________________
न्यायबिन्दुटीका [३ परिच्छेदः मस्येत्यैकान्तिकः, नैकान्तिकः । अनैकान्तिकः' । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयः अपि तु तद्विपरीतः संशयः ।
साव्येतरयोः संशयहेतुरनैकान्तिक उक्तः । तमुदाहरति[६६ ] यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये
प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः ___ सर्वत्रैकदेशे वा वर्तमानः ॥ ६९ ॥
यथेत्यादिना । नित्यत्वमादिर्यस्य स नित्यत्वादिको धर्मः । आदिशब्दादप्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं च परिगृह्यते । प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदिशब्दादनित्यत्वं पुनरनित्यत्वममूर्तत्वं च गृह्यते । शब्दम्य धर्मिणो नित्यत्वादिक धर्मे साध्ये प्रमेयत्यादिको धर्मोऽनैकान्तिकः । चतुर्णामपि विपक्षे ऽसत्त्वमसिद्धम् । तथाहि । नित्यः शब्दः प्रमेयत्वादाकाशवटवदिति प्रमेयत्वं सपक्षविपक्षव्यापि । अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदाकाशवटवच्चेत्यनित्यत्वं सपक्षकदेशवृत्ति, विद्यदादावस्ति नाकाशादौ ; विपक्षव्यापि, प्रयत्नानन्तरीयके सर्वत्र भावात् । अनित्यत्वात्प्रयत्नानन्तरीयकः शब्दो घटवद्विधुदाकाशवच्चेत्यनित्यत्वं विपक्षकदेशवृत्ति, विद्युदादावस्ति नाकाशादौ ; सपक्षव्यापि, सर्वत्र प्रयत्नानन्तरीयके भावात् । नित्यः शब्दो ऽमूर्तत्वादाकाशपरमाणुवकर्मघटवच्चेत्यमूर्तत्वमुभयैकदेशवृत्ति । उभयोरेकदेशः आकाशे कर्मणि च वर्तते ; परमाणौ तु सपक्षकदेशे, घटादौ च विपक्षैकदेशे, न वर्तते ; मूर्तत्वाद्धटपरमाणुप्रभृतनिाम् । नित्यास्तु परमाणवो वैशेषिकेरभ्युपगम्यन्ते । ततः सपक्षान्तर्गताः । अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वमसिद्धं विपक्षे । ततो ऽनैकान्तिकता । तथाऽस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ॥७॥
यथा चास्य रूपस्यासिद्धावनैकान्तिकः तथाऽस्यैव विपक्षे मसत्त्वाख्यस्य रूपस्य संदेहेऽनैकान्तिकः ।
तमुदाहरति