________________
३ परिच्छेदः] न्यायविन्दुटीका प्रतिबन्धश्चेदवश्यं दर्शयितव्यः, न बक्तव्यस्तयन्वयः । यस्मात् दृष्टान्ते प्रमाणेन प्रतिबन्धो दीमान एवान्वयो नापरः कश्चित् , तस्मान्निवनिवर्तकयोः प्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वये व्यतिरेकगातिय॑तिरेके चान्वयगतिः , तस्मादेकेनापि सपक्षे चास[ ५३ ]पक्षे च सत्त्वासत्त्वयोः ख्यापनं स्तम् । अन्वयो ' मुखं ' उपायोऽभिधेयत्वाद्यस्य तदन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इतिः हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिः तस्मादेकस्मिन्साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्तव्यः । अर्थगत्यर्थों हि शब्दप्रयोगः । अर्थश्चेदवगतः किं शब्दप्रयोगेण । एकमेव त्वन्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् । अनुपलब्धावपि-यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्तेऽनुपलभ्यमानं तादृशम
सदिति प्रतीतरन्वयसिद्धिः ॥ ३५ ॥
अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः । ' यत्सदुपलब्धिलक्षणप्राप्तं ' इति साध्यस्यासव्यवहारयोग्यत्वस्य निवृत्तिं दृश्यसत्त्वरूपामाह । 'तदुपलभ्यत एव' इति अनुपलम्भस्य निवृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । यदि च साधनसंभवेऽपि साध्यनिवृत्तिर्भवेत् , न साधनाभावेन व्याप्ता भवेत् । अतो व्याप्ति प्रतिपद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः । अत एवाह - अनुपलभ्यमानं ' तादृशं' इति दृश्यं असदिति 'प्रतीतेः ' संप्रत्ययात् अन्वयसिद्धिरिति ।
द्वयोरप्यनयोः प्रयोगे नावश्यं पक्षनिर्देशः ॥३६॥
यतश्च साधनं साध्यधर्मप्रतिबद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोः, तस्मात् पक्षोऽवश्यमेव न निर्देश्यः । यत्साधनं साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्टात् साध्यप्रतीतिः , अतो न किंचित् साध्यानर्देशेनेति ।