________________
३ परिच्छेदः] न्यायबिदुटीका
कीदृशः पुनः पक्ष इति निर्देश्यः ॥ ३९ ॥ कीदृशः पुनरर्थः पक्ष इत्यनेन शब्देन 'निर्देश्यः' वक्तव्य इति ।
आहस्वरूपेणैव खयमिष्टो ऽनिराकृतः पक्ष इति ॥४०॥
स्वरूपेणैवेति साध्यत्वेनैव । स्वयमिति वादिना । इष्ट इति नोक्त एवापि त्विष्टोऽपीत्यर्थः । एवंभूतः सन् प्रत्यक्षादिभिरनिराकृतो यो ऽर्थः स पक्ष इत्युच्यते ॥ अथ यदि न [५५ ] पक्षो निर्देश्यः, कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तम् अपि त्वसाध्यं केचित्साध्यं साध्यं चासाध्यं प्रतिपन्नाः । तत् साध्यासाध्यविप्रतिपत्तिनिराकरणार्थं पक्षलक्षणमुक्तम् ।
स्वरूपेणेष्ट इत्यस्य विवरणं--
स्वरूपेणेति साध्यत्वेनेष्टः ॥४१॥
साध्यत्वेनेष्ट इति । पक्षस्य साध्यत्वात् नापरमास्ति रूपम् । अतः स्वरूपं साध्यत्वमिति ।
एवशब्दं विवरीतुमाह-- स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि ॥४२॥
स्वरूपेणैवेति ॥ ननु चैवशब्दः केवल एव प्रत्यवमष्टव्यः, तत्किमर्थं स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत् साधनत्वेन निर्दिष्टं तत् साधनत्वेनेष्टम् , असिद्धत्वाच्च साध्यत्वेनापीष्टं; तस्य निवृत्त्यर्थ एवशब्दः ।
तदुदाहरति-- यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात्साध्यं न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाप्यभिधानात् ॥ ४३ यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः । शब्देऽ