________________
३ परिच्छेदः] न्यायबिदुटीका
यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यङ्निर्गतेन प्रच्छादितो भूभागो । निकुञ्जः' । मयूर इति साध्यम् । केकायितादिति हेतुः । केकायितं मयूरध्वनिः ।
कथमाश्रयणासिद्ध इत्याह__ [६५ ] तदापातदेशविभ्रमे ॥६६॥
तदापात इति । तस्य केकायितस्य 'आपातः' आगमनं तस्य देशः स उच्यते यस्माद्देशादागच्छति केकायितम् । तस्य 'विभ्रमे ' व्यामोहे सति अयमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुलेषु सत्सु यदा केकायितापातनिकुञ्जे विभ्रमः 'किमस्मान्निकुञात्केकायितमागतमाहोस्विदस्मात् ' इति, तदा आश्रयणासिद्ध इति ।
धर्मिणोऽसिद्धावप्यसिद्वत्वमुदाहरति--- धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् ॥ ६७॥
यथेति । सर्वस्मिन् ‘गतः' स्थितः सर्वगतः ; व्यापीति यावत् । व्यापित्वे आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देशे उपलभ्यमानाः सुखदु:खेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत् , कथं दक्षिणापथे उपलब्धाः सुखादयो मव्यदेशे उपलभ्येरन् । तस्मात् सर्वगत आत्मा । तदिह बौद्ध स्यात्मैव न सिद्धः, किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् तस्य; इत्यसिद्धो हेत्वाभासः । पूर्वमाश्रयणसंदेहेन धर्मिणि संदेह उक्तः ; संप्रति त्वसिहो धर्युक्त इत्यनयोर्विशेषः । तदेवमेकस्य रूपस्य धर्मि[स]बद्धस्यासिद्धावसिद्धो हेत्वाभासः । तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनै
कान्तिको हेत्वाभासः ॥ ६८ ॥ तथा अपरस्यैकस्य रूपस्य असपक्षेऽसत्त्वाख्यस्य असिद्धावनैका- . न्तिको हेत्वाभासः । एकोऽन्त — एकान्तः ' निश्चयः । स प्रयोजन