________________
न्यायाबिन्दुटोका [३ परिच्छेदः केन वाक्येन बाध्यते । वाक्यं ह्येतत् प्रयुज्यमानं वक्तुः शाब्दस्य प्रत्ययस्य सदर्थत्वमिष्टं सूचयति । तथाहि । मद्वाक्याद्योऽर्थसंप्रत्ययः तवोत्पद्यते सोऽसत्यार्थ इति दर्शयन् वाक्यमेव नोच्चारयेद्वक्ता । वचनार्थश्चेदसत्यः परेण ज्ञातव्यः , वचनमपार्थकम् । योऽपि हि 'सर्व मिथ्या ब्रवीमि' इति वक्ति सोऽप्यस्य वाक्यस्य सत्यार्थत्वमादर्शयन्नेव वाक्यमुच्चारयति । यद्येतद्वाक्यं सत्यार्थमादार्शतम् , एवं वाक्यान्तराण्यात्मीयान्य [ ६० ] सत्यार्थानि दर्शितानि भवन्ति । एतदेव तु यद्यसत्यार्थम् , अन्यान्यसत्यार्थानि न दर्शितानि भवन्ति । ततश्च न किंचिदुच्चारणस्य फलमिति नोच्चारयेत् । तस्माद्वाक्यप्रभवं वाक्यार्थालम्बनं विज्ञानं सत्यार्थं दर्शयन्नेव वक्ता वाक्यमुच्चारयति । तथा च सति बाह्यवस्तुनान्तरीयकं शब्दं दर्शयता शब्दजं विज्ञानं सत्यार्थ दर्शयितव्यम् । ततो बाह्यार्थकार्याच्छब्दादुत्पन्नं विज्ञानं सत्यार्थमादर्शयता कार्यलिङ्गजमनुमानं प्रमाणं शाब्दं दर्शितं भवति । तस्मात् ' नानुमानं प्रमाणम् ' इति ब्रुवता शाब्दस्य प्रत्ययस्य असन् ग्राह्य उक्तः । असदर्थत्वमेव ह्यप्रामाण्यमुच्यते; नान्यत् । शब्दोच्चारणसामर्थ्याच्चाविनाभावी स्वशब्दो दर्शितः । तथा च सन्नों दर्शितः । ततः कल्पितादर्थकार्याच्छब्दात् शाब्दप्रत्ययार्थम्यानुमितं सत्त्वं प्रतिज्ञायमानं असत्त्वं प्रतिबध्नाति । तदेवं स्ववचनानुमितेन सत्त्वेनासत्त्वं वाच्यमानं ववचनेन बाधितमुक्तमित्ययमत्रार्थः ।
अन्ये त्वाहुः । अभिप्रायकायीच्छब्दात् जातं ज्ञानमभिप्रायालम्बनं सदर्थमिच्छतः शब्दप्रयोगः । तेनाप्रामाण्यं प्रतिज्ञातं बाध्यत इति । तदयुक्तम् । यत इह प्रतीतेः स्वभावहेतुत्वं स्ववचनस्य च कार्यहेतुत्वं कल्पितमिष्टम् ; न वास्तवम् । अभिप्रायकार्यत्वं च वास्तवमेव शब्दस्य । ततस्तदिह न गृह्यते । किं च यथाऽनुमानमनिच्छन् वयव्यभिचारित्वं धूमस्य न प्रत्येति; तथा शब्दस्याप्यभिप्रायाव्याभिचारित्वं न प्रत्येष्यति । बाह्यवस्तुप्रत्यायनाय च शब्दः प्रयुज्यते । तन्न शब्दस्याभिप्रायाविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । अपि च न स्वाभिप्रायनिवेदनाय शब्द उच्चार्यते, अपि