________________
४८
न्यायविन्दुटीका [३ परिच्छेदः भवत्वीदश एव स्वभावः; स्वभावे एव तु साध्ये कस्मात् हेतुप्रयोगः ?
[४८ ] स्वभावस्य च हेतुत्वात् ॥ १९ ॥
स्वभाव इह हेतुः प्रक्रान्तः । तस्मात् स एव साध्यः कर्तव्यः यः साधनस्य स्वभावः स्यात् । साधनधर्ममात्रानुबन्धश्च स्वभावो नान्यः ।
यदि साध्यधर्मः साधनस्य स्वभावः, प्रतिज्ञार्थंकदेशः तर्हि हेतुः स्यादित्याह -.
वस्तुतस्तयोस्तादात्म्यात् ॥ २० ॥
वस्तुत इति । 'वस्तुतः ' परमार्थतः साध्यसाधनयोः तादात्म्यम् । समारोपितस्तु साध्यसाधनयोर्भेदः । साच्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेन इतरव्यावृत्तिकृतेन भिन्न इत्यन्यत्साधनं अन्यत्साध्यम् । दूराद्धि शाखादिमानों वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एव वृक्षः सैव शिंशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदन । तस्मात् निश्चयारूढरूपापेक्षया अन्यत्साधनं अन्यत्साध्यम् । अतो न प्रतिज्ञार्थंकदेशो हेतुः । वास्तवं तु तादात्म्यमिति ।
कस्मात्पुनः साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्य इत्याहतनिष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् ॥२१॥
तन्निष्पत्ताविति । यो हि यन्नानुबध्नाति स तन्निष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्तावनिप्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्त्यनिष्पत्ती भावाभावरूपे । भावाभावी च परस्परपरिहारेण स्थितौ । यदि च पूर्वनिप्पन्नस्यानिष्पन्नस्य च ऐक्यं भवेत् , एकस्यैवार्थस्य भावाभावौ स्यातां युगपत् । न च विरुद्वयोर्भावाभावोरैक्यं युज्यते, विरुद्धधर्मसंसर्गात्मकत्वात् एकत्वाभावस्य । किं च पश्चादुत्पद्यमानं पूर्वनिष्पन्नाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः ।