्धिः । एतौ च साध्यविपर्ययसाधनाविरुदौ।
ननु च तृतीयोऽपष्टिविघातकृविरुद्धः । यथा परार्थाशक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिाते, तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः । स इह कस्मान्नाक्तः ? अनयोरेवान्तर्भावात, न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यत । न हीष्टोक्तयोः साध्यत्वेन कश्चिंद्विशेष इति द्वयो रूपयोरेकस्यासिद्धावपरस्य च संदेहेऽनेकान्तिकः । यथा वीतरागः कश्चित् सर्वज्ञो वा वकृत्वादिति । व्यतिरेकोऽत्रासिद्धः; संदिग्धोऽन्वयः । सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा संदिग्धम् ।। - .. अनयोरेव द्वयों रूपयोः संदेहेऽन कान्तिकः । यथा) सात्मक जीवच्छरीरं प्राणादिमत्त्वादिति । न हि सात्मकनिरात्मकाभ्यामन्यो राशिस्ति यत्र प्राणादिवतते; आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् । नाप्यनयोरेकत्र वृत्तिनिश्चयः ; सात्मकत्वेन निरात्मकत्येन वा प्रसिद्ध प्राणादेरसिद्धः । तम्म.जोवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाच सर्वस्म घ्यावृत्तत्वनासिद्धः ताभ्यां न व्यतिरिच्यते । न च तत्रान्वेति ; एकात्मन्याप्यसिद्धः । नापि सात्मकान्निरात्मकाच्च तस्यान्वयव्योतेरकयोरभावनिश्चयः एकाभावनिश्चयस्यापरभाव निश्चय नान्तरीयकस्बात् ; अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनकान्तिकः ; साध्येतस्योरतो निश्चयाभावात् ।
एवं त्रयाणां रूपाणामेकैकस्य द्वयोर्डयोर्वा रूपयोरसिद्धी संदेहे च यथायोगमसिद्धविरुद्धानकान्तिकास्त्रयों हेत्वाभासाः ।
Page #108
--------------------------------------------------------------------------
________________
३ परिच्छेदः] . न्यायविन्दुः.
विरुहाव्यभिचार्यपि संशयहेतुरुक्तः। स इह (कस्मात्) नोक्तः । अनमानविषयेऽसंभवात् । न हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरु द्वतायाः । न चान्योऽव्यभिचारी । तम्मादवस्तुदर्शनबलप्रवृत्तमागमाश्रयमनुमानं आश्रित्य तदर्थविचारेषुविरुहाव्याभचारी साधनदोष उक्तः; शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्य स्वभावस्योपसंहारसंभवात् । न ह्यस्य संभवो यथावस्थितवस्तुस्थिस्तिषु आत्मकार्यानुपलम्भेषु । तत्रादाहरणं यत्सर्वदशा. वस्थितैः स्वसंबन्धिभिः संबध्यते तत्सर्वगतं यथाकाशम् । अभिसंबंध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभियुगपत्सामान्यमिति । तत्सबन्धिस्वभावमात्रानुबन्धिनी तदेशसंनिहितखभावता । न हि यो यत्र नास्ति स तद्देशमात्मना व्यामोतीति स्वभावहतुप्रयोगः । द्वितीयोऽपि प्रयोगः -- यदुपलब्धिलक्षणप्राप्तं सन्नोपल पते न तत्तत्रास्ति तद्यथा कचिदविद्यमानो घटः । नोपलभ्यते चोपलब्धिलक्षणप्रातं सामान्य व्यत्यन्तरालेन्विति । अयमनुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः ।
त्रिरूपो हेतुरुक्तः । तावतैवार्थप्रतीतिारेति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तन नास्य लक्षणं पृथगुच्यत गतार्थत्वात् । हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्ती रूपमुक्त. मभदन, पुनर्विशेषेण कायस्वभावयोन्मतन्मात्रानुबन्धी दर्शनीयावुक्ती । तच्च दर्शयता यत्र धूमस्तवाग्निः असत्यनौ न : कचिहमा यथा महानसेतरयोः । यत्र कतकत्वं तत्रानित्यत्वं अनित्यवाभाव कृतकत्वासंभवो यथा घटाकाशयोरिति . दर्शनीयम् । । न ह्यन्यथा सपक्ष विपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः कायलिङ्गस्य स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः। अस्मिंश्चार्थ दर्शित दर्शित एव दृष्टान्तो भवति । एतावन्मात्ररूपत्वात्तस्य ।
एतनेव दृष्टान्तदोषा अपि निरस्ता भवन्ति-यथा नित्यः शब्दोऽमूर्तत्वात् कर्मवत् परमाणुवत् घटवदिति साध्यसाधनधर्मोभयविकलाः । तथा संदिग्धसाध्ययमादयश्च यथा रागादिमानयं वचनात् रथ्यापुरुषवत् । मरणधर्माऽयं पुरुषो रागादिमत्त्वात् रथ्यापुरुषवत् । असर्वज्ञोऽयं .रागादिमत्त्वात् रथ्यापुरुष बदिति । अन
Page #109
--------------------------------------------------------------------------
________________
न्यायविन्दुः [३ परिच्छेदः न्वयोऽप्रदर्शितान्वयश्च यथा यो वता स रागादिसान् इष्टपुरुषवत; अनित्यः शब्दः कृतकत्वात् घटबादति । तथा विपरीतान्वयो यदनित्यं तत्कृतकमिति साधर्येण । वैधयेणापि परमाणुवत्कर्मवदाकाशवदिति साध्याद्यव्यतिरेकिणः । तथा संदिग्धसाध्यव्यतिरेकादयो यथा असर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र वैधोदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् तद्यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः संदिग्धो व्यतिरेकः । संदिग्धताधनव्यतिरेको यथा न त्रयीविदा ब्राह्मणन ग्राह्यवचनः कश्चिद्विवाक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्योदाहरणं ये ग्राह्यवचना न ते रागादिमन्तः तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा । संदिग्धोभयव्यतिरेको यथा अवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति । अत्र वैधर्योदाहरणं यो वीतरागो न तस्य परिग्रहाग्रही यथा ऋषभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः। अव्यतिरेको यथा अवीतरागो वक्तृत्वात् । वैधर्योदाहरणं यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्तम् तथापि सर्वो वीतरागो न वक्तेति व्याप्च्या व्यतिरेकासिद्धेरव्यतिरेकः । अप्रदर्शितव्यतिरको यथा अनित्यः शब्दः कृतकत्वादाकाशवदिति । विपरीतव्यतिरेको यथा यदकृतक तन्नित्यं भवतीति ।
न ह्येभिदृष्टान्ताभासहेतोः सामान्यलक्षणं, सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव, निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो वेदितव्यः ।
दूषणा न्यूनताद्युक्तिः। ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् , तेन परेष्टार्थसिद्धिप्रतिबन्धात् । दूषणाभासास्तु जातयः ; अभूतदोषोद्भावनानि जात्युत्तराणीति । ... इति तृतीयः परिच्छेदः ।
न्यायविन्दुः समाप्तः ॥
Page #110
--------------------------------------------------------------------------
_