________________
३ परिच्छेदः] न्यायाबिन्दुटोका .
५७ सति अन्यधर्मसाध्यत्व संभवः । तथा हि । शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । [सा] अनेनापास्यते ; अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति ।
ननु च शास्त्रानपेक्षं वस्तुबलप्रवृत्तं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि 'क्वचिच्छास्त्रे स्थितः ' इति किंचिच्छास्त्रमभ्युपगतः साधनमाह; तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदमुक्तम् । [५७ ] इष्ट इति, यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन
साध्यः ॥ ४७ ॥ इष्ट इति । इष्टशब्दमुपक्षिप्य व्याचष्टे । 'यत्रार्थे ' आत्मनि ["विवादः '] विरुद्धो वादः प्रक्रान्तो ' नास्त्यात्मा' इत्यात्मप्रतिषेधवादः आत्मसत्तावादविरुद्धः ; विधिप्रतिषेधयोर्विरोधात् । तेन विवादेन हेतुना साधनमुपन्यस्तम् । 'तस्य' आत्मार्थस्य ‘सिद्धिं ' निश्चयमिच्छता वादिना सोऽर्थः साध्य इत्युक्तं भवति इष्टशब्देन । यत्तत् ' इत्युक्तं भवति' इतिग्रहणमन्ते, तदिहापेक्ष्य वाक्यं परिसमापयितव्यम् । यद्यपि परार्थानुमाने उक्त एव साध्यो युक्तः , 'अनुक्तोऽपि तु वचनेन साध्यः'; सामोक्तत्वात्तस्य । ___कुत एतदित्याह--
तदधिकरणत्वाद्विवादस्य ॥ ४८ ॥ तदित्यादि । तदिति । सः ' अधिकरणं' आश्रयो यस्य स तदधिकरणो विवादः तस्य भावस्तत्त्वं तस्मादिति । एतदुक्तं भवति । यस्मात् विवादं निराकर्तुमिच्छता वादिना साधनमुपन्यस्तं तस्मात् यत् अधिकरणं विवादस्य तदेव साध्यम् ; यतो विरुद्धं वादमपनेतुं साधनमुपन्यस्तम् । तच्चेन्न साध्यं, किमिदानी जगति नियत किंचित् साध्यं स्यादिति ?