________________
३ परिच्छेदः] न्यायबिन्दुटीका तु बाह्यवस्तुसत्त्वप्रतिपादनाय । तस्माद्बाह्यवस्त्वविनाभावित्वाभ्युपगमपूर्वकः शब्दप्रयोगः । ततः पूर्वकमेव व्याख्यानमनवद्यम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति ॥ ५५॥ .
[' इति '] एवं सति अनिराकृतग्रहणेन अनन्तरोक्ताश्चत्वारः पशवदाभासन्त इति ‘पक्षाभासाः' निरस्ता भवन्ति ।
संप्रति पक्षलक्षणपदानि येषां व्यवच्छेदकानि तेषां व्यवच्छेदेन यादृशः पक्षार्थो लभ्यते तं दर्शयितुं व्यवच्छेद्यान् संक्षिप्य दर्शयति-- [६१ ] एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवा दर्शितं भवति ॥५६ ॥
एवमित्यनन्तरोक्तक्रमेण सिद्धस्य · विपर्ययेण ' विपरीतत्वेन हेतुना साध्यो द्रष्टव्यः । यस्मादर्थात् सिद्धोऽर्थो विपरीतः , स साध्य इत्यर्थः । सिद्धश्च विपरीतोऽसिद्धस्य । तस्मात् ' असिद्धः' साध्यः । असिद्धोऽपि न सर्वः अपि तु सौधनत्वेनोक्तस्यासिद्धस्यापि विपर्ययेण, स्वयं वादिना साधयितुमनिष्टस्यासिद्धस्य विपर्ययेण, तथा उक्तमात्रस्यासिडस्यापि विपर्ययेण, तथा निराकृतस्यासिद्धस्यापि विपर्ययेण साध्यः । यश्चायं पञ्चभिर्व्यवच्छेदै रहितोऽर्थः असिद्धः असाधनं वादिनः स्वयं साधयितुमिष्टः उक्तोऽनुक्तो वा प्रेमाणैरनिराकृतः साध्यः । स एवासौ — स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः ' एतैः पदैरुक्त इत्यर्थः । यश्चायं साध्यः स — पक्षः' उच्यते । इतिशब्द एवमर्थे; एवं पक्षलक्षणमनवद्यमिति । अविद्यमानं 'अवा' दोषो यस्य तत् 'अनवद्यम् । 'दर्शितं' कथितम् ।
त्रिरूपलिङ्गाख्यानं परिसमापय्य प्रसङ्गागतं च पक्षलक्षणमभि| धाय हेत्वाभासान्वक्तुकामस्तेषां प्रस्तावं रचयति