________________
न्यायाबिन्दुटौका [३ परिच्छेदः एतमेवार्थमनुपलब्धिप्रयोगे दर्शयति । अत्र साधर्म्यवत्प्रयोगेऽपि - यदुपलब्धिलक्षणप्राप्त सन्नोपश्यते सोऽसयवहारविषयः, नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति ॥ ३७॥
साधर्म्यवति प्रयोगेऽपि सामर्थ्यादेव ' नेह घटः' इति भवति । किं पुनस्तत्सामर्थ्यमित्याह । यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते इति अनुपलम्भानुवादः । [५४] सोऽसद्व्यवहारविषय इत्यसद्व्यवहारयोग्यत्वविधिः । तथा च सति दृश्यानुपलम्भोऽसद्व्यवहारयोग्यत्वेन व्याप्तो दर्शितः । नोपलभ्यत इत्यादिना साध्यधर्मिणि सत्त्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधर्मिणि न भवेत् साधनधर्मोऽपि न भवेत् , साध्यनियतत्वात् तस्य साधनधर्मस्येति · सामर्थ्यम् ' ।
तथा वैधर्म्यवत्प्रयोगेऽपि -- यः सद्यवहारविषय उपलाधलक्षणप्राप्तः स उपलभ्यत एव; न तथात्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्यवहारविषय इति भवति ॥ ३८ ॥
यथा साधर्म्यवत्प्रयोगे तथा वैधर्म्यवत्प्रयोगेऽपि सामर्थ्यादेव 'नेह सद्व्यवहारविषयोऽस्ति घटः' इति भवति । सामर्थ्य दर्शयितुमाह । यः सद्व्यवहारविषय इति विद्यमानः । उपलब्धिलक्षणप्राप्त इति दृश्यः । इत्येषा साध्यनिवृत्तिः । स उपलभ्यत एवेति साधननिवृत्तिरिति । अनेन च साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथाऽन्यो दृश्य उपलभ्यते न तथाऽत्र प्रदेशे 'तादृशः' इति दृश्यो घट उपलभ्यते इत्यनेन साध्यनिवृत्तेापिका साधननिवृत्तिरसति साव्यधार्मिणि दर्शिता ।
यदि च न साध्यधर्मः साध्यधर्मिणि भवेत् साधनधर्मोऽपि न भवेत् अस्ति च साधनधर्म इति ' सामर्थ्यात्'। ततः सामर्थ्यात् 'नास्त्यत्र घटः' इति प्रतीतेन पक्षनिर्देशः । एवं कार्यस्वभावहेत्वोरपि सामर्थ्यात् संप्रत्यय इति न पक्षनिर्देशः ।