________________
५८
न्यायबिन्दुटीका
[ ३ परिच्छेदः
अनुक्तमपि परार्थानुमाने साध्यमिष्टम् । तदुदाहरति
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छ्यनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता | तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति ॥ ४९ ॥
परार्था इति । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी । परस्माथि परार्था इति साध्यम् पारार्थ्यम् । संघातत्वादिति हेतुः । व्याप्तिविषयप्रदर्शनं शयनासद्याङ्गवदिति । शयनमासनं च ते आदी यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम् । [ ५८ ] तद्वदत्र प्रमाणे यदव्यात्मार्थाचक्षुरादय इत्यात्मार्थता नोक्ता; अनुक्ताऽप्यात्मार्थता साध्या । तथा हि । साङ्ख्येनोक्तं ' अस्त्यात्मा' । तद्विरुद्धं बौद्धेनोक्तं ' नास्त्य त्मा' इति । ततः साङ्ख्येन स्ववाद - विरुद्धं बौद्धवादं हेतुकृत्य विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्तम् । अतोऽनुक्ताप्यात्मार्थता साध्या तदधिकरणत्वाद्विवादस्य । शयनासनादिषु हि पुरुषोपभोगाव्वात्मार्थत्वेनान्वय न प्रसिद्धः ; संघातत्वस्य परार्थ [त्व]मात्रेण तु सिद्ध: । ततः परार्था इत्युक्तम् । चक्षुरादय इत्यत्रादिग्रहणाद्विज्ञानमपि परार्थं साधयितुमिष्टम् । विज्ञानाच्च पर आत्मैव स्यात् । परस्यार्थकारि विज्ञानं सेत्स्यतीति सामर्थ्यादात्मार्थत्वं सिध्यति चक्षुरादीनामिति मत्वा परार्थ - ग्रहणं कृतम् । ‘तेन' इष्टसाध्यवचनेन 'नोक्तमात्रं ' अपि तु प्रतिवादिनो विवादास्पदत्वाद्वादिनः साधयितुमिष्टं उक्तमनुक्तं वा प्रकरणगम्यं ' साध्यमित्युक्तं भवति 1
9
अनिराकृत इति एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निरात्रियते न स पक्ष इति प्रदर्शनार्थम् ॥ ५० ॥
अनिराकृत इति व्याख्येयम् । 6 एतत् ' इत्यनन्तरप्रक्रान्तं यत् पक्षलक्षणमुक्तं साध्यत्वेनेष्टेत्यादि । एतल्लक्षणेन योगेऽप्यर्थो न पक्ष इति ' प्रदर्शनार्थं ' प्रदर्शनाय अनिराकृतग्रहणं कृतम् । कीटशोऽर्थो न पक्षः साधयितुमिष्टोऽपीत्याह । यः साधयितुमिष्टोऽर्थः