________________
__ न्यायबिन्दुटीका [३ परिच्छेदः त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्या
नुक्तौ साधनाभासः ॥५७ ॥ त्रिरूपेत्यादिना । एतदुक्तं भवति । त्रिरूपलिङ्गाख्यानं वकुकामेन स्फुटं तद्वक्तव्यम् । एवं च तत् स्फुटमुक्तं भवति यदि तच्च तत्प्रतिरूपकं चोच्यते । हेयज्ञाने हि [ सति ] तद्विविक्तमुपादेयं सुज्ञातं भवतीति । त्रिरूपलिङ्गाख्यानं परार्थानुमानमिति प्रागुक्तम् | तत्रेति तस्मिन्सति । त्रिरूपलिङ्गाख्याने परार्थानुमाने सतीत्यर्थः । त्रयाणां रूपाणां मध्ये एकस्याप्य [ ६२ ] नुक्तौ; अपिशब्दाद्वयोरपि । ['साधनाभासः '] साधनस्याभासः, सदृशं साधनस्य न साधनमित्यर्थः । त्रयाणां रूपाणां न्यूनता नाम साधनदोषः । उक्तावप्यसिद्धौ संदेहे वा प्रतिपाद्यप्रतिपादकयोः।५८
न केवलमनुक्तौ उक्तावप्यसिद्धौ संदेहे वा । कस्येत्याह । 'प्रतिपाद्यस्य' प्रतिवादिनः 'प्रतिपादकस्य ' च वादिनः हेत्वाभासः।
अथ कस्य रूपस्यासिद्धौ संदेहे वा किंसंज्ञको हेत्वाभास इत्याहएकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे
वाऽसिद्धो हेत्वाभासः ॥ ५९॥
एकस्य रूपस्येति । धर्मिणा सह सम्बन्धः ‘धर्मिसंबन्धः' । धर्मिणि सत्त्वं हेतोः । तस्यासिद्धौ संदेहे वा असिद्धसंज्ञको हेत्वाभासः । असिद्धत्वादेव च धर्मिण्यप्रतिपत्तिहेतुः न साध्यस्य न विरुद्धम्य न संशयस्य हेतुरपि त्वप्रतिपत्तिहेतुः, कस्यचिदतः प्रतिपत्तिरिति कृत्वा । अयं चार्थो ऽसिद्धसंज्ञाकरणादेव प्रतिपत्तव्यः ।
उदाहरणमाहयथा- अनित्यः शब्द इति साध्ये चाक्षुषत्व
मुभयासिद्धम् ॥ ६०॥ यथेत्यादि । ' अनित्यः शब्दः' इत्यानित्यत्वविशिष्टे शब्दे