________________
३ परिच्छेदः] न्यायबिन्दुटोका यथा ऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये वक्तृत्वादिको धर्मः संदिग्ध
. विपक्षव्यावृत्तिकः ॥ ७१॥ यथेति । असर्वज्ञ इति असर्वज्ञत्वं साध्यम् । कश्चित् 'विवक्षितः' इति वक्तृरभिप्रेतः पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः, स यस्याम्ति स रागादिमानिति द्वितीयं साध्यम् । [६७ ] वाग्रहणं रागादिमत्त्वस्य पृथक्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते वक्तृत्वं' वचनशक्तिः तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनैकान्तिकः । संदिग्धा विपक्षाघ्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा संदिग्धम् । अतो न ज्ञायते वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वकृत्वम् ।
__ ननु च सर्वज्ञो वक्ता नोपलभ्यते, तत्कथं वचनं सर्वज्ञे संदिग्धम् ? अत एव -- .
सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहहेतुत्वात् । ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेावृत्तिः संदिग्धा ।।७२।।
सर्वज्ञो वक्ता नोपलभ्यते इति एवंप्रकारस्य' एवंजातीयकस्यानुपलम्भ[वाक्य]स्य संदेहहेतुत्वात् । कुत इत्याह । अहश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् । यतो ऽदृश्यविषयो ऽनुपलम्भः संशयहेतुर्न निश्चयहेतुः, 'ततः' असर्वज्ञविपक्षात्सर्वज्ञात् वक्तृत्वादेव्यावृत्तिः संदिग्धा ।
नानुपलम्भात् सर्वज्ञे वक्तृत्वमसळूमोऽपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न ; वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च । यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको
न सिध्यति । संदेहात् ॥७३ ॥