________________
न्यायबिन्दुटीका [३ परिच्छेदः सिद्धत्वात्साध्यामित्यनेन साध्यत्वेनेष्टिमाह । तदिति चाक्षुषत्वम् इहेति शब्दे । न साध्यत्वनैवेष्टमिति साध्यत्वेनष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीष्ट, न साध्यत्वेनैवेति ।
[५६ ] स्वयमिति - वादिना । ॥ ४४ ॥
स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह । वादिनेति । स्वयंशब्दो निपातः , आत्मन इति षष्ठ्यन्तस्यात्मनेति च तृतीयान्तस्यार्थे वर्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च संबन्धिशब्दः । वादी च प्रत्यासन्नः । ततो यस्य वादिन आत्मा तृतीयार्थयुक्तः स एव तृतीयार्थयुक्तों निर्दिष्टो वादिनेति । न तु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह
यस्तदा साधनमाह ॥ ४५ ॥ यस्तदेति वादकाले साधनमाह । अनेकवादिसंभवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् । यद्येवं, वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुक्तेन ? अनेन 'तदा' वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः , स एव साध्यः, नेतर इत्युक्तं भवति । वादिनो ऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् ।
___ अथ कस्मिन्सति अन्यधर्मसाध्यत्वस्य संभवो यन्निवृत्यर्थ चेदं वक्तव्यमित्याह-- एतेन - यद्यपि कचिच्छास्त्रे स्थितः साधनमाह , तच्छास्त्रकारेण तस्मिन्धर्मिण्यनकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति ॥ ४६॥
तच्छास्त्रकारेणेति । यत् शास्त्रं तेन वादिना ऽभ्युपगतं • तच्छास्त्रकारेण' तास्मन्साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे