________________
३ परिच्छेदः] न्यायबिन्दुटीका उक्तः । 'अस्ति चात्र धूमः' इति व्यापकस्य धूमाभावस्याभाव उक्तः । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः ।
[५१] ननु च साधर्म्यवति व्यतिरेको नोक्तः, वैधर्म्यवति चान्वयः ; तत्कथमेतत् त्रिरूपलिङ्गाख्यानमित्याहसाधयेणापि हि प्रयोगैऽर्थाद्वैधर्म्यगतिरिति ॥ २८ ॥
___ साधर्म्यणेति । साधर्म्यणाप्यभिधेयेन युक्त प्रयोगे क्रियमाणे ' अर्थात् ' इति सामर्थ्यात् । वैधर्म्यस्य' व्यतिरेकम्य गतिर्भवति हीति यस्मात् ; तस्मात्रिरूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेको ऽन्वयवति नोक्तः , तथाप्यऽन्वयवचनसमाादेवावसीयते ।
कथम् ? . असति तस्मिन् साध्येन हेतोरन्वयाभावात् ॥२९॥
असति तस्मिन्व्यतिरेके बुद्ध्यध्यवसिते साध्येन हेतोरन्वयस्य बुद्धयाऽवसितम्याभावात् । साध्ये नियतं साधनमन्वयवाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीत स्यात् । साध्याभावे च साधनाभावगतिः व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यादन्वयवाक्येऽवसितो व्यतिरेकः ।
तथा वैधपेणाप्यन्वयगतिः ॥३०॥ तथेति । यथाऽन्वयवाक्ये तथ अर्थादेव वैधर्येण प्रयोगेऽन्वयस्यानभिधीयमानस्यापि गतिः ।
कथम् ? असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः ॥३१॥
असति तस्मिन्नन्वये बुद्धिगृहीते, साध्याभावे हेत्वभावस्य 'असिद्धेः ' अनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरेकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वभावे नियतः साध्याभावो न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिः ' अन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्याभिधानसामर्थ्यात् व्यतिरेकवाक्येऽन्वयगतिः ।