________________
४९
३ परिच्छेदः] न्यायबिन्दुटोका ततो निष्पन्नानिष्पन्नयोर्विरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात् साधनधर्ममात्रानुबन्ध्येव साध्यः स्वभावो नान्यः ॥
मा भूत्पश्चानिष्पन्नः पूर्वजस्य स्वभावः ; साध्यस्तु [४९] कस्मान्न भवतीत्याह
व्यभिचारसंभवाच ॥ २२ ॥ पूर्वजेन पश्चान्निष्पन्नस्य 'व्यभिचारः' परित्यागो यः तस्य संभवाच्च । न पूर्वनिष्पन्नस्य पश्चान्निष्पन्नः साध्यः । तस्मात् साधनधर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्धे एव स्वभावहेतवः प्रयोक्तव्या इति स्थितम् । कार्यहेतोरपि प्रयोगः - यत्र धूमस्तत्राग्निर्यथा महानसादौ, अस्ति चेह धूम इति ॥ २३ ॥
कार्यहेतोः प्रयोगः ; साधर्म्यवानिति प्रकरणादपेक्षणीयम् । 'यत्र धूमः' इति धूममनूद्य 'तत्रामिः'इत्यनेर्विधिः । तथा च नियमार्थः पूर्ववदवगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दर्शिता । व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह । यथा महानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माऽविनाभावो निश्चितः ; 'अस्ति चेह-' इति साध्यधर्मिणि पक्षधर्मोपसंहारः ॥ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये
कार्यहेतुर्वक्तव्यः ॥ २४ ॥ इहापीति । न केवल स्वभावहेतौ इहापि कार्यहेतौ । 'सिद्धे' एवेति निश्चिते कार्यकारणत्वे । कार्यकारणत्वनिश्चयो ह्यवश्यकर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु नानन्तरीयकत्वादित्युक्तम् ।
साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह