________________
३ परिच्छेदः] न्यायबिन्दुटीका साध्ये 'चाक्षुषत्वं' चक्षुग्राह्यत्वं शब्दे द्वयोरपि वादिप्रतिवादिनोरसिद्धम् ।
चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धं विज्ञानेन्द्रियायुनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्तस्य च तरुष्वसंभवात् ॥ ६१ ॥
चेतनास्तरव इति तरूणां चैतन्ये साव्ये सर्वा त्वक 'सर्वत्वक् ' तस्या अपहरणे सति मरणं दिगम्बरैरुपन्यस्तं प्रतिवादिनो बौद्धस्यासिद्धम् । कस्मादसिद्धमित्याह । [६३] विज्ञानं चेन्द्रियं चायुश्च । तत्र ' विज्ञानं ' चक्षुरादिजनितम् । रूपादिविज्ञानोत्पत्त्या यदनुमितं कायान्तर्भूतं चक्षुर्गोलकादिस्थितरूपं तत् ' इन्द्रियम् ' । 'आयुः' इति लोके प्राणा उच्यन्ते । न चागमसिद्धमिह युज्यते वक्तुम् । अतः प्राणस्वभावमायुरिह । तेषां 'निरोधः' निवृत्तिः । स ' लक्षणं' तत्त्वं यस्य ततथोक्तम् । तथाभूतस्य मरणस्यानेन बौद्धेन प्रतिज्ञातत्वात् । यदि नामैवं, तथापि कथमसिहमित्याह । 'तस्य च' विज्ञानादिनिरोधात्मकस्य तरुष्वसंभवात् । सतापूर्वको निरोधः । ततश्च यो विज्ञाननिरोधं तरुष्विच्छेत् स कथं विज्ञानं नेच्छेत् । तस्मात् विज्ञानानिष्टेः निरोधोऽपि नेष्टस्तरुषु । ननु च शोषोऽपि मरणमुच्यते; स च तरुषु सिद्धः । सत्यम् । केवलं विज्ञानसत्तया व्याप्तं यन्मरणं तदिह हेतुः - विज्ञाननिरोधश्च तत्सतया व्यातो [यतः, - न शोषमात्रम् । ततो यन्मरणहेतुः तत्तरुष्वसिद्धम् ; यत्तु सिद्धं शोषात्मकं तदहेतुः । दिगम्बरस्तु साध्येन व्याप्तमव्याप्तं वा मरणमविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् । अज्ञानात्सिद्धं शोषरूपम् , शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रतिवादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोऽप्यसिद्ध स्यादिति न्यायः ।
अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनित्यं वा साङ्ख्यस्य स्वयं वादिनोऽसिडम् । ६२ ।
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते