________________
३ परिच्छेदः] न्यायविदुटीका
५९ प्रत्यक्षं चानुमानं च प्रतीतिश्च स्ववचनं च, तैः 'निराक्रियते' विपरीतः साध्यते न स पक्ष इति । तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति। ५१
___ तत्रेति तेषु चतुर्पु प्रत्यक्षादिनिराकृतेषु । प्रत्यक्षनिराकृतः कीदृशः । यथेति । यथायं प्रत्यक्षनिराकृतः तथान्येऽपि द्रष्टव्या इति यथाशब्दार्थः । श्रवणेन ग्राह्यः श्रावणः , न श्रावणः 'अश्रावणः'; श्रोत्रेण न ग्राह्य इति प्रतिज्ञार्थः । श्रोत्राग्राह्यत्वं शब्दस्य प्रत्यक्षसिद्धन श्रोत्रग्राह्यत्वेन बाध्यते । [५९ ]अनुमाननिराकृतो यथा-नित्यः शब्द इति ॥५२॥
अनुमाननिराकृतः । नित्यः शब्द इति शब्दस्य प्रतिज्ञातं नित्यत्वं अनित्यत्वेनानुमानसिद्धेन निराक्रियते । प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति ॥५३॥
प्रतीत्या निराकृतः । अचन्द्र इति । चन्द्रशब्दवाच्यो न भवति शशीति प्रतिज्ञातार्थः । अयं च प्रतीत्या निराकृतः । प्रतीतोऽर्थ उच्यते विकल्पविज्ञानविषयः । 'प्रतीतिः ' प्रतीतत्वं विकल्पविज्ञानविषयत्वमुच्यते । तेन विकल्पविज्ञानविषयत्वेन प्रतीतिरूपेण शशिनश्चन्द्रशब्दवाच्यत्वं सिद्धमेव । तथा हि । यत् विकल्पज्ञानप्रायं तत् शब्दाकारसंसर्गयोग्यम् । [यच्च शब्दाकारसंसर्गयोग्यं ] तत् सांकेतिकन शब्देन वक्तुं शक्यम् । अतः प्रतीतिरूपेण विकल्पविज्ञानविषयत्वेन सिद्धं चन्द्रशब्दवाच्यत्वमचन्द्रत्वस्य बाधकं द्रष्टव्यम् । स्वभावहेतुश्च प्रतीतिः । यस्मात् विकल्पविषयत्वमात्रानुबन्धिनि सांकेतिकशब्दवाच्यता; ततः स्वभावहेतुसिद्धं चन्द्रशब्दवाच्यत्वमवाच्यत्वस्य बाधक द्रष्टव्यम् । खवचननिराकृतो यथा-नानुमानं प्रमाणम् ॥ ५४ ॥ ___स्ववचनं ' प्रतिज्ञार्थस्यात्मीयो वाचकः शब्दस्तेन निराकृतः प्रतिज्ञार्थो न साध्यः । यथा - नानुमानं प्रमाणम् । अत्रानुमानस्य प्रामाण्यनिषेधः प्रतिज्ञार्थः । स ' नानुमानं प्रमाणं' इत्यनेन स्ववाच