________________
५०
न्यायबिन्दुटीका [३ परिच्छेदः [५०] वैधय॑वतः प्रयोगो यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः; न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः ॥२५॥
वैधर्म्यवत इति । 'यत्सदुपलब्धिलक्षणप्राप्तं ' इति यत्सत् दृश्यमिति अस्तित्वानुवादः । तदुपलभ्यत इति उपलम्भविधिः । तदनेन दृश्यस्य सत्त्वं दर्शनविषयत्वेन व्याप्तं कथितम् । असत्त्वनिवृत्तिश्च सत्त्वम् अनुपलम्भनिवृत्तिश्चोपलम्भः । तेन साध्यनिवृत्त्यनुवादेन साधननिवृत्तिर्विहिता । तथा च साध्यनिवृत्तिः साधननिवृत्ती नियतत्वात साधननिवृत्त्या व्याप्ता कथिता। यदि च धामणि साध्यधर्मो न भवेत् हेतुरपि [ न भवेत् ] ; हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुः, अतो व्यापकस्य साधनाभावस्याभावात् व्याप्यस्य साध्याभावस्याभाव इति साध्यनिश्चयो भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः ।
स्वभावहेतोवैधयंप्रयोगमाह-- असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा; असश्च शब्द उत्पत्तिमान्कृतको वेति
स्वभावहेतोः प्रयोगः ॥ २६ ॥
असत्यनित्यत्व इति । इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियत उच्यते । तेन हेत्वभावेन साध्याभावो व्याप्त उक्तः त्रिष्वपि स्वभावहेतुषु । सन्नुत्पत्तिमान्कृतको वा शब्द इति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह च साधनाभावस्य व्यापकस्य अभाव उक्तः । ततो व्याप्योऽपि साध्याभावो निवृत्त इति साध्यगतिः ।
कार्यहेर्विधर्म्यप्रयोगमाहअसत्यग्नौ न भवत्येव धूमः, अत्र चास्तीति
___ कार्यहेतोः प्रयोगः ॥ २७ ॥ असत्यमाविति । इहापि वयभावो धूमाभावेन व्याप्त