________________
न्यायविन्दुटीका [३ परिच्छेदः यदि नामाकाशादौ साध्याभावे साधनाभावः , तथापि किमिति हेतुसंभवे साध्यसंभव इत्याह[५२ ] न हि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्ता
वपरस्य नियमेन निवृत्तिः ॥ ३२॥
नहीति । स्वभावेन प्रतिबन्धो यः तस्मिन्नसति एकस्य साध्यस्य निवृत्त्या नापरस्य साधनस्य 'नियमेन' युक्ता नियमवती निवृत्तिः । स च द्विप्रकारः सर्वस्य, तादात्म्यलक्षणस्तदु
त्पत्तिलक्षणश्चेत्युक्तम् ॥ ३३ ॥
स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य प्रतिबद्धस्य । तादात्म्यं ' लक्षणं' निमित्तं यस्य स तथोक्तः । तदुत्पत्तिः लक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्वः तस्य स प्रतिबन्धविषयोऽर्थः स्वभावः कारणं वा स्यात् । अन्यस्मिन् प्रतिबद्धत्वानुपपत्तेः । तस्माद्विप्रकारः स इति उक्तं ' स च साध्येऽर्थे लिङ्गस्य' इत्यत्रान्तरेऽभिहितम् ।
तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मानिवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोलिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यवाक्यद्वयप्रयोगः ॥ ३४॥
हिर्यस्मादर्थे । यस्मात् स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावः . तेन साध्यस्य निवृत्तौ साधनस्य निवृत्तिं कथयता प्रतिबन्धो निवर्त्य निवर्तकयोः दर्शनीयः । यदि हि साधनं साध्ये प्रतिबद्धं भवेत् , एवं साध्यनिवृत्तौ तत् नियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्श नीयः तस्मात् साध्यनिवृत्तौ यत्साधननिवृत्तिवचनं तेनाक्षिप्तं प्रतिबन्धो पदर्शनम् । यच्च तदाक्षिप्तप्रतिबन्धोपदर्शनं तदेवान्वयवचनम्