________________
न्यायविन्दुटीका [३ परिच्छेदः सर्वज्ञत्ववक्तत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणात् व्यतिरेको न सिध्यतीति संबन्धः । व्याप्तिमन्तं व्यतिरेकं दर्शयति । यः सर्वज्ञ इति साध्याभावरूपं सर्वज्ञत्वमनूद्य न स वक्ता भवतीति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधनाभावे नियतत्वात् साधनाभावेन व्याप्त उक्त इति व्याप्तिमानीदृशो ब्यतिरेकः विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिधयेत् । न चास्ति विरोधः । तस्मान्न सिध्यति । कुत इत्याह । संदेहात् । यतो विरोधाभावः तस्मात् संदेहः । संदेहाव्यतिरेकासिद्धिः ।
कथं विरोधाभावः ? द्विविधो हि पदार्थानां विरोधः ॥ ७४ ॥
हीति यस्माद्विविध एव विरोधो नान्यः ; तस्मान्न वक्तृत्वसर्वज्ञत्वयोर्विरोधः ।
कः पुनरसौ द्विविधो विरोध इत्याह-- अविकलकारणस्य भवतो ऽन्यभावे
अभावाविरोधगतिः ॥ ७५ ॥ अविकलकारणस्यति । 'अविकलानि' समग्राणि कारणानि यस्य स तथोक्तः । यस्य कारणवैकल्यादभावो न तम्य केनचिदपि विरोधगतिः । तदर्थमविकलकारणग्रहणम् । ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि कर्तुम् ; तत्कुतो विरोधगतिः ? एवं तर्हि - [' अभावात्'] अविकलकारणस्यापि यत्कृतात् कारणवैकल्यादभावः तेन विरोधगतिः । तथा च सति यो यस्य विरुद्धः स तस्य किंचित्कर एव । तथा हि । शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नन् शीतस्पर्शस्य निवर्तको विरुद्धः । तस्माद्धेतुवैकल्यकारी विरुद्धो जनक एव । निवर्त्यस्य सहानघस्थानविरोधश्वायम् । ततो विरुद्धयोरेकस्मिन्नपि क्षणे सहावस्थानं परिहर्तव्यम् । दूरस्थयोर्विरोधाभावाच्च निकटस्थयोरेव निवर्त्यनिवर्तकभावः । तस्माद्यो यस्य निवर्तकः स तं, यदि परं, तृतीये क्षणे निवर्तयति । प्रथमे