________________
न्यायाबिन्दुटीका [३ परिच्छेदः सुखादयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा लिङ्गमुपन्यस्तम् । ये उत्पत्तिमन्तोऽनित्या वा ते न चेतना यथा रूपादयः । तथा चोत्पत्तिमन्तोऽनित्या वा सुखादयः तस्मादचेतनाः । चैतन्यं तु पुरुषत्य स्वं रूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च द्वयमपि साङ्ख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः परम्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वं, सतश्च निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । तादृशं च द्वयमपि साङ्ख्यस्यासिद्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानात् वादिनोऽसिद्धम् । [६४ ] यदि त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रमाणं वादिनो ज्ञातं म्यात् , वादिनोऽपि सिद्ध स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ।
संदिग्धासिद्ध दर्शयितुमाहतथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ॥ ६३ ॥
स्वयमिति हेतोरात्मनः संदेहेऽसिद्धः । तदाश्रयणस्य वेति । तस्य हेतोराश्रयणं आश्रीयतेऽस्मिन्हेतुरिति आश्रयण ' हेतोर्व्यतिरिक्त आश्रयभूतः साध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते । तस्याश्रयणस्य संदेहे संदिग्धः । . स्वात्मना संदिह्यमानमुदाहर्तुमाहयथा बाष्पादिभावेन संदिह्यमानो भूतसंघातो अग्निसिडावुपदिश्यमानः संदिग्धासिद्धः ॥ ६४ ॥
यथेति । बाष्प आदिर्यस्य स बाष्पादिः तद्भावेन बाष्पादित्वेन संदिद्यमानः । भूतसंघात इति । 'भूतानां' पृथिव्यादीनां ' संघातः ' समूहः । 'अमिसिद्धौ' अमिसिद्ध्यर्थमुपादीयमानोऽसिद्धः । एतदुक्तं भवति । यदा धूमोऽपि बाप्पादित्वेन संदिग्धो भवति तदा असिद्धः , गमकरूपानिश्चयात् । धूमतया निश्चितो बह्निजन्यत्वाद्गमकः । यदा तु संदिग्धस्तदा न गमक इति असिद्धताख्यो दोषः । ___ आश्रयणासिद्धमुदाहरतियथेह निकुञ्जे मयूरः केकायितादिति ॥६५॥